NCERT Sanskrit Class 8 Chapter 2 - बिलस्य वाणी न कदापि मे श्रुता
- samskritasabha
- Jan 29, 2024
- 2 min read
द्वितीयः पाठः
बिलस्य वाणी न कदापि मे श्रुता
CBSE Sanskrit Textbook रुचिरा Ruchira Solutions
NCERT Solutions for Class 8 Sanskrit Chapter 2 - बिलस्य वाणी न कदापि मे श्रुता
Ruchira (रुचिरा) Textbook Questions and answers
1 उच्चारणं कुरुत-
कस्मिश्चित् विचिन्त्य साध्विदम्
क्षुधार्तः एतच्छ्रुत्वा भयसन्त्रस्तमनसाम्
सिंहपदपद्धतिः समाह्वानम् प्रतिध्वनिः
2. एकपदेन उत्तरं लिखत-
(क) सिंहस्य नाम किम्?
(ख) गुहायाः स्वामी कः आसीत्?
(ग) सिंहः कस्मिन् समये गुहायाः समीपे आगतः?
(घ) हस्तपादादिकाः क्रियाः केषां न प्रवर्तन्ते?
(ङ) गुहा केन प्रतिध्वनिता?
उत्तराणि
(क) खरनखरः,
(ख) दधिपुच्छः,
(ग) सूर्यास्तसमये,
(घ) भयसंत्रस्तमनसाम्,
(ङ) उच्चगर्जनेन।
3.पूर्णवाक्येन उत्तरत-
(क) खरनखरः कुत्र प्रतिवसति स्म?
(ख) महतीं गुहां दृष्ट्वा सिंहः किम् अचिन्तयत्?
(ग) शृगालः किम् अचिन्तयत्?
(घ) शृगालः कुत्र पलायित:?
(ङ) गुहासमीपमागत्य शृगालः किं पश्यति?
(च) कः शोभते?
उत्तराणि
(क) खरनखरः कस्मिश्चित् वने प्रतिवसति स्म।
(ख) महतीं गुहां दृष्ट्वा सिंह: अचिन्तयत्-‘नूनम् एतस्यां गुहायां रात्रौ कोऽपि जीवः आगच्छति। अत: अत्रैव निगूढो भूत्वा तिष्ठामि” इति।
(ग) शृगालः अचिन्तयत्-“अहो विनष्टोऽस्मि। नूनम् अस्मिन् बिले सिंहः अस्ति इति तर्कयामि। तत् किं करवाणि?”
(घ) शृगालः दूरं पलायितः।
(ङ) गुहासमीपमागत्य शृगालः सिंहपदपद्धतिं पश्यति।
(च) यः अनागतं कुरुते सः शोभते।
4.रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत
(क) क्षुधार्तः सिंहः कुत्रापि आहारं न प्राप्तवान्?
(ख) दधिपुच्छः नाम शृगालः गुहायाः स्वामी आसीत्?
(ग) एषा गुहा स्वामिनः सदा आह्वानं करोति?
(घ) भयसन्त्रस्तमनसां हस्तपादादिकाः क्रियाः न प्रवर्तन्ते?
(ङ) आह्वानेन शृगाल: बिले प्रविश्य सिंहस्य भोज्यं भविष्यति?
उत्तराणि
(क) कीदृशः सिंहः कुत्रापि आहारं न प्राप्तवान्?
(ख) किम् नाम शृगालः गुहायाः स्वामी आसीत्?
(ग) एषा गुहा कस्य सदा आह्वानं करोति?
(घ) भयसन्त्रस्तमनसां कीदृश्यः न प्रवर्तन्ते?
(ङ) आह्वानेन शृगालः कस्मिन् प्रविश्य सिंहस्य भोज्यं भविष्यति?
5.घटनाक्रमानुसारं वाक्यानि लिखत-(वाक्यों को घटना के क्रम अनुसार लिखिए-)
(क) गुहायाः स्वामी दधिपुच्छः नाम शृगालः समागच्छत्।
(ख) सिंह: एका महतीं गुहाम् अपश्यत्।
(ग) परिभ्रमन् सिंहः क्षुधात जातः।
(घ) दूरस्थः शृगालः रवं कर्तुमारब्धः।।
(ङ) सिंहः शृगालस्य आह्वानमकरोत्।
(च) दूरं पलायमानः शृगालः श्लोकमपठत्।
(छ) गुहायां कोऽपि अस्ति इति शृगालस्य विचारः।
उत्तराणि
(ग) परिभ्रमन् सिंहः क्षुधार्ता जातः।
(ख) सिंह: एकां महतीं गुहाम् अपश्यत्।।
(क) गुहायाः स्वामी दधिपुच्छः नाम शृगालः समागच्छत्।
(छ) गुहायां कोऽपि अस्ति इति शृगालस्य विचारः।
(घ) दूरस्थः शृगालः रवं कर्तुमारब्धः।
(ङ) सिंहः शृगालस्य आह्वानमकरोत्।
(च) दूरं पलायमानः शृगालः श्लोकमपठत्।
6.यथानिर्देशमुत्तरत-(निर्देशानुसार उत्तर दीजिए)
(क) ‘एकां महतीं गुहां दृष्ट्वा सः अचिन्तयत्’ अस्मिन् वाक्ये कति विशेषणपदानि, संख्यया सह पदानि अपि लिखत?
उत्तरम् (क) अस्मिन् वाक्ये द्वे विशेषणपदे, एकां महतीम् च स्तः।
(ख) तदहम् अस्य आह्वानं करोमि- अत्र ‘अहम्’ इति पदं कस्मै प्रयुक्तम्?
उत्तरम् (ख) ‘तदहम् अस्य आह्वानं करोमि’–अत्र ‘अहम्’ इति पदं खरनखराय सिंहाय प्रयुक्तम्।
(ग) “यदि त्वं मां न आह्वयसि’, अस्मिन् वाक्ये कर्तृपदं किम्?
उत्तरम् (ग) “यदि त्वं मां न आह्वयसि’, अस्मिन् वाक्ये कर्तृपदं त्वम् अस्ति।
(घ) “सिंहपदपद्धतिः गुहायां प्रविष्टा दृश्यते’ अस्मिन् वाक्ये क्रियापदं किम्?
उत्तरम् (घ) ‘सिंहपदपद्धतिः गुहायां प्रविष्टा दृश्यते’ अस्मिन् वाक्ये क्रियापदं ‘दृश्यते’ अस्ति।
(ङ) ‘वनेऽत्र संस्थस्य समागता जरा’ अस्मिन् वाक्ये अव्ययपदं किम्?
उत्तरम् (ङ) ‘वनेऽत्र संस्थस्य समागता जरा’ अस्मिन् वाक्ये ‘अत्र’ इतिअव्ययपदं अस्ति ।
7. मजूषातः अव्ययपदानि चित्वा रिक्तस्थानानि पूरयत-
[कश्चन, दूरे, नीचे, यदा, तदा, परन्तु, यदि, तर्हि, तत्र, परम्, च, सहसा]
एकस्मिन् वने ………………… व्याधः जालं विस्तीर्य ………………… स्थितः। क्रमशः आकाशात् सपरिवारः कपोतराजः ………………… आगच्छत्। ………………… कपोताः तण्डुलान् अपश्यन् ………………… तेषां लोभो जातः। परं राजा सहमतः नासीत्। तस्य युक्तिः आसीत् ………………… वने कोऽपि मनुष्य नास्ति। कुतः तण्डुलानाम् सम्भवः। …………………राज्ञः उपदेशम् अस्वीकृत्य कपोताः तण्डुलान् खादितुं प्रवृत्ताः जाले ………………… निपतिताः। अतः उक्तम् ………………… विदधीत न क्रियाम् ।
उत्तराणि
एकस्मिन् वने कश्चन व्याधः जालं विस्तीर्य दूरे स्थितः। क्रमशः आकाशात् सपरिवारः कपोतराजः नीचैः आगच्छत्।यदा कपोताः तण्डुलान् अपश्यन् तदा तेषां लोभो जातः। परं राजा सहमतः नासीत्। तस्य युक्तिः आसीत् यदि वने कोऽपि मनुष्य नास्ति। कुतः तण्डुलानाम् सम्भवः। परं राज्ञः उपदेशम् अस्वीकृत्य कपोताः तण्डुलान् खादितुं प्रवृत्ताः जाले च निपतिताः। अतः उक्तम् 'सहसा विदधीत न क्रियाम्' ।
Comments