NCERT Sanskrit Class 10 Chapter 5 - सुभाषितानि
- samskritasabha
- Apr 13, 2024
- 3 min read
पञ्चमः पाठः
सुभाषितानि
CBSE Sanskrit Textbook शेमुषी Shemushi Solutions (2024-25) Syllabus
NCERT Solutions for Class 10 Sanskrit Chapter 5 - सुभाषितानि
Shemushi (शेमुषी) Part -2 द्वितीयो भागः - दशमकक्ष्यायाः संस्कृतपाठ्यपुस्तकम्
Textbook Questions and answers
1.एकपदेन उत्तरं लिखत
(क) मनुष्याणां महान् रिपुः कः?
उत्तरम् - आलस्यम्।
(ख) गुणी किं वेत्ति?
उत्तरम् - गुणम्।
(ग) केषां सम्पत्तौ च विपत्तौ च महताम् एकरूपता?
उत्तरम् - महताम्।
(घ) पशुना अपि कीदृशः गृह्यते?
उत्तरम् - उदीरितोऽर्थः।
(ङ) उदयसमये अस्तसमये च कः रक्तः भवति?
उत्तरम् - सविता (सूर्यः)।
2. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत-
(क) केन समः बन्धुः नास्ति?
उत्तरम् - उद्यमेन समः बन्धुः नास्ति।
(ख) वसन्तस्य गुणं कः जानाति ?
उत्तरम् - वसन्तस्य गुणं पिकः जानाति।
(ग) बुद्धयः कीदृश्यः भवन्ति ?
उत्तरम् - बुद्धयः परेङ्गितज्ञानफला भवन्ति।
(घ) नराणां प्रथमः शत्रुः कः?
उत्तरम् - नराणां प्रथमः शत्रुः क्रोधः।
(ङ) सुधियः सख्यं केन सह भवति?
उत्तरम् - सुधियः सख्यं सुधीभिः सह भवति।
(च) अस्माभिः कीदृशः वृक्षः सेवितव्यः ?
उत्तरम् - अस्माभिः फलच्छायासमन्वितः महावृक्षः सेवितव्यः।
3.अधोलिखिते अन्वयद्वये रिक्तस्थानपूति कुरुत –
(क.) यः .............. उद्दिश्य प्रकुप्यति तस्या ................ सः ध्रुवं प्रसीदति। यस्य ममः अकारणद्वेषि अस्ति , ................ तं कथं परितोषयिष्यति?
(ख) ................... संसारे खलु ................... निरर्थकम् नास्ति। अश्वः चेत् ............... वीरः, खरः ................ वहने (वीरः) (भवति)।
उत्तरम् -
(क) यः निमित्तम् उद्दिश्य प्रकुप्यति तस्या अपगमे सः ध्रुवं प्रसीदति। यस्य मनः अकारणद्वेषि अस्ति, जनः तं कथं परितोषयिष्यति?
(ख) विचित्रे संसारे खलु किञ्चित् निरर्थकम् नास्ति। अश्वः चेत् धावने वीरः, खरः भारस्य वहने (वीरः) (भवति)।
4.अधोलिखितानां वाक्यानां कृते समानार्थकान् श्लोकांशान् पाठात् चित्वा लिखत –
(क) विद्वान् स एव भवति यः अनुक्तम् अपि तथ्यं जानाति।
उत्तरम् - अनुक्तमप्यूहति पण्डितो जनः।
(ख) मनुष्यः समस्वभावैः जनैः सह मित्रतां करोति।
उत्तरम् - समानशीलव्यसनेषु सख्यम्।
(ग) परिश्रमं कुर्वाणः नरः कदापि दुःखं न प्राप्नोति।
उत्तरम् - नास्त्युद्यमसमो बन्धुः कृत्वा यं नावसीदति।
(घ) महान्तः जनाः सर्वदैव समप्रकृतयः भवन्ति।
उत्तरम् - सम्पत्तौ च विपत्तौ च महतामेकरूपता।
5.यथानिर्देशं परिवर्तनं विधाय वाक्यानि रचयत –
(क) गुणी गुणं जानाति। (बहुवचने)
उत्तरम् - गुणिनः गुणं जानान्ति।
(ख) पशुः उदीरितम् अर्थं गृह्णाति। (कर्मवाच्ये)
उत्तरम् - पशुना उदीरितोऽर्थः गृह्यते।
(ग) मृगाः मृगैः सह अनुव्रजन्ति। (एकवचने)
उत्तरम् - मृगः मृगेन सह अनुव्रजति।
(घ) कः छायां निवारयति? (कर्मवाच्ये)
उत्तरम् - केन छाया निवार्यते?
(ङ) तेन एव वह्निना शरीरं दह्यते। (कर्तृवाच्ये)
उत्तरम् - स एव वह्निः शरीरं दहति।
6.(अ) सन्धिं/सन्धिविच्छेदं कुरुत -
(क) न + अस्ति + उद्यमसमः - ................
(ख) ........ + ........ - तस्यापगमे
(ग) अनुक्तम् + अपि + ऊहति - ................
(घ) ........ + ........ - गावश्च
(ङ) ........ + ........ - नास्ति
(च) रक्तः + च + अस्तमये – ................
(छ) ........ + ........ - योजकस्तत्र
उत्तराणि -
(क) न + अस्ति + उद्यमसमः - नास्तुयद्यमसमः
(ख) तस्य + अपगमे - तस्यापगमे
(ग) अनुक्तम् + अपि + ऊहति - अनुक्तमप्यूहति
(घ) गावः + च - गावश्च
(ङ) न + अस्ति - नास्ति
(च) रक्तः + च + अस्तमये – रक्तश्चास्तमये
(छ) योजकः + तत्र - योजकस्तत्र
(आ) समस्तपदं/विग्रहं लिखत –
(क) उद्यमसमः - _____________
(ख) शरीरे स्थितः - _____________
(ग) निर्बलः - _____________
(घ) देहस्य विनाशनाय - _____________
(ङ) महावृक्षः - _____________
(च) समानं शीलं व्यसनं येषां तेषु - _________
(छ) अयोग्यः - _____________
उत्तराणि -
(क) उद्यमेन समः।
(ख) शरीरस्थितः।
(ग) बलस्य अभावः।
(घ) देहविनाशाय।
(ङ) महान् चासौ वृक्षः।
(च) समानशीलव्यसनेषु।
(छ) न योग्यः इति।
7.अधोलिखितानां पदानां विलोमपदानि पाठात् चित्वा लिखत
(क) प्रसीदति - _____________
(ख) मूर्खः - _____________
(ग) बली - _____________
(घ) सुलभः - _____________
(ङ) संपत्ती - _____________
(च) अस्तमये - _____________
(छ) सार्थकम् - _____________
उत्तराणि -
(क) प्रसीदति – प्रकुप्यति
(ख) मूर्खः – पण्डितः
(ग) बली – निर्बलः
(घ) सुलभः – दुर्लभः
(ङ) संपत्तौ – विपत्तौ
(च) अस्तमये – उदये
(छ) सार्थकम् – निरर्थकम्
(अ) संस्कृतेन वाक्यप्रयोगं कुरुत –
(क) वायसः
(ख) निमित्तम्
(ग) सूर्यः
(घ) पिकः
(ङ) वह्निः
उत्तराणि
(क) वायसः – वृक्षस्य उपरि वायसः तिष्ठति।
(ख) निमित्तम् – सः किम् निमित्तं क्रुध्यति।
(ग) सूर्यः – सूर्यः पूर्वदिशि उदेति।
(घ) पिकः – पिकः वसन्ते कूजति।
(ङ) वह्निः – काष्ठान्तर्गते वह्निः भवति।
Comments