top of page

NCERT Sanskrit Class 10 Chapter 10 - अन्योक्तयः


दशमः पाठः

अन्योक्तयः    


CBSE Sanskrit Textbook शेमुषी Shemushi Solutions (2024-25) Syllabus

NCERT Solutions for Class 10 Sanskrit Chapter 10 -  अन्योक्तयः

Shemushi (शेमुषी) Part -2 द्वितीयो भागः - दशमकक्ष्यायाः संस्कृतपाठ्यपुस्तकम्
Textbook Questions and answers

1.एकपदेन उत्तरं लिखत


(क) कस्य शोभा एकेन राजहंसेन भवति?

उत्तरम् - सरसः। 


(ख) सरसः तीरे के वसन्ति?

उत्तरम् - बकसहस्रम्।


(ग) कः पिपासितः म्रियते?

उत्तरम् - चातकः। 


(घ) के रसालमुकुलानि समाश्रयन्ते ?

उत्तरम् - भ्रमराः।


(ङ) अम्भोदाः कुत्र सन्ति ?

उत्तरम् - गगने। 


2.अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत


(क) सरसः शोभा केन भवति?

उत्तरम् - सरस- शोभाः राजहंसेन भवति।


(ख) चातकः किमर्थं मानी कथ्यते ?

उत्तरम् - चातकः केवलं पुरन्दरं याचते अथवा वने पिपासितो म्रियते।


(ग) मीन- कदा दीनां गतिं प्राप्नोति?

उत्तरम् - यदा सरोवरः सङ्कोचमञ्चति तदा मीनः दीनां गतिं प्राप्नोति।


(घ) कानि पूरयित्वा जलदः रिक्तः भवति?

उत्तरम् - नानानदीनदशतानि पूरयित्वा जलदः रिक्तः भवति।


(ङ) वृष्टिभिः वसुधां के आर्द्रयन्ति ?

उत्तरम् - केचित् अम्भोदाः वृष्टिभिः वसुधां आर्द्रयन्ति। 


3.अधोलिखितवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत

(क) मालाकारः तोयैः तरोः पुष्टिं करोति।

उत्तरम् - मालाकारः कैः तरोः पुष्टिं करोति?

 

(ख) भृङ्गाः रसालमुकुलानि समाश्रयन्ते।

उत्तरम् - भृङ्गाः कानि समाश्रयन्ते ।

 

(ग) पतङ्गाः अम्बरपथम् आपेदिरे।

उत्तरम् - के अम्बरपथम् आपेदिरे?

 

(घ) जलदः नानानदीनदशतानि पूरयित्वा रिक्तोऽस्ति।

उत्तरम् - कः नानानदीनदशतानि पूरयित्वा रिक्तोऽस्ति?

 

(ङ) चातकः वने वसति।

उत्तरम् - चातकः कुत्र वसति?


4.अधोलिखितयोः श्लोकयोः भावार्थं स्वीकृतभाषया लिखत –


(अ) तोयैरल्पैरपि ........................ वारिदेन।

   भावार्थः -    हे मालाकार ! ग्रीष्मकाले यदा सूर्यस्य तीक्ष्णतेजसि अपि अस्य वृक्षस्य पोषणं भवता किञ्चित् जलप्रदानेन वा कृतम् । किं वर्षाऋतौ मेघेन पोषणं उत्पद्येत, यः जगतः सर्वतः जलधाराणाम् अधः वर्षति ?


(आ) रे रे चातक ........................ दीनं वचः।

       भावार्थः -   अहो मम मित्र ! चातक ! सावधानेन मनसा क्षणं शृणुत, आकाशे बहवः मेघाः सन्ति, परन्तु ते सर्वे समानाः न सन्ति। केचिद् मेघाः वृष्ट्या भूमिम् आर्द्रां कुर्वन्ति, केचित् वृथा गर्जन्ति । अतः यं पश्यसि तस्य पुरतः दीनवचनं मा वद, सर्वेऽपि समानाः न स्युः ।


 5.अधोलिखितयोः श्लोकयोः अन्वयं लिखत –

(अ) आपेदिरे .................... कतमां गतिमभ्युपैति॥

उत्तरम् -

अन्वयः - पतङ्गाः अम्बरपथम् परितः आपेदिरे, भृङ्गाः रसालमुकुलानि समाश्रयन्ते । सरः त्वयि सङ्कोचम् अञ्चति, हन्त दीनदीन: मीनः नु कतमां गतिम् अभ्युपैतु ।

 

(आ) आश्वास्य .................... सैवतवोत्तमा श्रीः॥ 

उत्तरम् -  

अन्वयः - तपनोष्णतप्तम् पर्वतकुलम् आश्वास्य, उद्दामदावविधुराणि काननानि च (आश्वास्य), नानानदीनदशतानि पूरयित्वा च हे जलद ! यत् रिक्तः असि तव सा एव उत्तमा श्रीः । 

 

6.उदाहरणमनुसृत्य सन्धिं/सन्धिविच्छेदं वा कुरुत

(i) यथा- अन्य + उक्तयः = अन्योक्तयः

(क) ........ +  ........ = निपीतान्यम्बूनि

(ख) ........ + उपकारः = कृतोपकारः

(ग) तपन +  ........ = तपनोष्णतप्तम्

(घ) तव + उत्तमा =  ........ 

(ङ) न + एतादृशाः =  ........

उत्तराणि - 

(क) निपीतानि + अम्बूनि = निपीतान्यम्बूनि

(ख) कृत + उपकारः = कृतोपकारः

(ग) तपन + उष्णतप्तम् = तपनोष्णतप्तम्

(घ) तव + उत्तमा = तवोत्तमा 

(ङ) न + एतादृशाः = नैतादृशाः। 


(ii) यथा – पिपासितः + अपि = पिपासितोऽपि

(क) ........ +  ........= कोऽपि

(ख) ........+ ........= रिक्तोऽसि

(ग) मीनः + अयम् =  ........

(घ) सर्वे + अपि =  ........ 

उत्तराणि -

(क) कः + अपि = कोऽपि

(ख) रिक्तः + असि = रिक्तोऽसि

(ग) मीनः + अयम् = मीनोऽयम् 

(घ) सर्वे + अपि = सर्वेऽपि 


(iii) यथा – सरसः + भवेत् = सरसो भवेत्

(क) खगः + मानी =  ........

(ख) ........ + नु = मीनो नु

(ग) पिपासितः + वा =  ........ 

(घ) ........+ ........ = पुरतो मा

उत्तराणि -

(क) खगः + मानी = खगो मानी 

(ख) मीनः + नु = मीनो नु

(ग) पिपासितः + वा = पिपासितो वा 

(घ) पुरतः + मा = पुरतो मा


(iv) यथा – मुनिः + अपि = मुनिरपि

(क) तोयैः + अल्पैः =  ........

(ख) ........ + अपि = अल्पैरपि

(ग) तरोः + अपि =  ........ 

(घ) ........ + आर्द्रयन्ति = वृष्टिभिरार्द्रयन्ति।

उत्तराणि -

(क) तोयैः + अल्पैः = तोयैरल्पैः 

(ख) अल्पैः + अपि = अल्पैरपि

(ग) तरोः + अपि = तरोरपि 

(घ) वृष्टिभिः + आर्द्रयन्ति = वृष्टिभिरार्द्रयन्ति।


7.उदाहरणमनुसृत्य अधोलिखितैः विग्रहपदैः समस्तपदानि रचयत –

      विग्रहपदानि           समस्तपदानि 

यथा – पीतं च तत् पङ्कजम् = पीतपङ्कजम्

(क) राजा च असौ हंसः        =  ........

(ख) भीमः च असौ भानुः      =  ........

(ग) अम्बरम् एव पन्थाः       =  ........

(घ) उत्तमा च इयम् श्रीः       =  ........

(ङ) सावधानं च तत् मनः, तेन   =  ........

उत्तरम् - 

(क) राजा च असौ हंसः        = राजहंसः 

(ख) भीमः च असौ भानुः      = भीमभानुः 

(ग) अम्बरम् एव पन्थाः       = अम्बरपथम् 

(घ) उत्तमा च इयम् श्रीः       = उत्तमश्रीः 

(ङ) सावधानं च तत् मनः, तेन  = सावधानमनसा 

Comments


bottom of page