NCERT Sanskrit Class 9 Chapter 4 - सूक्तिमौक्तिकम्
- samskritasabha
- Apr 11, 2024
- 3 min read
Updated: Apr 12, 2024
चतुर्थः पाठः
सूक्तिमौक्तिकम्
CBSE Sanskrit Textbook शेमुषी Shemushi Solutions (2024-25) Syllabus
NCERT Solutions for Class 9 Sanskrit Chapter 4 - सूक्तिमौक्तिकम्
Shemushi (शेमुषी) Part -1 प्रथमो भागः - नवमकक्ष्यायाः संस्कृतपाठ्यपुस्तकम्
Textbook Questions and answers
1.एकपदेन उत्तरं लिखत-
(क) वित्ततः क्षीणः कीदृशः भवति?
उत्तरम् : अक्षीणः।
(ख) कस्य प्रतिकूलानि कार्याणि परेषां न समाचरेत्?
उत्तरम् : आत्मनः।
(ग) कुत्र दरिद्रता न भवेत्?
उत्तरम् : वचने।
(घ) वृक्षाः स्वयं कानि न खादन्ति?
उत्तरम् : फलानि।
(ङ) का पुरा लघ्वी भवति?
उत्तरम् : परार्द्धस्य छाया/सज्जनानां मैत्री।
2.अधोलिखितप्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत
(क) यत्नेन किं रक्षेत् वित्तं वृत्तं वा?
उत्तरम् : यत्नेन वृत्तं रक्षेत्।
(ख) अस्माभिः (किं न समाचरेत्) कीदृशम् आचरणं न कर्त्तव्यम्?
उत्तरम् : अस्माभिः आत्मनः प्रतिकूलं न समाचरेत्।
(ग) जन्तवः केन तुष्यन्ति?
उत्तरम् : जन्तवः प्रियवाक्यप्रदानेन तुष्यन्ति।
(घ) सज्जनानां मैत्री कीदृशी भवति?
उत्तरम् : सज्जनानां मैत्री दिनस्य परार्ध छाया इव आरम्भे लघ्वी पश्चात् च गुर्वी भवति।
(ङ) सरोवराणां हानिः कदा भवति?
उत्तरम् : यदा हंसाः तान् परित्यज्य अन्यत्र गच्छन्ति।
3.’क’ स्तम्भे विशेषणानि ‘ख’ स्तम्भे च विशेष्याणि दत्तानि, तानि यथोचितं योजयत
'क' स्तम्भः 'ख' स्तम्भः
(क) आस्वाद्यतोयाः (1) खलानां मैत्री
(ख) गुणयुक्तः (2) सज्जनानां मैत्री
(ग) दिनस्य पूर्वार्द्धभिन्ना (3) नद्यः
(घ) दिनस्य परार्धभिन्ना (4) दरिद्रः
उत्तराणि
'क' स्तम्भः 'ख' स्तम्भः
(क) आस्वाद्यतोयाः (3) नद्यः
(ख) गुणयुक्तः (4) दरिद्रः
(ग) दिनस्य पूर्वार्द्धभिन्ना (1) खलानां मैत्री
(घ) दिनस्य परार्धभिन्ना (2) सज्जनानां मैत्री
4. अधोलिखितयोः श्लोकद्वयोः आशयं हिन्दीभाषया आङ्ग्लभाषया वा लिखत –
(क) आरम्भगुर्वी क्षयिणी क्रमेण
लघ्वी पुरा वृद्धिमती च पश्चात्
दिनस्य पूर्वार्द्धपरार्द्धभिन्ना
छायेव मैत्री खलसजनानाम् ॥
आशयः आङ्गलभाषायाम् -
This sukthi explains the difference between the friendship of the wicked and the friendship of a gentleman, with the example of shadow. At the beginning of the day, the size of the shadow is large and it decreases and becomes small when it is noon. From noon till evening the size of the shadow varies from smaller size to larger. Similar is the difference between the friendship of the wicked and the gentleman.
आशयः हिन्दीभाषायाम् -
यह सूक्ति दुष्ट की मित्रता और सज्जन की मित्रता के बीच के अंतर को छाया के उदाहरण से समझाती है। दिन के प्रारम्भ में छाया का आकार बड़ा होता है तथा दोपहर होने पर छाया का आकार घट कर छोटा हो जाता है। दोपहर से शाम तक छाया का आकार छोटे से बड़े आकार में बदलता रहता है। दुष्ट और सज्जन की मित्रता में भी यही अंतर है।
(ख) प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः।
तस्मात्तदेव वक्तव्यं वचने का दरिद्रता।।
आशयः आङ्गलभाषायाम् -
All living beings become satisfied by listening to loving words. Hence one should do it accordingly. What is then lacking in speaking sweet words?
आशयः हिन्दीभाषायाम् -
प्रेमपूर्ण वचन सुनकर सभी प्राणी तृप्त हो जाते हैं। अत: उसके अनुसार ही कार्य करना चाहिए। फिर मधुर वचन बोलने में क्या कमी है?
Pending
5. अधोलिखितपदेभ्यः भिन्नप्रकृतिकं पदं चित्वा लिखत –
(क) वक्तव्यम्, कर्त्तव्यम्, सर्वस्वम्, हन्तव्यम्।
उत्तरम् : सर्वस्वम्।
(ख) यत्नेन, वचने, प्रियवाक्यप्रदानेन, मरालेन।
उत्तरम् : वचने।
(ग) श्रूयताम्, अवधार्यताम्, धनवताम्, क्षम्यताम्।
उत्तरम् : धनवताम्।
(घ) जन्तवः, नद्यः, विभूतयः, परितः।
उत्तरम् : परितः।
6. स्थूलपदान्यधिकृत्य प्रश्नवाक्यनिर्माणं कुरुत –
(क) वृत्ततः क्षीणः हतः भवति।
उत्तरम् : कस्मात् क्षीणः हतः भवति?
(ख) धर्मसर्वस्वं श्रुत्वा अवधार्यताम्।
उत्तरम् : कं श्रुत्वा अवधार्यताम्?
(ग) वृक्षाः फलं न खादन्ति।
उत्तरम् : के फलं न खादन्ति?
(घ) खलानाम् मैत्री आरम्भगुर्वी भवति।
उत्तरम् : केषाम् मैत्री आरम्भगुर्वी भवति?
7. अधोलिखितानि वाक्यानि लोट्लकारे परिवर्तयत यथा –
यथा - सः पाठं पठति। सः पाठं पठतु।
(क) नद्यः आस्वाद्यतोयाः सन्ति। ...............
(ख) सः सदैव प्रियवाक्यं वदति। ..............
(ग) त्वं परेषां प्रतिकूलानि न समाचरसि। ..............
(घ) ते वृत्तं यत्नेन संरक्षन्ति। ............
(ङ) अहम् परोपकाराय कार्यं करोमि। ..............
उत्तरम् :
(क) नद्यः आस्वाद्यतोयाः सन्ति। - नद्यः आस्वाद्यतोयाः सन्तु।
(ख) सः सदैव प्रियवाक्यं वदति। - सः सदैव प्रियवाक्यं वदतु।
(ग) त्वं परेषां प्रतिकूलानि न समाचरसि। - त्वं परेषां प्रतिकूलानि न समाचर।
(घ) ते वृत्तं यत्नेन संरक्षन्ति। - ते वृत्तं यत्नेन संरक्षन्तु।
(ङ) अहम् परोपकाराय कार्यं करोमि। - अहं परोपकाराय कार्य करवाणि।
Comments