NCERT Sanskrit Class 8 Chapter 10 - नीतिनवनीतम्
- samskritasabha
- Mar 29, 2024
- 2 min read
Updated: Apr 2, 2024
दशमः पाठः
नीतिनवनीतम्
CBSE Sanskrit Textbook रुचिरा Ruchira Solutions
NCERT Solutions for Class 8 Sanskrit Chapter 10 - नीतिनवनीतम्
Ruchira (रुचिरा) Textbook Questions and answers
1. अधोलिखितानि प्रश्नानाम् उत्तराणि एकपदेन लिखत -
(क) नृणां संभवे को क्लेशं सहेते?
उत्तरम् : मातापितरौ।
(ख) कीदृशं जलं पिबेत्?
उत्तरम् : वस्त्रपूतम्।
(ग) नीतिनवनीतम् पाठः कस्मात् ग्रन्थात् सङ्कलित?
उत्तरम् : मनुस्मृतिग्रन्थात्।
(घ) कीदृशीं वाचं वदेत्?
उत्तरम् : सत्यपूताम्।
(ङ) दुःखं किं भवति?
उत्तरम् : सर्वं परवशम्।
(च) आत्मवशं किं भवति?
उत्तरम् : सुखम्।
(छ) कीदृशं कर्म समाचरेत्?
उत्तरम् : मन:पूतम्।
2. अधोलिखितानि प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखत
(क) पाठेऽस्मिन् सुखदुःखयो किं लक्षणम् उक्तम्?
उत्तरम् : पाठानुसारं सर्वं परवशं दुःखम्, सर्वम् आत्मवशं च सुखं भवति।
(ख) वर्षशतैः अपि कस्य निष्कृतिः कर्तुं न शक्या?
उत्तरम् : नृणां सम्भवे मातापितरौ यं कष्टं सहेते तस्य वर्षशतैः अपि निष्कृतिः कर्तुं न शक्या।
(ग)”त्रिषु तुष्टेषु तपः समाप्यते”-वाक्येऽस्मिन् त्रयः के सन्ति ?
उत्तरम् : वाक्येऽस्मिन् त्रयः-माता, पिता, आचार्य: च सन्ति।
(घ)अस्माभिः कीदृशं कर्म कर्तव्यम्?
उत्तरम् : यत् कर्म कुर्वतः अन्तरात्मनः परितोषः स्यात् तत् कर्म कर्तव्यम्।
(ङ) अभिवादनशीलस्य कानि वर्धन्ते?
उत्तरम् : अभिवादनशीलस्य आयुः, विद्या, यशः, बलं चेति चत्वारि वर्धन्ते।
(च) सर्वदा केषां प्रियं कुर्यात्?
उत्तरम् : सर्वदा मातापित्रौः आचार्यस्य च प्रियं कुर्यात्।
3. स्थूलपदान्यवलम्ब्य प्रश्ननिर्माणं कुरुत
(क) वृद्धोपसेविनः आयुर्विद्या यशो बलं च वर्धन्ते?
(ख) मनुष्य सत्यपूतां वाचं वदेत्।
(ग) त्रिषु तुष्टेषु सर्वं तपः समाप्यते?
(घ) मातापितरौ नृणां सम्भवे क्लेशं सहेते।
(ङ) तयोः नित्यं प्रियं कुर्यात्।
उत्तरम् :
प्रश्ननिर्माणम्
(क) कस्य आयुर्विद्या यशो बलं च वर्धन्ते?
(ख) मनुष्य कीदृशी वाचं वदेत्?
(ग) त्रिषु तुष्टेषु सर्व किं समाप्यते?
(घ) को नृणां सम्भवे क्लेशं सहेते?
(ङ) कयो: नित्यं प्रियं कुर्यात्।
4. संस्कृतभाषयां वाक्यप्रयोगं कुरुत
(क) विद्या
(ख) तपः
(ग) समाचरेत्
(घ) परितोषः
(ङ) नित्यम्।
उत्तरम् :
(क) विद्या – सा विद्या या विमुक्तये।
(ख) तपः – ऋषिः वने तपः करोति।
(ग) समाचरेत् – सर्वदा सत्कर्म एव समाचरेत्।
(घ) परितोषः – तस्य वचनं श्रुत्वा मम परितोषः भवति।
(ङ) नित्यम् – राकेशः नित्यं पठति।
5. शुद्धवाक्यानां समक्षम् आम् अशुद्धवाक्यानां समक्षं च नैव इति लिखत –
(क) अभिवादनशीलस्य किमपि न वर्धते।
(ख) मातापितरौ नृणां सम्भवे कष्टं सहेते।
(ग) आत्मवशं तु सर्वमेव दु:खमस्ति।
(घ) येन पितरौ आचार्यः च सन्तुष्टाः तस्य सर्व तपः समाप्यते।
(ङ) मनुष्यः सदैव मनः पूतं समाचरेत्।
(च) मनुष्यः सदैव तदेव कर्म कुर्यात् येनान्तरात्मा तुष्यते।
उत्तरम् :
(क) नैव
(ख) आम्
(ग) नैव
(घ) आम्
(ङ) आम्
(च) आम्।
6. समुचितपदेन रिक्तस्थानानि पूरयत –
(क) मातापित्रे: तपसः निष्कृति .................. कर्तुमशक्या। (दशवरैरपि/षष्टिः वषैरपि/वर्षशतैरपि)।
(ख) नित्यं वृद्धोपसेविन: .................. वर्धन्ते। (चत्वारि/पञ्च/षट्)।
(ग) त्रिषु तुष्टेषु ................... सर्वं समाप्यते। (जप:/तप:/कर्म)।
(घ) एतत् विद्यात् .................. लक्षणं सुखदुःखयोः। (शरीर/समासेन/विस्तारेण)
(ङ) दृष्टिपूतम् न्यसेत् ................... (हस्तम्/पादम्/मुखम्)
(च) मनुष्यः मातापित्रो: आचार्यस्य च सर्वदा ................... कुर्यात्। (प्रियम्/अप्रियम्/अकार्यम्)
उत्तरम् :
(क) मातापित्रे: तपसः निष्कृतिः वर्षशतैरपि कर्तुमशक्या।
(ख) नित्यं वृद्धोपसेविन: चत्वारि वर्धन्ते।
(ग) त्रिषु तुष्टेषु तपः सर्वं समाप्यते।
(घ) एतत् विद्यात् समासेन लक्षणं सुखदु:खयोः।
(ङ) दृष्टिपूतम् न्यसेत् पादम्।
(च) मनुष्य: मातापित्रो: आचार्यस्य च सर्वदा प्रियम् कुर्यात्।
7. मञ्जूषातः चित्वा उचिताव्ययेन वाक्यपूर्ति कुरुततावत् अपि एव यथा नित्यं यादृशम्।
[तावत् अपि एव यथा नित्यं यादृशम्]
(क) तयोः ........ प्रियं कुर्यात्।
(ख)........ कर्म करिष्यसि। तादृशं फलं प्राप्स्यसि।
(ग) वर्षशतैः ........निष्कृतिः न कर्तुं शक्या।
(घ) तेषु ........त्रिषु तुष्टेषु तपः समाप्यते।
(ङ) ........ राजा तथा प्रजा।
(च) यावत् सफलः न भवति ........परिश्रमं कुरु।
उत्तरम् :
(क) तयोः नित्यं प्रियं कुर्यात्।
(ख) यादृशं कर्म करिष्यसि। तादृशं फलं प्राप्स्यसि।
(ग) वर्षशतैः अपि निष्कृतिः न कर्तुं शक्या।
(घ) तेषु एव त्रिषु तुष्टेषु तपः समाप्यते।
(ङ) यथा राजा तथा प्रजा।
(च) यावत् सफलः न भवति तावत् परिश्रमं कुरु।
Comments