top of page

NCERT Sanskrit Class 9 Chapter 1 - भारतीवसन्तगीतिः

Updated: Apr 10, 2024


प्रथमः पाठः

भारतीवसन्तगीतिः


CBSE Sanskrit Textbook शेमुषी Shemushi Solutions (2024-25) Syllabus

NCERT Solutions for Class 9 Sanskrit Chapter 1 - भारतीवसन्तगीतिः

Shemushi (शेमुषी) Part -1 प्रथमो भागः - नवमकक्ष्यायाः संस्कृतपाठ्यपुस्तकम्
Textbook Questions and answers


1.एकपदेन उत्तरं लिखत-

(क) कविः कां सम्बोधयति?

(ख) कविः वाणीं कां वादयितुं प्रार्थयति?

(ग) कीदृशीं वीणां निनादयितुं प्रार्थयति?

(घ) गीतिं कथं गातुं कथयति?

(ङ) सरसाः रसालाः कदा लसन्ति?


उत्तराणि-

(क) वाणीम् (सरस्वतीम्)।

(ख) वीणाम्।

(ग) नवीनाम्।

(घ) मृदुम्।

(ङ) वसन्ते।


2.पूर्णवाक्येन उत्तरं लिखत-

(क)  कविः वाणी किं कथयति?

उत्तरम्  : कविः कथयति यत् “अये वाणि! नवीनां वीणां निनादय।“


(ख)  वसन्ते किं भवति?

उत्तरम्  : वसन्ते मधुरमञ्जरीपिञ्जरीभूतमालाः सरसाः रसालाः लसन्ति। ललित-कोकिलाकाकलीनां कलापाः च विलसन्ति।


(ग)  सलिलं तव वीणामाकर्ण्य कथम् उच्चलेत?

उत्तरम्  : सलिलं तव वीणामाकर्ण्य सलीलम् उच्चलेत्।


(घ)  कविः भगवती भारती कस्याः नद्याः तटे (कुत्र) मधुमाधवीनां नतां पंक्तिम् अवलोक्य वीणां वादयितुं कथयति?

उत्तरम्  : कविः यमुनायाः सवानीरतीरे मधुमाधवीनां नतां पंक्तिं अवलोक्य भगवतीं वीणां वादयितुं कथयति।


3. ‘क’ स्तम्भे पदानि, ‘ख’ स्तम्भे तेषां पर्यायपदानि दत्तानि। तानि चित्वा पदानां समक्षे लिखत –

'क' स्तम्भः

'ख' स्तम्भ:

(क) सरस्वती

1.तीरे

(ख) आम्रम्

   2.अलीनाम्

(ग) पवनः

   3.समीरः

(घ) तटे

   4. वाणी

(ङ)  भ्रमराणाम्

   5. रसालः

 

उत्तरम् :

'क' स्तम्भः

'ख' स्तम्भ:

(क) सरस्वती

4. वाणी

(ख) आम्रम्

   5. रसालः 

(ग) पवनः

   3. समीरः

(घ) तटे

   1. तीरे

(ङ)  भ्रमराणाम्

   2. अलीनाम्


4. अधोलिखितानि पदानि प्रयुज्य संस्कृतभाषया वाक्यरचनां कुरुत

(क) निनादय

(ख) मन्दमन्दम्

(ग) मारुतः

(घ) सलिलम्

(ङ) सुमनः।

उत्तरम् :

(क) निनादय-हे सरस्वती! नवीनां वीणां मधुरं निनादय।

(ख) मन्दमन्दम्-वसन्ते वायुः मन्दमन्दं वहति।

(ग) मारुतः-मलयमारुतः सुखदः भवति।

(घ) सलिलम्-गङ्गायाः सलिलम् अमृततुल्यं भवति।

(ङ) सुमनः-प्रफुल्लः सुमनः सर्वेषां मनः मोहयति।


5. प्रथमश्लोकस्य आशयं हिन्दीभाषया आङ्ग्लभाषया वा लिखत


निनादय नवीनामये वाणि! वीणाम् 

मृदुं गाय गीति ललित-नीति-लीनाम्। 

मधुर-मञ्जरी-पिञ्जरी-भूत-मालाः 

वसन्ते लसन्तीह सरसा रसालाः 

कलापाः ललित-कोकिला-काकलीनाम्॥1॥ 


उत्तरम्


हिन्दीभाषयाम्

हे वाग्देवी ! नूतन वीणा बजाओ। कोई सुन्दर नीति से युक्त गीत को अच्छे से गाओ ।

 इस वसन्त काल (ऋतु) में मधुर आम पुष्पों से पीली बनी सरस (रसीले) आमों के वृक्षों की पंक्तियाँ सुशोभित हो रहे हैं। और मनोहर कूक (कलरव) करते कोकिलों के समूह भी सुन्दर लग रहे हैं।


आङ्गलभाषायाम्

Hey Vagdevi! Play a new harp. Sing a song with a beautiful proverb well.

In this spring season, garlands of yellow juicy mango trees are adorned with sweet mango flowers. And a group of cuckoos making beautiful chirping sounds, also look beautiful.

Therefore O Vagdevi! (Now you) play the new Veena.


6. अधोलिखितपदानां विलोमपदानि लिखत –

(क) कठोरम् - ................

(ख) कटु - ................

(ग) शीघ्रम् - ................

(घ) प्राचीनम् - ................

(ङ) नीरसः - ................


उत्तरम् :

(क) कठोरम् – मृदुम्

(ख) कटु – मधुरम्

(ग) शीघ्रम् – मन्दम्

(घ) प्राचीनम् – नवीनम्

(ङ) नीरसः – सरसः।


Comentários


bottom of page