top of page

NCERT Sanskrit Class 9 Chapter 10 - वाङ्मनःप्राणस्वरूपम्

Updated: Apr 13, 2024

दशमः पाठः

वाङ्मनःप्राणस्वरूपम्


CBSE Sanskrit Textbook शेमुषी Shemushi Solutions (2024-25) Syllabus

NCERT Solutions for Class 9 Sanskrit Chapter 10 -   वाङ्मनःप्राणस्वरूपम्

Shemushi (शेमुषी) Part -1 प्रथमो भागः - नवमकक्ष्यायाः संस्कृतपाठ्यपुस्तकम्
Textbook Questions and answers


1.एकपदेन उत्तरं लिखत

(क) अन्नस्य कीदृशः भागः मनः?

उत्तरम् - अणिष्ठः।


(ख) मथ्यमानस्य दहनः अणिष्ठः भागः किं भवति?

उत्तरम् - सर्पिः।


(ग) मनः कीदृशं भवति?

उत्तरम् - अन्नमयम्।


(घ) तेजोमयी का भवति?

उत्तरम् - वाक्।


(ङ) पाठेऽस्मिन् आरुणिः कम् उपदिशति?

उत्तरम् - श्वेतकेतुम्।


(च) “वत्स! चिरञ्जीव”- इति कः वदति?

उत्तरम् - आरुणिः।


(छ) अयं पाठः कस्याः उपनिषदः संगृहीतः?

उत्तरम् - छान्दोग्योपनिषदः।


2.अधोलिखितानां प्रश्नानामुत्तराणि संस्कृतभाषया लिखत


(क) श्वेतकेतुः सर्वप्रथमम् आरुणिं कस्य स्वरूपस्य विषये पृच्छति?

उत्तरम् - श्वेतकेतुः सर्वप्रथमम् आरुणिं मनसः स्वरूपस्य विषये पृच्छति।


(ख) आरुणिः प्राणस्वरूपं कथं निरूपयति?

उत्तरम् - आरुणिः निरूपयति यत् “आपोमयो लघुतमः रूपः भवति प्राणाः।“


(ग) मानवानां चेतांसि कीदृशानि भवन्ति?

उत्तरम् - मानवानां चेतांसि अशितान्नानुरूपाणि भवन्ति।


(घ) सर्पिः किं भवति?

उत्तरम् - मथ्यमानस्य दनः योऽणुतमः यदुवंम् आयाति तत् सर्पिः भवति।


(ङ) आरुणेः मतानुसारं मनः कीदृशं भवति?

उत्तरम् - आरुणे- मतानुसारं मनः अन्नमयं भवति।


3.(अ) ‘अ’ स्तम्भस्य पदानि ‘ब’ स्तम्भेन दत्तैः पदैः सह यथायोग्यं योजयत –

अ         

मनः – अन्नमयम्

प्राणः – तेजोमयी

वाक – आपोमयः

उत्तरम् - 

मनः – अन्नमयम्

प्राणः – आपोमयः

वाक् – तेजोमयी


(आ) अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत –

गरिष्ठः ___________

अधः ___________

एकवारम् ___________

अनवधीतम् ___________

किञ्चित् ___________


उत्तराणि - 

पदम्  - विलोमपदम्

गरिष्ठः – अणिष्ठः

अधः – ऊर्ध्वः

एकवारम् – भूयोऽपि

अनवधीतम् - अधीतम्

किञ्चित् – भूयः


4.उदाहरणमनुसृत्य निम्नलिखितेषु क्रियापदेषु ‘तुमुन्’ प्रत्ययं योजयित्वा पदनिर्माणं कुरुत –


यथा – प्रच्छ् + तुमुन् = प्रष्टुम्

(क) श्रु + तुमुन् =...........

(ख) वन्द् + तुमुन् =...........

(ग) पठ् + तुमुन् =...........

(घ) कृ + तुमुन् =...........

(ङ) वि + ज्ञा + तुमुन् =...........

(च) वि + आ + ख्या + तुमुन् =...........

उत्तराणि - 

(क) श्रु + तुमुन् – श्रोतुम्

(ख) वन्द् + तुमुन् – वन्दितुम्

(ग) पठ् + तुमुन् –पठितुम्

(घ) कृ + तुमुन् – कर्तुम्

(ङ) वि + ज्ञा + तुमुन् – विज्ञातुम्

(च) वि + आ + ख्या + तुमुन् – व्याख्यातुम्


5.निर्देशानुसारं रिक्तस्थानानि पूरयत –

(क) अहं किञ्चित् प्रष्टुम् ...........। (इच्छ्-लट्लकारे)

(ख) मनः अन्नमयं ......... (भू-लट्लकारे)

(ग) सावधानं ......... । (श्रु-लोट्लकारे)

(घ) तेजस्वि नौ अधीतम् .......... । (अस्-लोट्लकारे)

(ङ) श्वेतकेतुः आरुणेः शिष्य. ........... । (अस्-लङ्लकारे)


उत्तरम् -

(क) अहं किञ्चित् प्रष्टुम् इच्छामि।

(ख) मनः अन्नमयं भवति।

(ग) सावधानं शृणु।

(घ) तेजस्वि नौ अधीतम् अस्तु।

(ङ) श्वेतकेतुः आरुणेः शिष्यः आसीत्।


(अ) उदाहरणमनुसृत्य वाक्यानि रचयत –

यथा – अहं स्वदेशं सेवितुम् इच्छामि।

(क) .................... उपदिशामि।

(ख) ............. प्रणमामि।

(ग) ........... आज्ञापयामि।

(घ) ........... पृच्छामि।

(ङ) .............. अवगच्छामि।


उत्तरम् -

(क) अहं शिष्यं उपदिशामि।

(ख) अहं गुरुं प्रणमामि।

(ग) अहं सेवकं आज्ञापयामि।

(घ) अहं गुरुं प्रश्नं पृच्छामि।

(ङ) अहं मनसः स्वरूपं अवगच्छामि।


6.(अ) सन्धिं कुरुत –

(i) अशितस्य + अन्नस्य = .............

(ii) इति + अपि + अवधार्यम = ...........

(ii) का + इयम् = .............

(iv) नौ + अधीतम् = ...............

(v) भवति + इति = ...............


उत्तरम् -

(i)        अशितस्यान्नस्य 

(ii)       इत्यप्यवधार्यम् 

(iii)      केयम् 

(iv)      नावधीतम्

(v)        भवतीति 


(आ) स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –


(i) मथ्यमानस्य दध्नः अणिमा ऊर्ध्वं समुदीषति।

उत्तरम् - कीदृशस्य दध्नः अणिमा ऊर्ध्वं समुदीषति?


(ii) भवता घृतोत्पत्तिरहस्यं व्याख्यातम्।

उत्तरम् - केन घृतोत्पत्तिरहस्यं व्याख्यातम्?


(iii) आरुणिम् उपगम्य श्वेतकेतुः अभिवादयति।

उत्तरम् -आरुणिं उपगम्य कः अभिवादयति?


(iv) श्वेतकेतुः वाग्विषये पृच्छति। 

उत्तरम् - श्वेतकेतुः कस्य विषये पृच्छति?


7.पाठस्य सारांशं पञ्चवाक्यैः लिखत।

उत्तरम् -

पाठे आरुणिः श्वेतकेतुं विज्ञापयति। अन्नमयं भवति मनः। आपोमयो भवति प्राणाः। तेजोमयी भवति वाक्। मानवः यादृशमन्नादिकं खादति तादृशमेव तस्य चित्तादिकं भवति। 

Comments


bottom of page