top of page

NCERT Sanskrit Class 9 Chapter 4 - कल्पतरुः (deleted from 2024-25 syllabus)

Updated: Apr 10, 2024


*चतुर्थः पाठः

कल्पतरुः


*This chapter is deleted on updated syllabus of 2023-24 and 2024-25.


CBSE Sanskrit Textbook शेमुषी Shemushi Solutions

NCERT Solutions for Class 9 Sanskrit Chapter 4 -  कल्पतरुः

Shemushi (शेमुषी) Part -1 प्रथमो भागः - नवमकक्ष्यायाः संस्कृतपाठ्यपुस्तकम्
Textbook Questions and answers

1.एकपदेन उत्तरं लिखत


(क) जीमूतवाहनः कस्य पुत्रः अस्ति?

उत्तरम् :  जीमूतकेतोः।


(ख) संसारेऽस्मिन् कः अनश्वरः भवति?

उत्तरम् :  परोपकारः। 


(ग) जीमूतवाहनः परोपकारैकफलसिद्धये कम् आराधयति?

उत्तरम् :  कल्पपादपम्। 


(घ) जीमूतवाहनस्य सर्वभूतानुकम्पया सर्वत्र किं प्रथितम्?

उत्तरम् :  यशः। 


(ङ) कल्पतरुः भुवि कानि अवर्ष?

उत्तरम् :  वसूनि। 


2.अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत –


(क) कञ्चनपुरं नाम नगरं कत्र विभाति स्म?

उत्तरम् : कञ्चनपुरं नाम नगरं हिमवतः शिखरे विभाति।


(ख) जीमूतवाहनः कीदृशः आसीत्?

उत्तरम् : जीमूतवाहनः महान् दानवीरः सर्वभूतानुकम्पी च आसीत्।


(ग) कल्पतरोः वैशिष्टयमाकर्ण्य जीमूतवाहनः किं अचिन्तयत्?  

उत्तरम् : अहं ईदृशात् अमरपादपात् अभीष्टं मनोरथं साधयामि इति।


(घ) हितैषिणः मन्त्रिण: जीमूतवाहनं किम् उक्तवन्तः?  

उत्तरम् : हितैषिणः मन्त्रिणः जीमूतवाहनम् उक्तवन्तः यत्-“युवराज ! योऽयं सर्वकामदः कल्पतरुः तवोद्याने तिष्ठति स तव सदा पूज्य:। अस्मिन् अनुकूले स्थिते सति शक्रोऽपि अस्मान् बाधितुं न शक्नुयात्।“


(ङ) जीमूतवाहनः कल्पतरुम् उपगम्य किम् उवाच?

उत्तरम् : जीमूतवाहनः कल्पतरुम् उपगम्य उवाच यत्-“देव! त्वया अस्मत् पूर्वेषाम् अभीष्टाः कामाः पूरिताः, तन्ममैकं कामं पूरय। यथा पृथिवीम् अदरिद्राम् पश्यामि, तथा करोतु देव।“


3.अधोलिखितवाक्येषु स्थूलपदानि कस्मै प्रयुक्तानि ?


(क) तस्य सानोरुपरि विभाति कञ्चनपुरं नाम नगरम्।

उत्तरम् : हिमवते। 


(ख) राजा सम्प्राप्तयौवनं तं यौवराज्ये अभिषिक्तवान्?

उत्तरम् :  जीमूतवाहनाय।


(ग) अयं तव सदा पूज्यः।

उत्तरम् : कल्पतरवे। 


(घ) तात! त्वं तु जानासि यत् धनं वीचिवच्चञ्चलम्।

उत्तरम् : जीमूतकेतवे।


4.अधोलिखितानां पदानां पर्यायपदं पाठात् चित्वा लिखत


(क) पर्वतः - ...............

(ख) भूपतिः - ...............

(ग) इन्द्रः - ...............

(घ) धनम् - ...............

(ङ) इच्छितम् - ...............

(च) समीपम् - ...............

(छ) धरित्रीम् - ...............

(ज) कल्याणम् - ...............

(झ) वाणी - ...............

(ञ) वृक्षः - ...............

उत्तरम् :  

पदम्         पर्यायः

(क) पर्वतः  – नगः

(ख) भूपतिः – राजा

(ग) इन्द्रः  – शक्रः

(घ) धनम्  – वसु

(ङ) इच्छितम् – अभिलषितम्

(च) समीपम् – अन्तिकम्

(छ) धरित्रीम् – पृथ्वीम्

(ज) कल्याणम् – हितम्

(झ) वाणी  – वाक्

(ञ) वृक्षः  – तरुः


5.’क’ स्तम्भे विशेषणानि ‘ख’ स्तम्भे च विशेष्याणि दत्तानि। तानि समुचितं योजयत –

‘क’ स्तम्भः – ‘ख’ स्तम्भः

कुलक्रमागतः – परोपकारः

दानवीरः – मन्त्रिभिः

हितैषिभिः – जीमूतवाहनः

वीचिवच्चञ्चलम् – कल्पतरुः

अनश्वरः – धनम्

उत्तरम् :

कुलक्रमागतः  – कल्पतरुः

दानवीरः  – जीमूतवाहनः

हितैषिभिः  – मन्त्रिभिः

वीचिवच्चञ्चलम् – धनम्

अनश्वरः  – परोपकारः


6. स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत

(क) तरोः कृपया सः पुत्रम् अप्राप्नोत्।

उत्तरम् :  कस्य कृपया सः पुत्रं अप्राप्नोत्?


(ख) सः कल्पतरवे न्यवेदयत्।

उत्तरम् :  सः कस्मै न्यवेदयत्?


(ग) धनवृष्टया कोऽपि दरिद्रः नातिष्ठत्।

उत्तरम् :  कया कोऽपि दरिद्रः नातिष्ठत्?


(घ) कल्पतरुः पृथिव्यां धनानि अवर्षत्। 

उत्तरम् :  कल्पतरुः कुत्र धनानि अवषेत्?


(ङ)  जीवानुकम्पया जीमूतवाहनस्य यशः प्रासरत्। 

उत्तरम् :  कया जीमूतवाहनस्य यशः प्रासरत्?


7.(क) स्वस्ति तुभ्यम्’ स्वस्ति शब्दस्य योगे चतुर्थी विभक्तिः भवति। इत्यनेन नियमेन अत्र चतुर्थी विभक्तिः प्रयुक्ता। एवमेव (कोष्ठकगतेषु पदेषु ) चतुर्थी विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत

1.स्वस्ति ......... (राजा)

2.स्वस्ति ....... (प्रजा)

3.स्वस्ति ................(छात्र)

4.स्वस्ति ............. ( सर्वजन) .


उत्तरम् :

1. स्वस्ति राज्ञे।

2.स्वस्ति प्रजाभ्यः।

3.स्वस्ति छात्रेभ्यः।

4.स्वस्ति सर्वजनेभ्यः।


(ख) कोष्ठकगतेषु पदेषु षष्ठी विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत

1.तस्य ......... उद्याने कल्पतरुः आसीत्। (गृह)

2.सः ........ अन्तिकम् अगच्छत्। (पितृ)

3........ सर्वत्र यशः प्रथितम्। (जीमूतवाहन)

4.अयं............ तरुः? (किम्)।


उत्तरम् : 

1.गृहस्य उद्याने कल्पतरुः आसीत्।

2.सः पितुः अन्तिकम् अगच्छत्।

3.जीमूतवाहनस्य सर्वत्र यशः प्रथितम्।

4.अयं कस्य तरुः?

 

Comments


bottom of page