top of page

NCERT Sanskrit Class 10 Chapter 9 - भूकम्पविभीषिका


नवमः पाठः

भूकम्पविभीषिका    


CBSE Sanskrit Textbook शेमुषी Shemushi Solutions (2024-25) Syllabus

NCERT Solutions for Class 10 Sanskrit Chapter 9 -   भूकम्पविभीषिका  

Shemushi (शेमुषी) Part -2 द्वितीयो भागः - दशमकक्ष्यायाः संस्कृतपाठ्यपुस्तकम्
Textbook Questions and answers

1.एकपदेन उत्तरं लिखत

(क) कस्य दारुण-विभीषिका गुर्जरक्षेत्रं ध्वंसावशेषेषु परिवर्तितवती?

उत्तरम् - भूकम्पस्य

 

(ख) कीदृशानि भवनानि धाराशायीनि जातानि?

उत्तरम् - बहुभूमिकानि

 

(ग) दुर्वार-जलधाराभिः किम् उपस्थितम्?

उत्तरम् - महाप्लानदृश्यम्

 

(घ) कस्य उपशमनस्य स्थिरोपायः नास्ति?

उत्तरम् - भूकम्पस्य

 

(ङ) कीदृशाः प्राणिनः भूकम्पेन निहन्यन्ते?

उत्तरम् - विवशाः

 

2.अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत

 

(क) समस्तराष्ट्र कीदृक् उल्लासे मग्नम् आसीत् ?

उत्तरम् - समस्त राष्ट्र गणतन्त्रदिवसपर्वणि नृत्यगीतवादित्राणाम् उल्लासे मग्नमासीत्।

 

(ख) भूकम्पस्य केन्द्रबिन्दुः कः जनपदः आसीत् ?

उत्तरम् - भूकम्पस्य केन्द्रबिन्दुः कच्छजनपद- आसीत्।

 

(ग) पृथिव्याः स्खलनात् किं जायते?

उत्तरम् - पृथिव्याः स्खलनात् भूकम्पनं तेन च महाविनाशं जायते।

 

(घ) समग्रो विश्वः कैः आतंकितः दृश्यते ?

उत्तरम् - समग्रो विश्व- भूकम्पैः आतंकित- दृश्यते।

 

(ङ) केषां विस्फोटैरपि भूकम्पो जायते ?

उत्तरम् - ज्वालामुखपर्वतानां विस्फोटैरपि भूकम्पो जायते।

 

3.स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत

 

(क) भूकम्पविभीषिका विशेषेण कच्छजनपदं ध्वंसावशेषेषु परिवर्तितवती।

उत्तरम् - भूकम्पविभीषिका विशेषेण कच्छजनपदं केषु परिवर्तितवती?

 

(ख) वैज्ञानिकाः कथयन्ति यत् पृथिव्याः अन्तर्गर्भे, पाषाणशिलानां संघर्षणेन कम्पनं जायते।

उत्तरम् - के कथयन्ति यत् पृथिव्याः अन्तर्गर्भे, पाषाणशिलानां संघर्षणेन कम्पनं जायते?

 

(ग) विवशाः प्राणिनः आकाशे पिपीलिकाः इव निहन्यन्ते।

उत्तरम् - विवशाः प्राणिनः कुत्र पिपीलिकाः इव निहन्यन्ते?

 

(घ) एतादृशी भयावहघटना गढवालक्षेत्रे घटिता।

उत्तरम् - कीदृशी भयावहघटना गढवालक्षेत्रे घटिता?

 

(ङ) तदिदानीम् भूकम्पकारणं विचारणीयं तिष्ठति।

उत्तरम् - तदिदानीम् किं विचारणीयं तिष्ठति?

 

4.’भूकम्पविषये’ पञ्चवाक्यमितम् अनुच्छेदं लिखत।


उत्तरम् - 

भूमेः कम्पनमेव भूकम्पः कथ्यते। भूकम्पः तु प्राकृतिकापत् भवति । भूकम्पात् महाविनाशदृश्यं समुत्पद्यते, ज्वालामुखपर्वतानां विस्फोटैरपि भूकम्पो जायते। विविधदेशेषु भीषणभूकम्पाद् लक्षपरिमिताः जनाः कष्टम् अनुभवन्ति। प्रकृत्याम् असन्तुलनवशाद भूकम्पः सम्भवति। अस्माभिः प्रकृतेः शान्त्यर्थं प्रयासः करणीयः।


5.कोष्ठकेषु दत्तेषु धातुषु निर्देशानुसारं परिवर्तनं विधाय रिक्तस्थानानि पूरयत


(क) समग्रं भारतं उल्लासे मग्नम् .......... (अस् + लट् लकारे)

उत्तरम् - अस्ति

 

(ख) भूकम्पविभीषिका कच्छजनपदं विनष्टं.......... (कृ + क्तवतु + ङीप्)

उत्तरम् - कृतवती

 

(ग) क्षणेनैव प्राणिनः गृहविहीनाः ............ (भू + लङ्, प्रथमपुरुष बहुवचनम्)

उत्तरम् - अभवन्

 

(घ) शान्तानि पञ्चतत्त्वानि भूतलस्य योगक्षेमाभ्यां ............ (भू + लट्, प्रथम पुरुष बहुवचनम्)

उत्तरम् - भवन्ति

 

(ङ) मानवा ........... यत् बहुभूमिकभवननिर्माणं करणीयम् न वा? (पृच्छ् + लट्, प्रथम पुरुष बहुवचनम्)

उत्तरम् - पृच्छन्ति

 

(च) नदीवेगेन ग्रामाः तदुदरे ............ (सम् + आ + विश् + विधिलिङ्, प्रथम पुरुष एकवचनम्)।

उत्तरम् - समाविशेत्।

6.सन्धिं/सन्धिविच्छेदं च कुरुत


(अ) परसवर्णसन्धिनियमानुसारम्-

(क) किञ्च = ...... + च

(ख) ...... = नगरम् + तु

(ग) विपन्नञ्च = ......+ ......

(घ) ...... = किम् + नु

(ङ) भुजनगरन्तु = ...... + ......

(च) ...... = सम् + चयः


उत्तराणि - 

(क) किञ्च = किम् + च

(ख) नगरन्तु = नगरम् + तु

(ग) विपन्नञ्च = विपन्नम् +  

(घ) किन्नु = किम् + नु

(ङ) भुजनगरन्तु = भुजनगरम् + तु 

(च) सञ्चयः = सम् + चयः


(आ) विसर्गसन्धिनियमानुसारम् 

(क) शिशवस्तु = ...... + ......

(ख) ......= विस्फोटैः + अपि

(ग) सहस्रशोऽन्ये = ...... + अन्ये

(घ) विचित्रोऽयम् = विचित्रः +......

(ङ) ...... = भूकम्पः + जायते

(च) वामनकल्प एव = ...... + ......

उत्तराणि -

(क) शिशवस्तु = शिशवः + तु 

(ख) विस्फोटैरपि = विस्फोटैः + अपि

(ग) सहस्रशोऽन्ये = सहस्रशः + अन्ये

(घ) विचित्रोऽयम् = विचित्रः + अयम् 

(ङ) भूकम्पो जायते = भूकम्पः + जायते

(च) वामनकल्प एव = वामनकल्पः + एव 


7.(अ) ‘क’ स्तम्भे पदानि दत्तानि ‘ख’ स्तम्भे विलोमपदानि, तयोः संयोगं कुरुत

   क

    ख

सम्पन्नम्

ध्वस्तभवनेषु

निस्सरन्तीभिः

निर्माय

क्षणेनैव

प्रविशन्तीभिः

सुचिरेणैव

विपन्नम्

नवनिर्मितभवनेषु

विनाश्य

 

उत्तराणि –

   क

    ख

सम्पन्नम्

ध्वस्तभवनेषु

निस्सरन्तीभिः

निर्माय

क्षणेनैव

विपन्नम्

नवनिर्मितभवनेषु

प्रविशन्तीभिः

विनाश्य

सुचिरेणैव

 


(आ) ‘क’ स्तम्भे पदानि दत्तानि ‘ख’ स्तम्भे समानार्थकपदानि, तयोः संयोगं कुरुत –

   क

    ख

पर्याकुलम्

विशीर्णाः

उद्गिरन्तः

विदार्य

प्रकुपिताम्

नष्टाः

क्रोधयुक्ताम्

संत्रोट्य

व्याकुलम्

प्रकटयन्तः

 

उत्तराणि –

   क

    ख

पर्याकुलम्

विशीर्णाः

उद्गिरन्तः

विदार्य

प्रकुपिताम्

व्याकुलम्

नष्टाः

प्रकटयन्तः

संत्रोट्य

क्रोधयुक्ताम्

 


8. (अ) उदाहरणमनुसृत्य प्रकृति-प्रत्यययोः विभागं कुरुत –

यथा – परिवर्तितवती – परि + वृत् + क्तवतु + ङीप् (स्त्री)

धृतवान् – .........+ .........

हसन् – .........+ .........

विशीर्णा – वि + शृ + क्त + ......... (स्त्री)

प्रचलन्ती – ......... +......... + शतृ + ङीप् (स्त्री)

हतः – ......... + .........


उत्तराणि - 

धृतवान् – धृ + क्तवतु 

हसन् – हस् + शतृ 

विशीर्णा – वि + शृ + क्त + टाप् (स्त्री)

प्रचलन्ती – प्र + चल् + शतृ + ङीप् (स्त्री)

हतः – हन् + क्त 


(आ) पाठात् विचित्य समस्तपदानि लिखत

महत् च तत् कम्पनं = .........

दारुणा च सा विभीषिका = .........

ध्वस्तेषु च तेषु भवनेषु = .........

प्राक्तने च तस्मिन् युगे = .........

महत् च तत् राष्ट्र तस्मिन् = .........


उत्तराणि 

महत् च तत् कम्पनं = महत्कम्पनम् 

दारुणा च सा विभीषिका = दारुणविभीषिका 

ध्वस्तेषु च तेषु भवनेषु = ध्वस्तभवनेषु 

प्राक्तने च तस्मिन् युगे = प्राक्युगे 

महत् च तत् राष्ट्र तस्मिन् = महाराष्ट्रे


Comments


bottom of page