NCERT Sanskrit Class 10 Chapter 1 - शुचिपर्यावरणम्
- samskritasabha
- Apr 12, 2024
- 6 min read
Updated: Apr 27, 2024
प्रथमः पाठः
शुचिपर्यावरणम्
CBSE Sanskrit Textbook शेमुषी Shemushi Solutions (2024-25) Syllabus
NCERT Solutions for Class 10 Sanskrit Chapter 1 - शुचिपर्यावरणम्
Shemushi (शेमुषी) Part -2 द्वितीयो भागः - दशमकक्ष्यायाः संस्कृतपाठ्यपुस्तकम्
Textbook Questions and answers
प्रथमः पाठः
शुचिपर्यावरणम्
अयं पाठ: आधुनिकसंस्कृतकवे: हरिदत्तशर्मण: “लसल्लतिका” इति रचनासङ्ग्रहात् सङ्कलितोऽस्ति। अत्र कवि: महानगराणां यन्त्राधिक्येन प्रवर्धितप्रदूषणोपरि चिन्तितमना: दृश्यते। सः कथयति यद् इदं लौहचक्रं शरीरस्य मनसश्च शोषकम् अस्ति। अस्मादेव वायुमण्डलं मलिनं भवति। कवि: महानगरीयजीवनातू सुदूरं नदी-निर्झर वृक्षसमूहं लताकुज्जं पक्षिकुलकलरवकूजितं वनप्रदेशं प्रति गमनाय अभिलषति।
English Translation –
This text is compiled from the collection of works “Lasallatika” by the modern Sanskrit poet Haridatta Sharma. Here the poet seems concerned about the pollution increased by the machinery of the great cities. He says that this iron wheel is drying up the body and mind. This is what makes the atmosphere dirty. The poet wishes to go to a forest region far from metropolitan life with rivers, streams, trees, creepers, and the chirping of birds.
हिन्दी में अर्थ -
यह पाठ आधुनिक संस्कृत कवि हरिदत्त शर्मा की कृतियों के संग्रह "लासल्लतिका" से संकलित है। यहाँ कवि बड़े-बड़े शहरों की मशीनरी द्वारा बढ़ाये गये प्रदूषण से चिंतित दिखता है। उनका कहना है कि यह लोहे का पहिया तन और मन को सुखा रहा है। यही तो वातावरण को गंदा बनाता है। कवि की इच्छा महानगरीय जीवन से दूर नदियों, झरनों, वृक्षों, लताओं और पक्षियों की चहचहाहट वाले वन क्षेत्र में जाने की है।
दुर्वहमत्र जीवितं जातं प्रकृतिरेव शरणम्।
शुचि-पर्यावरणम्॥
महानगरमध्ये चलदनिशं कालायसचक्रम्।
मनः शोषयत् तनूः पेषयद् भ्रमति सदा वक्रम्॥
दुर्दान्तैर्दशनैरमुना स्यान्नैव जनग्रसनम्। शुचि...॥1॥
English Translation –
It is hard to live here, Nature is the only refuge.
Clean environment.
In the great city, the iron wheel of darkness always moves. It dries up the mind, crushes the body, and rotates in a circular path. The humans should not be swallowed (destroyed) by the evil teeth.
हिन्दी में अर्थ -
यहाँ रहना कठिन है, प्रकृति ही एकमात्र आश्रय है।
पर्यावरण को स्वच्छ रखें ।
महान नगर में अँधेरे का लौह पहिया सदैव घूमता रहता है। यह मन को सुखा देता है, शरीर को कुचल देता है और वृत्ताकार पथ में घूमता रहता है। मनुष्यों को दुष्ट दाँतों द्वारा निगलना (नष्ट) नहीं करना चाहिए।
कज्जलमलिनं धूमं मुञ्चति शतशकटीयानम्।
वाष्पयानमाला संधावति वितरन्ती ध्वानम्॥
यानानां पङ्क्तयो ह्यनन्ताः कठिनं संसरणम्। शुचि...।॥2॥
English Translation –
Hundreds of vehicles are emitting black smoke.
A string of steam engines (train) is running around spreading noise
The rows of vehicles are endless and it is difficult to move through.
हिन्दी में अर्थ -
सैकड़ों गाड़ियां काला धुआं छोड़ रही हैं ।
रेलगाडी की एक शृंखला शोर फैलाती हुई दौड़ रही है
वाहनों की कतारें अंतहीन हैं और वहां से चलना मुश्किल है।
वायुमण्डलं भृशं दूषितं न हि निर्मलं जलम्।
कुत्सितवस्तुमिश्रितं भक्ष्यं समलं धरातलम् ॥
करणीयं बहिरन्तर्जगति तु बहु शुद्धीकरणम्। शुचि...।॥३॥
English Translation –
The atmosphere is heavily polluted and the water is not pure.
The food mixed with filthy ingredients and the surface of the earth full of dirt.
There is a lot of cleansing to be done both outside and inside world.
हिन्दी में अर्थ –
वातावरण अत्यधिक प्रदूषित है और पानी भी शुद्ध नहीं है।
भोजन में गंदी सामग्री मिली हुई है और पृथ्वी की सतह गंदगी से भरी हुई है।
बाहरी और भीतरी दुनिया दोनों की बहुत सफाई करनी है।
कञ्चित् कालं नय मामस्मान्नगराद् बहुदूरम् ।
प्रपश्यामि ग्रामान्ते निर्झर-नदी-पयःपूरम् ।।
एकान्ते कान्तारे क्षणमपि मे स्यात् सञ्चरणम्। शुचि...॥4॥
English Translation –
Take me away from this city for a while.
I see at the end of the village a stream and a river flowing with milk.
I would wander even for a moment in a lonely wilderness
हिन्दी में अर्थ –
कुछ देर के लिए मुझे इस शहर से दूर ले चलो.
मुझे गाँव के अंत में दूध से भरी एक धारा और एक नदी बहती हुई दिखाई देती है।
एक क्षण के लिए भी मैं निर्जन वन में भटकूंगा
हरिततरूणां ललितलतानां माला रमणीया।
कुसुमावलिः समीरचालिता स्यान्मे वरणीया ॥
नवमालिका रसालं मिलिता रुचिरं संगमनम्। शुचि...।॥5॥
English Translation –
The garland of pretty creepers and green trees is beautiful.
I would prefer a flower garland moved by the breeze.
The new flower garlands and juicy mangoes have a pleasant confluence.
हिन्दी में अर्थ -
सुन्दर लताओं और हरे-भरे वृक्षों की माला शोभायमान है।
मैं हवा से हिलती हुई फूलों की माला पसंद करूंगा।
नये फूलों की माला और रसीले आमों का सुखद संगम होता है।
अयि चल बन्धो ! खगकुलकलरवगुञ्जितवनदेशम्।
पुर-कलरवसम्भ्रमितजनेभ्यो धृतसुखसन्देशम् ॥
चाकचिक्यजालं नो कुर्याज्जीवितरसहरणम्। शुचि...॥6॥
English Translation –
Oh, let us go, guys! A forest country echoing with the chirping of birds.
The message of happiness was brought to the people who were agitated by the noise of the city.
Let us not be deprived of the taste of life by the web of dazzling wheels.
हिन्दी में अर्थ –
ओह, चलो चलें दोस्तों! पक्षियों की चहचहाहट से गूंजता वन प्रदेश।
शहर के शोर से व्याकुल लोगों के लिए खुशी का पैगाम लाया गया।
चकाचौंध पहियों के जाल में फंसकर हम जीवन के स्वाद से वंचित न रह जाएं।
प्रस्तरतले लतातरुगुल्मा नो भवन्तु पिष्टाः।
पाषाणी सभ्यता निसर्गे स्यान्न समाविष्टा ।।
मानवाय जीवनं कामये नो जीवन्मरणम्। शुचि...।॥7॥
English Translation –
Do not let creepers, trees, and shrubs get grounded under the stone.
Stone civilization should not be incorporated into nature.
I wish life for human beings, not a living death.
हिन्दी में अर्थ –
लताओं, पेड़ों और झाड़ियों को पत्थर के नीचे दबने न दें।
प्रकृति में पाषाण सभ्यता का समावेश नहीं होना चाहिए।
मैं मनुष्य के लिए जीवन की कामना करता हूं, जीवित मृत्यु की नहीं।
NCERT Exercise Solutions
CBSE Sanskrit Textbook शेमुषी Shemushi Solutions (2024-25)
अभ्यासः
1.एकपदेन उत्तरं लिखत
(क) अत्र जीवितं कीदृशं जातम्?
उत्तरम् - दुर्वहम्।
(ख) अनिशं महानगरमध्ये किं प्रचलति?
उत्तरम् - कालायसचक्रम्।
(ग) कुत्सितवस्तुमिश्रितं किमस्ति?
उत्तरम् - भक्ष्यम्।
(घ) अहं कस्मै जीवनं कामये?
उत्तरम् - मानवाय।
(ङ) केषां माला रमणीया?
उत्तरम् - हरिततरूणां ललितलतानाम्।
2.अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत
(क) कविः किमर्थं प्रकृतेः शरणम् इच्छति?।
उत्तरम् - अत्र महानगरे जीवितं दुर्वहं जातम्, अतः कविः प्रकृतेः शरणम् इच्छति।
(ख) कस्मात् कारणात् महानगरेषु संसरणं कठिनं वर्तते? (किस कारण से महानगरों में चलना कठिन है?)
उत्तरम् - महानगरेषु धूमं मुञ्चन्ती कोलाहलं च वितरन्ती अनन्ताः यानानां पङ्क्तयः सन्ति, अस्मात् कारणात् तत्र संसरणं कठिनं वर्तते।
(ग) अस्माकं पर्यावरणे किं किं दूषितम् अस्ति?
उत्तरम् - अस्माकं पर्यावरणे वायुमण्डलम्, जलम्, भक्ष्यम् सम्पूर्णञ्च धरातलं दूषितम् अस्ति।
(घ) कविः कुत्र सञ्चरणं कर्तुम् इच्छति?
उत्तरम् - कविः ग्रामान्ते एकान्ते कान्तारे सञ्चरणं कर्तुम् इच्छति।
(ङ) स्वस्थजीवनाय कीदृशे वातावरणे भ्रमणीयम्?
उत्तरम् - स्वस्थजीवनाय शुद्धवातावरणे भ्रमणीयम्।
(च) अन्तिमे पद्यांशे कवेः का कामना अस्ति?
उत्तरम् - अन्तिमे पद्यांशे कविः मानवाय जीवनस्य कामनां करोति।
3.सन्धिं/सन्धिविच्छेदं कुरुत
(क) प्रकृति + .......... = प्रकृतिरेव
(ख) स्यात् + .......... + .......... = स्यान्नैव
(ग) .......... + अनन्ताः = ह्यनन्ताः
(घ) बहिः + अन्तः + जगति। = ..............
(ङ). .......... + नगरात् = अस्मान्नगरात्
(च) सम् + चरणम् = ..............
(छ) धूमम् + मुञ्चति = ............
उत्तरम्-
(क) प्रकृतिः + एव = प्रकृतिरेव
(ख) स्यात् + न + एव = स्यान्नैव
(ग) हि + अनन्ताः = ह्यनन्ताः
(घ) बहिः + अन्तः + जगति = बहिरन्तर्जगति
(ङ) अस्मात् + नगरात् = अस्मान्नगरात्
(च) सम् + चरणम् = सञ्चरणम्
(छ) धूमम् + मुञ्चति = धूमं मुञ्चति
4. अधोलिखितानाम अव्ययानां सहायतया रिक्तस्थानानि पूरयत –
( भृशम्, यत्र, तत्र, अत्र, अपि, एव, सदा, बहिः )
(क) इदानीं वायुमण्डलं .................... प्रदूषितमस्ति।
(ख) .................... जीवनं दुर्वहम् अस्ति।
(ग) प्राकृतिक-वातावरणे क्षणं सञ्चरणम् .................... लाभदायकं भवति।
(घ) पर्यावरणस्य संरक्षणम् ................... प्रकृतेः आराधना।
(ङ) .................... समयस्य सदुपयोगः करणीयः।
(च) भकम्पित-समये .................... गमनमेव उचित भवांत।
(छ) .................... हरीतिमा .................... शुचि पर्यावरणम्।
उत्तरम्-
(क) इदानीं वायुमण्डलं भृशम् प्रदूषितमस्ति।
(ख) अत्र जीवनं दुर्वहम् अस्ति।
(ग) प्राकृतिक-वातावरणे क्षणं सञ्चरणम् अपि लाभदायकं भवति।
(घ) पर्यावरणस्य संरक्षणम् एव प्रकृते- आराधना।
(ङ) सदा समयस्य सदुपयोगः करणीयः।
(च) भूकम्पित-समये बहिः गमनमेव उचितं भवति।
(छ) यत्र हरीतिमा तत्र शुचि पर्यावरणम्।
5. (अ) अधोलिखितानां पदानां पर्यायपदं लिखत –
(क) सलिलम् _________
(ख) आम्रम् _________
(ग) वनम् _________
(घ) शरीरम् _________
(ङ) कुटिलम् _________
(च)- पाषाणः _________
उत्तराणि –
(क) सलिलम् – जलम्
(ख) आम्रम् – रसालम्
(ग) वनम् – काननम्
(घ) शरीरम् – तनुः
(ङ) कुटिलम् – वक्रम्
(च) पाषाणः – प्रस्तरमः
(आ) अधोलिखितपदानां विलोमपदानि पाठात् चित्वा लिखत –
(क) सुकरम् _________
(ख) दूषितम् _________
(ग) गृहणन्ती _________
(घ) निर्मलम् _________
(ङ) दानवाय _________
(च) सान्ताः _________
उत्तराणि - _________
(क) सुकरम् – दुर्वहम्
(ख) दूषितम् – भूषितम्
(ग) गृहणन्ती – वितरन्ती
(घ) निर्मलम् – समलम्
(ङ) दानवाय – मानवाय
(च) सान्ताः – अनन्ताः
6.उदाहरणमनुसृत्य पाठात् चित्वा च समस्तपदानि समासनाम च लिखत –
विग्रहपदानि समस्तपदम् समासनाम
(क) मलेन सहितम् समलम् अव्ययीभावः
(ख) हरिताः च ये तरवः (तेषां) ............ ............
(ग) ललिताः च याः लताः (तासाम्) ............ ............
(घ) नवा मालिका ............ ............
(ङ) धृतः सुखसन्देशः येन (तम्) ............ ............
(च) कज्जलम् इव मलिनम् ............ ............
(छ) दुर्दान्तैः दशनैः ............ ............
उत्तराणि -
विग्रहपदानि समस्तपदम् समासनाम
(क) मलेन सहितम् समलम् अव्ययीभावः
(ख) हरिताः च ये तरवः (तेषां) हरिततरूणाम् कर्मधारयः
(ग) ललिताः च याः लताः (तासाम्) ललितलतानाम् कर्मधारयः
(घ) नवा मालिका नवमालिका कर्मधारयः
(ङ) धृतः सुखसन्देशः येन (तम्) धृतसुखसन्देशम् बहुव्रीहिः
(च) कज्जलम् इव मलिनम् कज्जलमलिनम् कर्मधारयः
(छ) दुर्दान्तैः दशनैः दुर्दान्तदशनैः कर्मधारयः
7. रेखाङ्कित-पदमाधृत्य प्रश्ननिर्माणं कुरुत
(क) शकटीयानम् कज्जलमलिनं धूमं मुञ्चति।
उत्तरम् - ) शकटीयानम् कीदृशं धूमं मुञ्चति?।
(ख) उद्याने पक्षिणां कलरवं चेतः प्रसादयति।
उत्तरम् - उद्याने केषां कलरवं चेतः प्रसादयति?
(ग) पाषाणीसभ्यतायां लतातरुगुल्माः प्रस्तरतले पिष्टाः सन्ति।
उत्तरम् - पाषाणीसभ्यतायां के प्रस्तरतले पिष्टाः सन्ति?
(घ) महानगरेषु वाहनानाम् अनन्ताः पङ्क्तयः धावन्ति।
उत्तरम् - कुत्र वाहनानाम् अनन्ताः पङ्क्तयः धावन्ति?
(ङ) प्रकृत्याः सन्निधौ वास्तविकं सुखं विद्यते।
उत्तरम्- कस्याः सन्निधौ वास्तविकं सुखं विद्यते?
English and Hindi ( हिन्दी ) Translation of Chapter 1 - शुचिपर्यावरणम्
Comments