NCERT Sanskrit Class 9 Chapter 8 - जटायोः शौर्यम्
- samskritasabha
- Apr 12, 2024
- 3 min read
अष्टमः पाठः
जटायोः शौर्यम्
CBSE Sanskrit Textbook शेमुषी Shemushi Solutions (2024-25) Syllabus
NCERT Solutions for Class 9 Sanskrit Chapter 8 - जटायोः शौर्यम्
Shemushi (शेमुषी) Part -1 प्रथमो भागः - नवमकक्ष्यायाः संस्कृतपाठ्यपुस्तकम्
Textbook Questions and answers
1.एकपदेन उत्तरं लिखत
(क) आयतलोचना का अस्ति?
(ख) सा कं ददर्श?
(ग) खगोत्तमः कीदृशीं गिरं व्याजहार?
(घ) जटायुः काभ्यां रावणस्य गात्रे व्रणं चकार?
(ङ) अरिन्दमः खगाधिपः कति बाहून् व्यपाहर?
उत्तराणि
(क) सीता।
(ख) गृध्रम् (जटायुम्)।
(ग) शुभाम्।
(घ) तीक्ष्णनखाभ्यां चरणाभ्याम्।
(ङ) दश वामबाहून्
2.अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत-
(क) “जटायो! पश्य” -इति का वदति?
उत्तरम् : “जटायो! पश्य” – इति वैदेही वदति।
(ख) जटायुः रावणं किं कथयति?
उत्तरम् : “रावण! परदाराभिमर्शनात् नीचां मति निवर्तय” इति।
(ग) क्रोधवशात रावणः किं कर्तम उद्यतः अभवत?
उत्तरम् : क्रोधोन्मत्त रावणः जटायुं तलेन अभिजधान।
(घ) पतगेश्वरः रावणस्य कीदृशं चापं सशरं बभज?
उत्तरम् : पतगेश्वरः रावणस्य मुक्तामणि विभूषितं सशरं चापं बभञ्ज।
(ङ) जटायुः केन वामबाहुं दंशति?
उत्तरम् : : जटायुः तुण्डेन वामबाहुं दंशति।
3.उदाहरणमनुसृत्य णिनि-प्रत्ययप्रयोगं कृत्वा पदानि रचयत
यथा – गुण + णिनि – गुणिन् (गुणी)
दान + णिनि – दानिन् (दानी)
(क) कवच + णिनि - _________
(ख) शर + णिनि - ________
(ङ) दश। + णिनि - ________
(ग) कुशल + णिनि - _________
(घ) धन + णिनि - ___________
(ङ) दण्ड + णिनि - ___________
उत्तरम् : :
(क) कवचं + णिनि – कवचिन् (कवची)
(ख) शर + णिनि – शरिन् (शरी)
(ग) कुशल + णिनि – कुशलिन् (कुशली)
(घ) धन + णिनि – धनिन् (धनी)
(ङ) दण्ड + णिनि – दण्डिन् (दण्डी)
(अ) रावणस्य जटायोश्च विशेषणानि सम्मिलितरूपेण लिखितानि तानि पृथक्-पृथक् कृत्वा लिखत –
युवा, सशरः, वृद्धः, हताश्वः, महाबलः, पतगसत्तमः, भग्नधन्वा, महागृधः, खगाधिपः, क्रोधमूर्च्छितः, पतगेश्वरः, सरथः, कवची, शरी।
यथा – रावणः जटायुः
युवा वृद्धः
.......... ..........
.......... ..........
.......... ..........
.......... ..........
.......... ..........
.......... ..........
उत्तरम्
रावणः – जटायुः
सशरः – महाबलः
हताश्वः – पतगसत्तमः
भग्नधन्वा – महागृध्रः
क्रोधमूर्च्छितः – खगाधिपः
सरथः – पतगेश्वरः
कवची – शरी
4. ‘क’ स्तम्भे लिखितानां पदानां पर्यायाः ‘ख’ स्तम्भे लिखिताः। तान् यथासमक्षं योजयत –
क ख
कवची – अपतत्
आशु – पक्षिश्रेष्ठः
विरथः – पृथिव्याम्
पपात – कवचधारी
भुवि – शीघ्रम्
पतगसत्तमः – रथविहीनः
उत्तरम् :
क ख
कवची – कवचधारी
आशु – शीघ्रम्
विरथः – रथविहीनः
पपात – अपतत्
भुवि – पृथिव्याम्
पतगसत्तमः – पक्षिश्रेष्ठः
5. अधोलिखितानां पदानां/विलोमपदानि मञ्जूषायां दत्तेषु पदेषु चित्वा यथासमक्षं लिखत –
मन्दम् पुण्यकर्मणा हसन्ती अनार्य अनतिक्रम्य देवेन्द्रेण प्रशंसेत् दक्षिणेन युवा
पदानि विलोमशब्दाः
(क) विलपन्ती – ............
(ख) आर्य – ............
(ग) राक्षसेन्द्रेण – ............
(घ) पापकर्मणा – ............
(ङ) क्षिप्रम् – ............
(च) विगर्हयेत् – ............
(छ) वृद्धः – ............
(ज) वामेन – ............
(झ) अतिक्रम्य – ............
उत्तरम् :
पदानि विलोमशब्दाः
(क) विलपन्ती – हसन्ती
(ख) आर्य – अनार्य
(ग) राक्षसेन्द्रेण – देवेन्द्रेण
(घ) पापकर्मणा – पुण्यकर्मणा
(ङ) क्षिप्रम् – मन्दम्
(च) विगर्हयेत् – प्रशंसेत्
(छ) वृद्धः – युवा
(ज) वामेन – दक्षिणेन
(झ) अतिक्रम्य – अनतिक्रम्य
6. (अ) अधोलिखितानि विशेषणपदानि प्रयुज्य संस्कृतवाक्यानि रचयत
(क) शुभाम् ___________
(ख) खगाधिपः ___________
(ग) हतसारथिः ___________
(घ) वामेन ___________
(ङ) कवची ___________
उत्तरम् :
विशेषणम् वाक्यम्
(क) शुभाम् – सः शुभां कन्याम् अपश्यत्।
(ख) खगाधिपः – खगाधिपः जटायुः शौर्यं प्रकटितवान्।
(ग) हतसारथिः – हतसारथिः सेनापतिः भुवि अपतत्।
(घ) वामेन – बालकः वामेन हस्तेन कार्यं करोति।
(ङ) कवची – रावणः कवची आसीत्।
(आ) उदाहरणमनुसृत्य समस्तं पदं रचयत –
यथा – त्रयाणां लोकानां समाहारः – त्रिलोकी
(क) पञ्चानां वटानां समाहारः - ............
(ख) सप्तानां पदानां समाहारः - ............
(ग) अष्टानां भुजानां समाहारः - ............
(घ) चतुर्णा मुखानां समाहारः - ............
उत्तरम् :
(क) पञ्चानां वटानां समाहारः – पञ्चवटी।
(ख) सप्तानां पदानां समाहारः – सप्तपदी।
(ग) अष्टानां भुजानां समाहारः – अष्टभुजी।
(घ) चतुरर्णां मुखानां समाहारः – चतुर्मुखी।
Comentarios