top of page

NCERT Sanskrit Class 10 Chapter 7 - विचित्रः साक्षी    

सप्तमः पाठः

विचित्रः साक्षी    


CBSE Sanskrit Textbook शेमुषी Shemushi Solutions (2024-25) Syllabus

NCERT Solutions for Class 10 Sanskrit Chapter 7 -   विचित्रः साक्षी   

Shemushi (शेमुषी) Part -2 द्वितीयो भागः - दशमकक्ष्यायाः संस्कृतपाठ्यपुस्तकम्
Textbook Questions and answers

1.एकपदेन उत्तरं लिखत -

(क) कीदृशे प्रदेशे पदयात्रा न सुखावहा?

उत्तरम् - विजने


(ख) अतिथिः केन प्रबुद्धः?

उत्तरम् - पादध्वनिना


(ग) कृशकायः कः आसीत् ?

उत्तरम् - अभियुक्तः


(घ) न्यायाधीश- कस्मै कारादण्डम् आदिष्टवान् ?

उत्तरम् - आरक्षिणे


(ङ) कं निकषा मृतशरीरम् आसीत् ?

उत्तरम् -राजमार्गम्।



2.अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत

(क) निर्धनः जनः कथं वित्तम् उपार्जितवान् ?

उत्तरम् - निर्धनः जनः भूरि परिश्रम्य वित्तम् उपार्जितवान्।


(ख) जनः किमर्थं पदातिः गच्छति?

उत्तरम् - जनः परमर्थकार्येन पीडितः आसीत् अत एव सः पदाति- गच्छति।


(ग) प्रसृते निशान्धकारे स किम् अचिन्तयत् ?

उत्तरम् - प्रसृते निशान्धकारे विजने प्रदेशे पदयात्रा न शुभावहा, इति सः अचिन्तयत्।


(घ) वस्तुतः चौरः कः आसीत् ?

उत्तरम् - वस्तुत- चौरः ग्रामस्य आरक्षी आसीत्।


(ङ) जनस्य क्रन्दनं निशम्य आरक्षी किमुक्तवान् ?

उत्तरम् - आरक्षी उक्तवान् यत्-“त्वयाऽहं चोरितायाः मञ्जूषायाः ग्रहणाद् वारितः, अतः निजकृत्यस्य फलं भुक्ष्व। अस्मिन् चौर्याभियोगे त्वं वर्षत्रयस्य कारादण्डं लप्स्यसे।“


(च) मतिवैभवशालिनः दुष्कराणि कार्याणि कथं साधयन्ति ?

उत्तरम् - मतिवैभवशालिनः दुष्कराणि कार्याणि अपि नीतिं युक्तिं समालम्ब्य साधयन्ति।


3.रेखाङ्कितपदमाधृत्य प्रश्ननिर्माणं कुरुत

(क) पुत्रं द्रष्टुं सः प्रस्थितः।

उत्तरम् - कं द्रष्टुं सः प्रस्थितः?


(ख) करुणापरो गृही तस्मै आश्रयं प्रायच्छत्।

उत्तरम् - करुणापरो गृही कस्मै आश्रयं प्रायच्छत् ?


(ग) चौरस्य पादध्वनिना अतिथिः प्रबुद्धः।

उत्तरम् - कस्य पादध्वनिना अतिथिः प्रबुद्धः?


(घ) न्यायाधीशः बंकिमचन्द्रः आसीत्।

उत्तरम् - न्यायाधीशः कः आसीत् ?


(ङ) स भारवेदनया क्रन्दति स्म।

उत्तरम् - स कया क्रन्दति स्म?


(च) उभौ शवं चत्वरे स्थापितवन्तौ।

उत्तरम् - उभौ शवं कुत्र स्थापितवन्तौ ?


4.यथानिर्देशमुत्तरत 


(क) ‘आदेशं प्राप्य उभौ अचलताम्’ अत्र किं कर्तृपदम् ?

उत्तरम् - उभौ। 


(ख) ‘एतेन आरक्षिणा अध्वनि यदुक्तं तत् वर्णयामि’-अत्र ‘मार्गे’ इत्यर्थे किं पदं प्रयुक्तम् ?

उत्तरम् - अध्वनि। 


(ग) ‘करुणापरो गृही तस्मै आश्रयं प्रायच्छत्’-अत्र ‘तस्मै’ इति सर्वनामपदं कस्मै प्रयुक्तम् ?

उत्तरम् - निर्धनजनाय अतिथये।


(घ) ‘ततोऽसौ तौ अग्रिमे दिने उपस्थातुम् आदिष्टवान्’ अस्मिन् वाक्ये किं क्रियापदम् ?

उत्तरम् - आदिष्टवान्।


(ङ) ‘दुष्कराण्यपि कर्माणि मतिवैभवशालिन-’-अत्र विशेष्यपदं किम्?

उत्तरम् - कर्माणि। 


5.सन्धिं/सन्धिविच्छेदं च कुरुत –

(क) पदातिरेव - ........... + ...........

(ख) निशान्धकारे - ............. + ...........

(ग) अभि + आगतम् - ....................

(घ) भोजन + अन्ते - .....................

(ङ) चौरोऽयम् - ................. + ................

(च) गृह + अभ्यन्तरे - .......................

(छ) लीलयैव - ................. + ................

(ज) यदुक्तम् - .............. + .................

(झ) प्रबुद्धः + अतिथिः - ....................

उत्तराणि - 

(क) पदातिरेव – पदातिः + एव

(ख) निशान्धकारे -  निशा + अन्धकारे

(ग) अभि + आगतम् – अभ्यागतम्

(घ) भोजन + अन्ते – भोजनान्ते

(ङ) चौरोऽयम् – चौरः + अयम्

(च) गृह + अभ्यन्तरे – गृहाभ्यन्तरे

(छ) लीलयैव – लीलया + एव

(ज) यदुक्तम् – यत् + उक्तम्

(झ) प्रबुद्धः + अतिथिः – प्रबुद्धोऽतिथि- 


6.अधोलिखितानि पदानि भिन्न-भिन्नप्रत्ययान्तानि सन्ति। तानि पृथक् कृत्वा निर्दिष्टानां प्रत्ययानामधः लिखत – 

परिश्रम्य, उपार्जितवान्, दापयितुम्, प्रस्थितः, द्रष्टुम्, विहाय, पृष्टवान्, प्रविष्टः, आदाय, क्रोशितुम्, नियुक्तः, नीतवान्, निर्णेतुम्, आदिष्टवान्, समागत्य, मुदितः।

 

ल्यप्

क्त

क्तवतु

तुमुन्

........

........

........

........

........

........

........

........

........

........

........

........

 

उत्तराणि –

 

ल्यप्

क्त

क्तवतु

तुमुन्

परिश्रम्य

प्रस्थितः

उपार्जितवान्

दापयितुम्

विहाय

प्रविष्टः

पृष्टवान्

द्रष्टुम्

आदाय

नियुक्तः

नीतवान्

क्रोशितुम्

समागत्य

मुदितः

आदिष्टवान्

निर्णेतुम्

 



7.(अ) अधोलिखितानि वाक्यानि बहुवचने परिवर्तयत

(क) स बसयानं विहाय पदातिरेव गन्तुं निश्चयं कृतवान्।

उत्तरम् - ते बसयानं विहाय पदातिरेव गन्तुं निश्चयं कृतवन्तः।

 

(ख) चौरः ग्रामे नियुक्तः राजपुरुषः आसीत्।

उत्तरम् - चौराः ग्रामे नियुक्ताः राजपुरुषाः आसन्।

 

(ग) कश्चन चौरः गृहाभ्यन्तरं प्रविष्टः।।

उत्तरम् - केचन चौराः गृहाभ्यन्तरं प्रविष्टाः।

 

(घ) अन्येद्युः तौ न्यायालये स्व-स्व-पक्षं स्थापितवन्तौ।

उत्तरम् - अन्येयुः ते न्यायालये स्व-स्व-पक्षं स्थापितवन्तः।

 

(आ) कोष्ठकेषु दत्तेषु पदेषु यथार्निदिष्टां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत

 

(क) सः ............... निष्क्रम्य बहिरागच्छत्। (गृहशब्दे पंचमी)

उत्तरम् - सः गृहात् निष्क्रम्य बहिरागच्छत्।


(ख) गृहस्थः ........... आश्रयं प्रायच्छत्। (अतिथिशब्दे चतुर्थी)

उत्तरम् - गृहस्थः अतिथये आश्रयं प्रायच्छत्।


(ग) तौ .............. प्रति प्रस्थितौ। (न्यायाधिकारिन् शब्दे द्वितीया)

उत्तरम् – तौ न्यायाधिकारिणं प्रति प्रस्थितौ।


(घ) .............. चौर्याभियोगे त्वं वर्षत्रयस्य कारादण्डं लप्स्यसे। (इदम् शब्दे सप्तमी)

उत्तरम् - अस्मिन् चौर्याभियोगे त्वं वर्षत्रयस्य कारादण्डं लप्स्यसे।


(ङ) चौरस्य ................ प्रबुद्धः अतिथिः। (पादध्वनिशब्दे तृतीया)

उत्तरम् - चौरस्य पादध्वनिना प्रबुद्धः अतिथिः।

Comments


bottom of page