top of page

NCERT Sanskrit Class 9 Chapter 9 - पर्यावरणम्


नवमः पाठः

पर्यावरणम्


CBSE Sanskrit Textbook शेमुषी Shemushi Solutions (2024-25) Syllabus

NCERT Solutions for Class 9 Sanskrit Chapter 9 -   पर्यावरणम्

Shemushi (शेमुषी) Part -1 प्रथमो भागः - नवमकक्ष्यायाः संस्कृतपाठ्यपुस्तकम्
Textbook Questions and answers

1.एकपदेन उत्तरं लिखत


(क) मानवः कुत्र सुरक्षितः तिष्ठति?

उत्तरम् : पर्यावरणकुक्षौ।


(ख) सुरक्षितं पर्यावरणं कुत्र उपलभ्यते स्म?

उत्तरम् : वने।


(ग) आर्षवचनं किमस्ति?।

उत्तरम् : धर्मो रक्षति रक्षितः।


(घ) पर्यावरणमपि कस्य अङ्गमिति ऋषयः प्रतिपादितवन्तः?

उत्तरम् : धर्मस्य


(ङ) लोकरक्षा कया सम्भवति?

उत्तरम् : प्रकृतिरक्षया।


(च) अजातशिशुः कुत्र सुरक्षितः तिष्ठति?

उत्तरम् : मातृगर्भे।


(छ) प्रकृतिः केषां संरक्षणाय यतते?।

उत्तरम् : समेषां प्राणिनाम्।


2. अधोलिखितानां प्रश्नानामुत्तराणि संस्कृतभाषया लिखत –


(क)  प्रकृतेः प्रमुखतत्त्वानि कानि सन्ति?

उत्तरम् : पृथिवी, जलं, तेजो, वायुः, आकाशश्च।


(ख)  स्वार्थान्धः मानवः किं करोति?

उत्तरम् : स्वार्थान्धः मानवः पर्यावरणं नाशयति।


(ग)  पर्यावरणे विकृते जाते किं भवति?

उत्तरम् : पर्यावरणे विकृते जाते विविधाः रोगाः जायन्ते।


(घ)  अस्माभिः पर्यावरणस्य रक्षा कथं करणीया?

उत्तरम् : अस्माभिः वृक्षारोपणैः स्थल-जलचराणां जीवानां रक्षणैः च पर्यावरणस्य रक्षा करणीया।


(ङ)   लोकरक्षा कथं संभवति?

उत्तरम् : लोकरक्षा प्रकृतिरक्षया संभवति।


(च)  परिष्कृतं पर्यावरणं अस्मभ्यं किं किं ददाति?

उत्तरम् : परिष्कृतं पर्यावरणं अस्मभ्यं जीवनसुखानि, सद्विचाराणि माङ्गलिकद्रव्याणि च ददाति।


3.स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत


(क) वनवृक्षाः निर्विवेकं छिद्यन्ते।

उत्तरम् : के निर्विवेकं छिद्यन्ते?


(ख) वृक्षकर्तनात् शुद्धवायुः न प्राप्यते।

उत्तरम् : कस्मात् शुद्धवायुः न प्राप्यते?


(ग) प्रकृतिः जीवनसुखं प्रददाति।

उत्तरम् : प्रकृतिः किं प्रददाति?


(घ) अजातशिशुः मातृगर्भे सुरक्षितः तिष्ठति।

उत्तरम् : अजातशिशुः कुत्र सुरक्षितः तिष्ठति?


(ङ) पर्यावरणरक्षणं धर्मस्य अङ्गम् अस्ति।

उत्तरम् : पर्यावरणरक्षणं कस्य अङ्गम् अस्ति?


4. उदाहरणमनुसृत्य पदरचनां कुरुत –

(क) यथा - जले चरन्ति इति जलचराः

स्थले चरन्ति इति - __________

निशायां चरन्ति इति - _________

व्योम्नि चरन्ति इति - _________

गिरौ चरन्ति इति - _________

भूमौ चरन्ति इति - _________

 उत्तराणि  -

स्थले चरन्ति इति – स्थलचराः 

निशायां चरन्ति इति – निशाचराः

व्योम्नि चरन्ति इति – व्योमचराः

गिरौ चरन्ति इति – गिरिचराः

भूमौ चरन्ति इति – भूमिचराः


(ख) यथा- न पेयम् इति – अपयेम्

न वृष्टि इति - _________

न सुखम् इति - ________

न भावः इति - _________

न पूर्णः इति - _________


उत्तरम् :

न वृष्टि इति – अवृष्टिः 

न सुखम् इति – असुखम्

न भावः इति – अभावः

न पूर्णः इति – अपूर्णः 


5. उदाहरणमनुसृत्य पदनिर्माणं कुरुत –


यथा – वि + कृ + क्तिन् = विकृतिः

(क) प्र + गम् + क्तिन् = ............

(ख) दृश् + क्तिन् = ............

(ग) गम् + क्तिन् = ............

(घ) मन् + क्तिन = ............

(ङ) शम् + क्तिन् = ............

(च) भी + क्तिन् = ............

(छ) जन् + क्तिन् = ............

(ज) भज् + क्तिन् = ............

(झ) नी + क्तिन् = ............

उत्तरम् :

(क) प्र + गम् + क्तिन् = प्रगतिः 

(ख) दृश् + क्तिन् = दृष्टिः 

(ग) गम् + क्तिन् = गतिः 

(घ) मन् + क्तिन् = मतिः

(ङ) शम् + क्तिन् = शान्तिः 

(च) भी + क्तिन् = भीतिः 

(छ) जन् + क्तिन् = जातिः 

(ज) भज्. + क्तिन् = भक्तिः 

(झ) नी + क्तिन् = नीतिः 


6.निर्देशानुसारं परिवर्तयत यथा-स्वार्थान्धो मानवः अद्य पर्यावरणं नाशयति।

यथा -  स्वार्थान्धो मानवः अद्य पर्यावरणं नाशयति। (बहुवचने)

स्वार्थान्धाः मानवाः अद्य पर्यावरणं नाशयन्ति।


(क) सन्तप्तस्य मानवस्य मङ्गलं कुतः? (बहुवचने)

उत्तरम् : सन्तप्तानां मानवानां मङ्गलं कुतः?


(ख) मानवाः पर्यावरणकुक्षौ सुरक्षिताः भवन्ति। (एकवचने)

उत्तरम् : मानवः पर्यावरणकुक्षौ सुरक्षितः भवति।


(ग)  वनवृक्षाः निर्विवेकं छिद्यन्ते। (एकवचने)

उत्तरम् : वनवृक्षः निर्विवेकं छिद्यते।


(घ)  गिरिनिर्झरा: निर्मलं जलं प्रयच्छन्ति। (द्विवचने)

उत्तरम् : गिरिनिर्झरौ निर्मलं जलं प्रयच्छतः।


(ङ)   सरित् निर्मलं जलं प्रयच्छति।(बहुवचने)

उत्तरम् : सरितः निर्मलं जलं प्रयच्छन्ति।


(अ)  पर्यावरणरक्षणाय भवन्तः किं करिष्यन्ति इति विषये पञ्च वाक्यानि लिखत।

यथा- अहं विषाक्तम् अवकरं नदीषु न पातयिष्यामि।

(क) .......................................

(ग) .......................................

(घ) ....................................... 

(ङ) .......................................

उत्तरम् :

(क) अहं यत्र-तत्र वृक्षारोपणं करिष्यामि।

(ख) अहं कदापि वृक्षान् न छेत्स्यामि।

(ग) नद्याः जले कूपे वा अवशिष्टं न क्षेप्स्यामि।

(घ) वयं जले प्रदूषणवस्तूनि न स्थापयामः ।

(ङ) कदापि प्रदूषणोत्पादकं वाहनं न चालयिष्यामि।


7.उदाहरणमनुसृत्य उपसर्गान् पृथक्कृत्वा लिखत

यथा – संरक्षणाय – सम्

प्रभवति - _________

उपलभ्यते - _________

निवसन्ति - _________

समुपहरन्ति - _________

वितरन्ति - _________

प्रयच्छन्ति - _________

उपगता - _________

प्रतिभाति - _________


उत्तरम्  

प्रभवति – प्र

उपलभ्यते – उप

निवसन्ति – नि

समुपहरन्ति – सम् + उप

वितरन्ति – वि

प्रयच्छन्ति – प्र

उपगता – उप

प्रतिभाति – प्रति


(अ)  उदाहरणमनुसृत्य अधोलिखितानां समस्तपदानां विग्रहं लिखत–

यथा – तेजोवायुः       तेजः वायुः च।

गिरिनिर्झराः           गिरयः निर्झराः च।

    i.     पत्रपुष्पे        ....................

   ii.     लतावृक्षौ       ....................

  iii.     पशुपक्षी       ....................

  iv.     कीटपतङ्गौ    ....................


उत्तरम् :

पत्रपुष्पे – पत्रम् पुष्पञ्च (पुष्पम् च)

लतावृक्षौ – लता वृक्षश्च (वृक्षः च)

पशुपक्षी – पशुः पक्षी च

कीटपतङ्गौ – कीट: पतङ्गः च

Comentários


bottom of page