top of page

NCERT Sanskrit Class 9 Chapter 6 - लौहतुला


षष्ठः पाठः

लौहतुला


CBSE Sanskrit Textbook शेमुषी Shemushi Solutions (2024-25) Syllabus

NCERT Solutions for Class 9 Sanskrit Chapter 6 -   लौहतुला

Shemushi (शेमुषी) Part -1 प्रथमो भागः - नवमकक्ष्यायाः संस्कृतपाठ्यपुस्तकम्
Textbook Questions and answers

1.एकपदेन उत्तरं लिखत –

(क) वणिक्पुत्रस्य किं नाम आसीत्?

(ख) तुला कैः भक्षिता आसीत्?

(ग) तुला कीदृशी आसी?

(घ) पुत्र. क्रेन हृतः इति जीर्णधनः वदति?

(ङ) विवदमानौ तौ द्वावपि कुत्र गतौ?

उत्तराणि :

(क) जीर्णधनः।

(ख) मूषकैः

(ग) लौहघटिता।

(घ) श्येन

(ङ) राजकुलम्।


2. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत –


(क) देशान्तरं गन्तुमिच्छन् वणिक्पुत्रः किं व्यचिन्तयत्?

उत्तरम् : वणिक्पुत्रः व्यचिन्तयत्-‘यत्र पूर्वं भोगाः भुक्ताः तत्र विभवहीनः सन् न वसेत्।‘


(ख) स्वतुलां याचमानं जीर्णधनं श्रेष्ठी किं अकथयत्?

उत्तरम् : जीर्णधनं श्रेष्ठी अकथयत्”भोः! नास्ति तुला सा तु मूषकैः भक्षिता।“


(ग) जीर्णधनः गिरिगुहाद्वारं कया आच्छाद्य गृहमागतः।।

उत्तरम् : जीर्णधनः गिरिगुहाद्वारं महत्या शिलया आच्छाद्य गृहमागतः।


(घ) स्नानानतरं पुत्रविषये पृष्टः वणिक्पुत्रः श्रेष्ठिनं किम् अवदत्?

उत्तरम् : वणिक्पुत्रः अवदत्-“भोः! तव पुत्रः नदीतटात् श्येनेन हृतः”।


(ङ) धर्माधिकारिणः जीर्णधनश्रेष्ठिनौ कथं तोषितवन्तः? 

उत्तरम् : धर्माधिकारिणः तौ परस्परं तुला-शिशु-प्रदानेन तोषितवन्तः।


3. स्थूलपदान्यधिकत्य प्रश्ननिर्माणं कुरुत


(क) जीर्णधनः विभवक्षयात् देशान्तरं गन्तुमिच्छन् व्यचिन्तयत्।

उत्तरम् : कः विभवक्षयात् देशान्तरं गन्तुमिच्छन् व्यचिन्तयत्?


(ख) श्रेष्ठिनः शिशुः स्नानोपकरणमादाय अभ्यागतेन सह प्रस्थितः।

उत्तरम् : श्रेष्ठिनः शिशुः स्नानोपकरणमादाय केन सह प्रस्थितः?


(ग) वणिक् गिरिगुहां बृहच्छिलया आच्छादितवान्।

उत्तरम् : वणिक् गिरिगुहां कया आच्छादितवान्?


(घ) सभ्यैः तौ परस्परं संबोध्य तुला-शिशु-प्रदानेन सन्तोषितौ।

उत्तरम् : सभ्यैः तौ परस्परं संबोध्य कथं सन्तोषितौ? 


4.अधोलिखितानां श्लोकानाम् अपूर्णोऽन्वयः प्रदत्तः पाठमाधृत्य तम् पूरयत –


(क) यत्रं देशे अथवा स्थाने भोगाः भुक्ता ........................................................................ ।


(ख) राजन्! यत्र लौहसहनस्य मूषकाः खादन्ति ........................................................................ ।


उत्तरम् :

(क) यत्र देशे अथवा स्थाने स्ववीर्यतः भोगाः भुक्ता तस्मिन् विभवहीनः यः वसेत् स पुरुषाधमः

(ख) राजन्! यत्र लौहसहस्रस्य तुलां मूषकाः खादन्ति तत्र श्येनः बालकं हरेत् अत्र संशयः न


5. तत्पदं रेखाङ्कितं कुरुत यत्र –

(क) ल्यप् प्रत्ययः नास्ति

( स्य, लौहसहस्रस्य, संबोध्य, आदाय )

उत्तरम् : लौहसहस्रस्य। 


(ख) यत्र द्वितीया विभक्तिः नास्ति –

( श्रेष्ठिनम्, स्नानोपकरणम्, सत्वरम्, कार्यकारणम् )

उत्तरम् : सत्वरम्। 


(ग) यत्र षष्ठी विभक्तिः नास्ति

 (पश्यतः, स्ववीर्यतः, श्रेष्ठिनः सभ्यानाम् )

उत्तरम् : स्ववीर्यतः। 


6. सन्धिना सन्धिविच्छेदेन वा रिक्तस्थानानि पूरयत –

(क) श्रेष्ठ्याह = .......... + आह

(ख) ......... = द्वौ + अपि

(ग) पुरुषोपार्जिता = पुरुष + ...........

(घ) ............ = यथा + इच्छया

(ङ) स्नानोपकरणम् = ................ + उपकरणम्

(च) ............ = स्नान + अर्थम्

उत्तरम् :

(क) श्रेष्ठ्याह = श्रेष्ठी + आह

(ख) द्वावपि  = द्वौ + अपि

(ग) पुरुषोपार्जिता = पुरुष + उपार्जिता 

(घ) यथेच्छया  = यथा + इच्छया

(ङ) स्नानोपकरणम्  = स्नान + उपकरणम्

(च) स्नानार्थम्  = स्नान + अर्थम्


7. समस्तपदं विग्रहं वा लिखत –

विग्रहः  समस्तपदम्

(क) स्नानस्य उपकरणम् = ............

(ख) ......... ........... = गिरिगुहायाम्

(ग) धर्मस्य अधिकारी = .............

(घ) ............ ........... = विभवहीनाः


उत्तरम् :

विग्रहः समस्तपदम्

(क) स्नानस्य उपकरणम् = स्नानोपकरणम्

(ख) गिरेः गुहायाम्। = गिरिगुहायाम्

(ग) धर्मस्य अधिकारी = धर्माधिकारी

(घ) विभवेन हीनाः = विभवहीनाः


(अ) यथापेक्षम् अधोलिखितानां शब्दानां सहायतया ‘लौहतुला’ इति कथायाः सारांशं संस्कृतभाषया लिखत –

वणिक्पुत्रः स्नानार्थम्

लौहतुला अयाचत्

वृत्तान्तं ज्ञात्वा

श्रेष्ठिनं प्रत्यागतः

गतः प्रदानम्


उत्तरम् :

कस्मिंश्चिद् नगरे एक: वणिक्पुत्रः आसीत्। निर्धनो भूत्वा सः स्वस्य लौहतुलां कस्यचित् श्रेष्ठिनो गृहे निक्षेपभूतां कृत्वा देशान्तरं गतः। स्वनगरमा प्रत्यागत्य श्रेष्ठिनं लौहतुलाम् अयाचत्। श्रेष्ठी अवदत्- “सा तुला तु मूषकैः भक्षिता”। ततः सः वणिक्पुत्रः श्रेष्ठीपुत्रेण सह नद्यां स्नानार्थं गतः।  तत्र च गिरि-गुहायां तस्य श्रेष्ठिनः पुत्रं प्रक्षिप्य सत्वरं गृहमागतः। यदा सः वणिक्पुत्रः एकाकी प्रत्यागतः तदा श्रेष्ठी स्वपुत्रविषये पृष्टवान्। स कथयति यत् “नदीतटात् सः श्येनेन अपहृतः"। तौ विवदन्तौ न्यायालयं प्रति गतौ। तत्र न्यायाधिकारिणः सर्वं वृत्तान्तं ज्ञात्वा तौ संबोध्य परस्परं तुला-शिशु-प्रदानेन च तोषितवन्तः।

Comments


bottom of page