NCERT Sanskrit Class 9 Chapter 3 - गोदोहनम्
- samskritasabha
- Apr 4, 2024
- 3 min read
Updated: Apr 10, 2024
तृतीयः पाठः
गोदोहनम्
CBSE Sanskrit Textbook शेमुषी Shemushi Solutions (2024-25) Syllabus
NCERT Solutions for Class 9 Sanskrit Chapter 3 - गोदोहनम्
Shemushi (शेमुषी) Part -1 प्रथमो भागः - नवमकक्ष्यायाः संस्कृतपाठ्यपुस्तकम्
Textbook Questions and answers
1.एकपदेन उत्तरं लिखत
(क) मल्लिका पूजार्थं सखीभिः सह कुत्र गच्छति स्म?
(ख) उमायाः पितामहेन कति सेटकमितं दुग्धम् अपेक्ष्यते स्म?
(ग) कुम्भकारः घटान् किमर्थं रचयति?
(घ) कानि चन्दनस्य जिह्वालोलुपतां वर्धन्ते स्म?
(ङ) नन्दिन्याः पादप्रहारैः कः रक्तरञ्जितः अभवत्?
उत्तराणि
(क) काशीविश्वनाथमन्दिरम्।
(ख) त्रिशत-सेटकमितम्।
(ग) जीविकाहेतोः।
(घ) मोदकानि।
(ङ) चन्दनः।
2.पूर्णवाक्येन उत्तरं लिखत
(क) मल्लिका चन्दनश्च मासपर्यन्तं धेनोः कथम् अकुरुताम्?
उत्तरम् : मल्लिका चन्दनश्च मासपर्यन्तं धेनो: दुग्धदोहनं विहाय तस्याः सेवाम् अकुरुताम्।
(ख) कालः कस्य रसं पिबति?
उत्तरम् : कालः क्षिप्रम् अक्रियमाणस्य आदानस्य प्रदानस्य कर्तव्यस्य च कर्मणः रसं पिबति।
(ग) घटमूल्यार्थं यदा मल्लिका स्वाभूषणं दातुं प्रयतते तदा कुम्भकारः किं वदति?
उत्तरम् : घटमूल्यार्थं यदा मल्लिका स्वाभूषणं दातुं प्रयतते तदा कुम्भकारः वदति यत् “पुत्रिके! नाहं पापकर्म करोमि। कथमपि नेच्छामि त्वाम् आभूषणविहीनां कर्तुम्। नयतु यथाभिलषितान् घटान्। दुग्धं विक्रीय एव घटमूल्यं ददातु।“
(घ) मल्लिकया किं दृष्ट्वा धेनोः ताडनस्य वास्तविक कारणं ज्ञातम्?
उत्तरम् : मल्लिकया दृष्टम् यत् ताभ्यां मासपर्यन्तं धेनो: दोहनं न कृतम्, येन सा पीडाम् अनुभवति, अत एव सा ताडयति।
(ङ) मासपर्यन्तं धेनोः अदोहनस्य किं कारणमासीत्?
उत्तरम् : मासान्ते त्रिशत-सेटकपरिमितं दुग्धं प्राप्तुं तेन च विक्रीय धनिकः भवितुं चन्दनः मासपर्यन्तं धेनोः दोहनं न करोति।
3.रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत –
(क) मल्लिका सखिभिः सह धर्मयात्रायै गच्छति स्म।
(ख) चन्दनः दुग्धदोहनं कृत्वा एव स्वप्रातराशस्य प्रबन्धम् अकरोत्।
(ग) मोदकानि पूजानिमित्तानि रचितानि आसन्।
(घ) मल्लिका स्वपतिं चतुरतमं मन्यते।
(ङ) नन्दिनी पादाभ्यां ताडयित्वा चन्दनं रक्तरञ्जितं करोति।
उत्तरम् :
प्रश्ननिर्माणम्
(क) मल्लिका काभिः सह धर्मयात्रायै गच्छति स्म?
(ख) चन्दनः दुग्धदोहनं कृत्वा एव कस्य प्रबन्धम् अकरोत्?
(ग) कानि पूजानिमित्तानि रचितानि आसन्?
(घ) मल्लिका स्वपतिं कीदृशं मन्यते?
(ङ) का पादाभ्यां ताडयित्वाचन्दनं रक्तरञ्जितं करोति?
4.मञ्जूषायाः सहायतया भावार्थे रिक्तस्थानानि पूरयत –
[ गृहव्यवस्थायै, उत्पादयेत्, समर्थकः, धर्मयात्रायाः, मङ्गलकामनाम, कल्याणकारिणः ]
यदा चन्दनः स्वपत्न्या काशीविश्वनाथं प्रति .......... विषये जानाति तदा सः क्रोधितः न भवति यत् तस्याः पत्नी तं ........ कथयित्वा सखीभिः सह भ्रमणाय गच्छति अपि तु तस्याः यात्रायाः कृते ......... कुर्वन् कथयति यत् तव मार्गाः शिवाः अर्थात् .......... भवन्तु। मार्गे काचिदपि बाधाः तव कृते समस्यां न ..........। एतेन सिध्यति यत् चन्दनः नारीस्वतन्त्रतायाः ........ आसीत्।।
उत्तरम् :
यदा चन्दनः स्वपल्या काशीविश्वनाथं प्रति धर्मयात्रायाः विषये जानाति तदा सः क्रोधितः न भवति यत् तस्याः पत्नी तं गृहव्यवस्थायै कथयित्वा सखीभिः सह भ्रमणाय गच्छति अपि तु तस्याः यात्रायाः कृते मङ्गलकामनाम् कुर्वन् कथयति यत् तव मार्गाः शिवाः अर्थात् कल्याणकारिणः भवन्तु। मार्गे काचिदपि बाधाः तव कृते समस्यां न उत्पादयेत्। एतेन सिध्यति यत् चन्दनः नारीस्वतन्त्रतायाः समर्थकः आसीत्।
5.घटनाक्रमानुसारं लिखत –
(क) सा सखीभिः सह तीर्थयात्रायै काशीविश्वनाथमन्दिरं प्रति गच्छति।
(ख) उभौ नन्दिन्याः सर्वविधपरिचर्यां कुरुतः।
(ग) उमा मासान्ते उत्सवार्थं दुग्धस्य आवश्यकताविषये चन्दनं सूचयति।
(घ) मल्लिका पूजार्थं मोदकानि रचयति।
(ङ) उत्सवदिने यदा दोग्धुं प्रयत्नं करोति तदा नन्दिनी पादेन प्रहरति।
(च) कार्याणि समये करणीयानि इति चन्दनः नन्दिन्याः पादप्रहारेण अवगच्छति।
(छ) चन्दनः उत्सवसमये अधिकं दुग्धं प्राप्तुं मासपर्यन्तं दोहनं न करोति।
(ज) चन्दनस्य पत्नी तीर्थयात्रां समाप्य गृहं प्रत्यागच्छति।
उत्तरम् :
घटनाक्रमानुसारं वाक्यानि
(क) मल्लिका पूजार्थं मोदकानि रचयति।।
(ख) सा सखीभिः सह तीर्थयात्रायै काशीविश्वनाथमन्दिरं प्रति गच्छति।
(ग) उमा मासान्ते उत्सवार्थं दुग्धस्य आवश्यकताविषये चन्दनं सूचयति।
(घ) चन्दनस्य पत्नी तीर्थयात्रां समाप्य गृहं प्रत्यागच्छति।
(ङ) उभौ नन्दिन्याः सर्वविधपरिचर्यां कुरुतः।
(च) चन्दनः उत्सवसमये अधिकं दुग्धं प्राप्तुं मासपर्यन्तं दोहनं न करोति।
(छ) उत्सवदिने यदा दोग्धुं प्रयत्नं करोति तदा नन्दिनी पादेन प्रहरति।
(ज) कार्याणि समये करणीयानि इति चन्दनः नन्दिन्याः पादप्रहारेण अवगच्छति।
6.अधोलिखितानि वाक्यानि कः कं प्रति कथयति इति प्रदत्तस्थाने लिखत -
कथनानि कः/का कं/काम्
स्वामिन् ! प्रत्यागता अहम् । आस्वादय प्रसादम्। मल्लिका चन्दनं प्रति
(क) धन्यवाद मातुल ! याम्यधुना । ............ ............
(ख) सूर्यातपे तत्रिसेटकमितं दुग्धम्। शोभनम् । व्यवस्था भविष्यति । ............ ............
(ग) मूल्यं तु दुग्धं विक्रीयैव दातुं शक्यते । ............ ............
(घ) पुत्रिके ! नाहं पापकर्म करोमि । ............ ............
(ङ) देवि ! मयापि ज्ञातं यदस्माभिः सर्वथानुचितं कृतम् । ............ ............
उत्तराणि
कथनानि कः/का कं/काम्
(क) धन्यवाद मातुल ! याम्यधुना । उमा चन्दनं प्रति
(ख) सूर्यातपे तत्रिसेटकमितं दुग्धम्। शोभनम् । व्यवस्था भविष्यति । चन्दनः उमां प्रति
(ग) मूल्यं तु दुग्धं विक्रीयैव दातुं शक्यते । चन्दनः कुम्भकारं प्रति
(घ) पुत्रिके ! नाहं पापकर्म करोमि । देवेशः मल्लिकां प्रति
(ङ) देवि ! मयापि ज्ञातं यदस्माभिः सर्वथानुचितं कृतम् । चन्दनः मल्लिकां प्रति
7.पाठस्य आधारेण प्रदत्तपदानां सन्धिं/सन्धिच्छेदं वा कुरुत –
(क) शिवास्ते = ............... + .................
(ख) मनः हरः = ............... + .................
(ग) सप्ताहान्ते = ............... + .................
(घ) नेच्छामि = ............... + .................
(ङ) अत्युत्तमः = ............... + .................
उत्तरम्
(क) शिवाः + ते
(ख) मनोहरः
(ग) सप्ताह + अन्ते
(घ) न + इच्छामि
(ङ) अति + उत्तमः।
(अ) पाठाधारेण अधोलिखितपदानां प्रकृति-प्रत्ययं च संयोज्य/विभज्य वा लिखत –
(क) करणीयम् = ................... + .....................
(ख) वि + क्री + ल्पय् = ............... + .................
(ग) पठितम् = ............... + .................
(घ) ताडय् + क्त्वा = ............... + .................
(ङ) दोग्धुम् = ............... + .................
उत्तरम्
(क) कृ + अनीयर्
(ख) विक्रीय
(ग) पठ् + क्त
(घ) ताडयित्वा
(ङ) दुह् + तुमुन्।
Comments