NCERT Sanskrit Class 8 Chapter 11 - सावित्री बाई फुले
- samskritasabha
- Apr 1, 2024
- 3 min read
Updated: Apr 2, 2024
एकादशः पाठः
सावित्री बाई फुले
CBSE Sanskrit Textbook रुचिरा Ruchira Solutions
NCERT Solutions for Class 8 Sanskrit Chapter 11 - सावित्री बाई फुले
Ruchira (रुचिरा) Textbook Questions and answers
1.एकपदेन उत्तरत
(क) कीदृशीनां कुरीतीनां सावित्री मुखरं विरोधम् अकरोत्?
(ख) के कूपात् जलोद्धरणम् अवारयन्?
(ग) का स्वदृढनिश्चयात् न विचलति?
(घ) विधवानां शिरोमुण्डनस्य निराकरणाय सा कैः मिलिता?
(ङ) सा कासां कृते प्रदेशस्य प्रथमं विद्यालयम् आरभत?
उत्तराणि
(क) सामाजिककुरीतीनाम्।
(ख) उच्चवर्गीयाः।
(ग) सावित्रीबाईफुले।
(घ) नापितैः।
(ङ) कन्यानां कृते।
2. पूर्णवाक्येन उत्तरत –
(क) किं किं सहमाना सावित्रीबाई स्वदृढनिश्चयात् न विचलति?
उत्तरम् : मार्गे कश्चित् तस्याः उपरि धूलिं कश्चित् च प्रस्तरखण्डान् क्षिपति। परं सर्वमिदं सहमाना सावित्रीबाई स्वदृढनिश्चयात् न विचलति।
(ख) सावित्रीबाईफुलेमहोदयायाः पित्रोः नाम किमासीत्?
उत्तरम् : सावित्रीबाईफुले महोदयायाः मातुः नाम लक्ष्मीबाई पितुश्च नाम खंडोजी आसीत्।
(ग) विवाहानन्तरमपि सावित्र्याः मनसि अध्ययनाभिलाषा कथम् उत्साहं प्राप्तवती?
उत्तरम् : यतोहि सावित्र्याः पतिः स्त्रीशिक्षायाः प्रबल: समर्थकः आसीत्। अतः तस्याः मनसि अध्ययनाभिलाषा उत्साहं प्राप्तवती।
(घ) जलं पातुं निवार्यमाणा: नार्यः सा कुत्र नीतवती किञ्चाकथयत्?
उत्तरम् :जलं पातुं निवार्यमाणाः नार्यः सा निजगृहं नीतवती। तडागं दर्शयित्वा च सा अकथयत् यत् “यथेष्टं जलं नयत/सार्वजनिकोऽयं तडागः। अस्मात् जलग्रहणे नास्ति जातिबन्धनम्।“
(ङ) कासां संस्थानां स्थापनायां फुलेदम्पत्योः अवदानं महत्त्वपूर्णम्?
उत्तरम् :‘महिला सेवामण्डल’, ‘शिशुहत्या प्रतिबन्धकगृह’ इत्यादीनां संस्थानां स्थापनायां फुलेदम्पत्योः अवदानं महत्त्वपूर्णम् अस्ति।
(च) सत्यशोधकमण्डलस्य उद्देश्यं किमासीत्?
उत्तरम् :सत्यशोधकमण्डलस्य उद्देश्यम् उत्पीडितानां समुदायानां स्वाधिकारान् प्रति जागरणम् आसीत्।
(छ) तस्याः द्वयोः काव्यसङ्कलनयोः नामनी के?
उत्तरम् :तस्याः ‘काव्यफुले’ ‘सुबोधरत्नाकर’ चेति काव्यद्वयमस्ति।
3.रेखांकितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत –
(क) सावित्रीबाई, कन्याभिः सविनोदम् आलपन्ती अध्यापने संलग्ना भवति स्म।
(ख) सा महाराष्ट्रस्य प्रथमा महिला शिक्षिका आसीत्।
(ग) सा स्वपतिना सह कन्यानां कृते प्रदेशस्य प्रथमं विद्यालयम् आरभत।
(घ) तया मनुष्याणां समानतायाः स्वतन्त्रतायाश्च पक्षः सर्वदा समर्थितः।
(ङ) साहित्यरचनया अपि सावित्री महीयते।
उत्तरम् :
प्रश्ननिर्माणम्
(क) सावित्रीबाई काभिः सविनोदम् आलपन्ती अध्यापने संलग्ना भवति स्म?
(ख) सा कस्य प्रथमा महिला शिक्षिका आसीत्?
(ग) सा स्वपतिना सह कासां कृते प्रदेशस्य प्रथमं विद्यालयम् आरभत?
(घ) तया केषां समानतायाः स्वतन्त्रतायाश्च पक्षः सर्वदा समर्थित:?
(ङ) साहित्यरचनया अपि का महीयते?
4.यथानिर्देशमुत्तरत
(क) इदं चित्रं पाठशालायाः वर्तते-अत्र ‘वर्तते’ इति क्रियापदस्य कर्तृपदं किम्?
उत्तरम् :चित्रम्।
(ख) तस्याः स्वकीयम् अध्ययनमपि सहैव प्रचलतिअस्मिन् वाक्ये विशेष्यपदं किम्?
उत्तरम् :अध्ययनम्।
(ग) अपि यूयमिमां महिलां जानीथ-अस्मिन् वाक्ये ‘यूयम्’ इति पदं केभ्यः प्रयुक्तम्?
उत्तरम् :छात्रेभ्ये:/अस्मभ्यम्।
(घ) सा ताः स्त्रियः निजगृहं नीतवती-अस्मिन् वाक्ये ‘सा’ इति सर्वनामपदं कस्यै प्रयुक्तम्?
उत्तरम् :सावित्र्य।
(ङ) शीर्णवस्त्रावृताः तथाकथिता: निम्नजातीयाः काश्चित् नार्यः जलं पातुं याचन्ते स्म-अत्र ‘नार्यः’ इति पदस्य विशेषणपदानि कति सन्ति, कानि च इति लिखत?
उत्तरम् :चत्वारि विशेषणपदानि सन्ति-शीर्णवस्त्रावृताः, तथाकथिताः, निम्नजातीयाः, काश्चित्।।
6.(अ) अधोलिखितानि पदानि आधुत्य वाक्यानि रचयत।
(क) उपरि – _____
(ख) आदानम् – _____
(ग) परकीयम् – _____
(घ) विषमता – ____
(ङ) व्यक्तिगतम् – _____
(च) आरोहः – _____
उत्तराणि
(क) उपरि – वृक्षस्य उपरि कपोताः सन्ति।
(ख) आदानम् – सः नित्यम् धनस्य आदानं करोति।
(ग) परकीयम् – इदं धनं परकीयम् अस्ति।
(घ) विषमता – अधुना समाजे विषमता दृश्यते।
(ङ) व्यक्तिगतम् – इदं मम व्यक्तिगतं कार्यमस्ति।
(च) आरोहः – धावकः पर्वते आरोहति।
(आ) अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत
( मार्गे, अविरतम्, अध्यापने, अवदानम्, यथेष्टम, मनसि )
(क) शिक्षणे – ___
(ख) पथि – ___
(ग) हृदये – ___
(घ) इच्छानुसारम् – ___
(ङ) योगदानम् – ___
(च) निरन्तरम् – ___
उत्तराणि
(क) शिक्षणे – अध्यापने
(ख) पथि – मार्गे
(ग) हृदये – मनसि
(घ) इच्छानुसारम् – यथेष्टम्
(ङ) योगदानम् – अवदानम्
(च) निरन्तरम् – अविरतम्।
7. (अ) अधोलिखितानां पदानां लिङ्ग, विभक्तिं, वचनं च लिखत।
पदानि लिङ्गम् विभक्तिः वचनम्
(क) धूलिम् ......... ......... .........
(ख) नाम्नि ......... ......... .........
(ग) अपरः ......... ......... .........
(घ) कन्यानाम् ......... ......... .........
(ङ) सहभागिता ......... ......... .........
(च) नापितैः ......... ......... .........
उत्तराणि
पदानि लिङ्गम् विभक्तिः वचनम्
(क) धूलिम् स्त्रीलिङ्गम् द्वितीया एकवचनम्
(ख) नाम्नि नपुंसकलिङ्गम् सप्तमी एकवचनम्
(ग) अपरः पुल्लिङ्गम् प्रथमा एकवचनम्
(घ) कन्यानाम् स्त्रीलिङ्गम् षष्ठी बहुवचनम्
(ङ) सहभागिता स्त्रीलिङ्गम् द्वितीया एकवचनम्
(च) नापितैः पुल्लिङ्गम् तृतीया बहुवचनम्
(आ) उदाहरणमनसत्य निर्देशानुसारं लकारपरिवर्तनं कुरुत –
यथा - - सा शिक्षिका अस्ति। (लङ्लकारः) - सा शिक्षिका आसीत्।
(क) सा अध्यापने संलग्ना भवति। (लृटलकारः)
सा अध्यापने संलग्ना भविष्यति ।
(ख) सः त्रयोदशवर्षकल्पः अस्ति। (लङ्लकारः)
सः त्रयोदशवर्षकल्पः आसीत्।
(ग) महिलाः तडागात् जलं नयन्ति । (लोट्लकारः)
महिलाः तडागात् जलं नयन्तु ।
(घ) वयं प्रतिदिनं पाठं पठामः । (विधिलिङ्)
वयं प्रतिदिनं पाठं पठेम ।
(ङ) यूयं किं विद्यालयं गच्छथ ? (लृटलकारः)
यूयं किं विद्यालयं गमिष्यथ ?
(च) ते बालकाः विद्यालयात् गृहं गच्छन्ति। (लङ्लकारः)
ते बालकाः विद्यालयात् गृहम् अगच्छन्।
Commentaires