top of page

NCERT Sanskrit Class 9 Chapter 7 - सिकतासेतुः


सप्तमः पाठः

सिकतासेतुः


CBSE Sanskrit Textbook शेमुषी Shemushi Solutions (2024-25) Syllabus

NCERT Solutions for Class 9 Sanskrit Chapter 7 -   सिकतासेतुः

Shemushi (शेमुषी) Part -1 प्रथमो भागः - नवमकक्ष्यायाः संस्कृतपाठ्यपुस्तकम्
Textbook Questions and answers

1.एकपदेन उत्तरं लिखत

(क) कः बाल्ये विद्यां न अधीतवान?

(ख) तपोदत्तः कया विद्याम् अवाप्तुं प्रवृत्तः अस्ति?

(ग) मकरालये कः शिलाभिः सेतुं बबन्ध?

(घ) मार्गभ्रान्तः सन्ध्यां कुत्र उपैति?

(ङ) पुरुषः सिकताभिः किं करोति?


उत्तराणि

(क) तपोदत्तः।

(ख) तपश्चर्या

(ग) रामः।

(घ) गृहम्

(ङ) सेतुनिर्माणम्।


2.अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत 


(क)  अनधीतः तपोदत्तः कैः गर्हितोऽभवत्?

उत्तरम् : अनधीतः तपोदत्तः कुटुम्बिभिः मित्रैश्च गर्हितोऽभवत्।


(ख)  तपोदत्तः केन प्रकारेण विद्यामवाप्तुं प्रवृत्तोऽभवत्?

उत्तरम् : तपोदत्तः तपोभिरेव विद्यामवाप्तुं प्रवृत्तोऽभवत्।


(ग)  तपोदत्तः पुरुषस्य कां चेष्टां दृष्ट्वा अहस?

उत्तरम् : तपोदत्तः पुरुषं सिकताभिः नद्यां सेतुनिर्माणप्रयासं कुर्वाणं दृष्ट्वा अहसत्।


(घ)  तपोमात्रेण विद्यां प्राप्तुं तस्य प्रयासः कीदृशः कथितः?

उत्तरम् : तपोमात्रेण विद्यां प्राप्तुं तस्य प्रयासः सिकताभिः नद्यां सेतुनिर्माणप्रयासः कथितः।


(ङ)   अन्ते तपोदत्तः विद्याग्रहणाय कुत्र गतः?

उत्तरम् : अन्ते तपोदत्तः विद्याग्रहणाय गुरुकुलं गतः।


3.भिन्नवर्गीयं पदं चिनुत यथा-अधिरोढुम्, गन्तुम्, सेतुम्, निर्मातुम्।


(क) निःश्वस्य, चिन्तय, विमृश्य, उपेत्य।

उत्तरम् : चिन्तय। 


(ख) विश्वसिमि, पश्यामि, करिष्यामि, अभिलषामि।

उत्तरम् : करिष्यामि। 


(ग) तपोभिः, दुर्बुद्धिः, सिकताभिः, कुटुम्बिभिः।

उत्तरम् : दुर्बुद्धिः।


4. (क) रेखाङ्कितानि सर्वनामपदानि कस्मै प्रयुक्तानि?


(i) अलमलं तव श्रमेण।

उत्तरम् : पुरुषाय। 


(ii) न अहं सोपानमागैरट्टमधिरोढुं विश्वसिमि।

उत्तरम् : पुरुषाय। 


(iii) चिन्तितं भवता न वा?

उत्तरम् : पुरुषाय। 


(iv) गुरुगृहं गत्वैव विद्याभ्यासो मया करणीयः।

उत्तरम् : तपोदत्ताय। 


(v) भवद्भिः उन्मीलितं मे नयनयुगलम्।

उत्तरम् : तपोदत्ताय।


(ख) अधोलिखितानि कथनानि कः कं प्रति कथयति?

 

कथनानि कः कम्

(i) हा विधे ! किमिदं मया कृतम् ? ....... .......

(ii) भो महाशय ! किमिदं विधीयते ! ....... .......

(iii) भोस्तपस्विन् ! कथं माम् उपरुणत्सि?....... .......

(iv) सिकताः जलप्रवाहे स्थास्यन्ति किम् ?....... .......

(v) नाहं जाने कोऽस्ति भवान् ? ....... .......


उत्तरम् :

(i) हा विधे ! किमिदं मया कृतम् ?

कः तपोदत्तः कम् विधिम्

(ii) भो महाशय ! किमिदं विधीयते ?

कः तपोदत्तः कम् पुरुषम्

(iii) भोस्तपस्विन् ! कथं माम् उपरुणत्सि?

कः पुरुषः कम् तपोदत्तम्

(iv) सिकताः जलप्रवाहे स्थास्यन्ति किम् ?

कः तपोदत्तः कम् पुरुषम्

(v) नाहं जाने कोऽस्ति भवान् ?

कः तपोदत्तः कम् पुरुषम्


5.स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –


(क) तपोदत्तः तपश्चर्यया विद्यामवाप्तुं प्रवृत्तोऽसि।

उत्तरम् : तपोदत्तः कया विद्यामवाप्तुं प्रवृत्तोऽसि?


(ख) तपोदत्तः कुटुम्बिभिः मित्रैः गर्हितः अभवत्।

उत्तरम् : कः कुटुम्बिभिः मित्र: गर्हितः अभवत्?


(ग) पुरुषः नद्यां सिकताभिः सेतुं निर्मातुं प्रयतते।

उत्तरम् : पुरुषः कुत्र सिकताभिः सेतुं निर्मातुं प्रयतते?


(घ) तपोदत्तः अक्षरज्ञानं विनैव वैदुष्यमवाप्तुम् अभिलषति।

उत्तरम् : तपोदत्तः किं विनैव वैदुष्यमवाप्तुम् अभिलषति?


(ङ)  तपोदत्तः विद्याध्ययनाय गुरुकुलम् अगच्छत्। 

उत्तरम् : तपोदत्तः किमर्थं गुरुकुलं अगच्छत्?


(च)  गुरुगृहं गत्वैव विद्याभ्यास: करणीयः। 

उत्तरम् : कुत्र गत्वैव विद्याभ्यासः करणीयः?


6.उदाहरणमनुसृत्य अधोलिखितविग्रहपदानां समस्तपदानि लिखत –

         विग्रहपदानि –      समस्तपदानि 

यथा – संकल्पस्य सातत्येन – संकल्पसातत्येन

(क) अक्षराणां ज्ञानम् - ...................

(ख) सिकतायाः सेतुः - ...................

(ग) पितुः चरणैः - ...................

(घ) गुरोः गृहम् - ..............

(ङ) विद्यायाः अभ्यासः - ...............


उत्तरम् :

     विग्रहपदानि  – समस्तपदानि 

(क) अक्षराणां ज्ञानम् – अक्षरज्ञानम् 

(ख) सिकतायाः सेतुः – सिकतासेतुः 

(ग) पितुः चरणैः पितृचरणैः 

(घ) गुरोः गृहम् गुरुगृहम् 

(ङ) विद्यायाः अभ्यासः विद्याभ्यासः 


(अ) उदाहरणमनुसृत्य अधोलिखितानां समस्तपदानां विग्रहं कुरुत –

 

     समस्तपदानि  –  विग्रहः

यथा – नयनयुगलम् – नयनयोः युगलम्

(क) जलप्रवाहे - ...............

(ख) तपश्चर्यया - ..............

(ग) जलोच्छलनध्वनिः - ............

(घ) सेतुनिर्माणप्रयासः - ..............


उत्तरम् :

   समस्तपदानि   – विग्रहः 

(क) जलप्रवाहे जलस्य प्रवाहे 

(ख) तपश्चर्यया तपसः चर्यया

(ग) जलोच्छलनध्वनिः जलस्य उच्छलनस्य ध्वनिः

(घ) सेतुनिर्माणप्रयासः – सेतोः निर्माणस्य प्रयासः।


7. उदाहरणमनुसृत्य कोष्ठकात् पदम् आदाय नूतनं वाक्यद्वयं रचयत

(क) यथा- अलं चिन्तया। (‘अलम्’ योगे तृतीया)

(i) ............... ............... (भय)

(ii) ............... ............... (कोलाहल)


उत्तरम् :

(i)   अलं भयेन। 

(ii)  अलं कोलाहलेन। 


(ख) यथा – माम् अनु स गच्छति। (‘अनु’ योगे द्वितीया)

(i) ….. ….. ….. ….. (गृह)

(ii) ….. ….. ….. ….. (पर्वत)

उत्तरम् :

(i)        गृहम् अनु सः चलति। 

(ii)       पर्वतम् अनु सा गच्छति। 

 

(ग) यथा- अक्षरज्ञानं विनैव वैदुष्यं प्राप्तुमभिलषसि। (‘विना’ योगे द्वितीया)

(i) ….. ….. ….. ….. (परिश्रम)

(ii) ….. ….. ….. ….. (अभ्यास)


उत्तरम् :

(i)        परिश्रमं विनैव धनं प्राप्तुम् अभलषसि। 

(ii)       अभ्यासं विनैव विद्यां प्राप्तुम् अभलषसि। 

 

(घ) यथा-सन्ध्यां यावत् गृहमुपैति। (‘यावत्’ योगे द्वितीया)

(i) ….. ….. ….. ….. (मास)

(ii) ….. ….. ….. ….. (वर्ष)


उत्तरम् :

(i) मासं यावत् ग्रामम् उपैति। 

(ii) वर्षं यावत् विद्यालयम् उपैति। 

コメント


bottom of page