NCERT Sanskrit Class 10 Chapter 8 - सूक्तयः
- samskritasabha
- Apr 16, 2024
- 2 min read
अष्टमः पाठः
सूक्तयः
CBSE Sanskrit Textbook शेमुषी Shemushi Solutions (2024-25) Syllabus
NCERT Solutions for Class 10 Sanskrit Chapter 8 - सूक्तयः
Shemushi (शेमुषी) Part -2 द्वितीयो भागः - दशमकक्ष्यायाः संस्कृतपाठ्यपुस्तकम्
Textbook Questions and answers
1.एकपदेन उत्तरं लिखत
(क) पिता पुत्राय बाल्ये किं यच्छति?
उत्तरम् - विद्याधनम्।
(ख) विमूढधीः कीदृशीं वाचं परित्यजति?
उत्तरम् - धर्मप्रदाम्।
(ग) अस्मिन् लोके के एव चक्षुष्मन्तः प्रकीर्तिताः?
उत्तरम् - विद्वांसः।
(घ) प्राणेभ्योऽपि कः रक्षणीयः?
उत्तरम् - सदाचारः।
(ङ) आत्मनः श्रेयः इच्छन् नरः कीदृशं कर्म न कुर्यात् ?
उत्तरम् - अहितम्।
(च) वाचि किं भवेत् ?
उत्तरम् - अवक्रता।
2.स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत –
यथा – विमढधीः पक्वं फलं परित्यज्य अपक्वं फलं भङक्ते।
कः पक्वं फलं परित्यज्य अपक्वं फलं भुङ्क्ते।
(क) संसारे विद्वांसः ज्ञानचक्षुभिः नेत्रवन्तः कथ्यन्ते।
उत्तरम् - संसारे के ज्ञानचक्षुभिः नेत्रवन्तः कथ्यन्ते?
(ख) जनकेन सुताय शैशवे विद्याधनं दीयते।
उत्तरम् - जनकेन कस्मै शैशवे विद्याधनं दीयते?
(ग) तत्त्वार्थस्य निर्णयः विवेकेन कर्तुं शक्यः।
उत्तरम् - कस्य निर्णयः विवेकेन कर्तुं शक्यः?
(घ) धैर्यवान् लोके परिभवं न प्राप्नोति।
उत्तरम् - धैर्यवान् कुत्र परिभवं न प्राप्नोति?
(ङ) आत्मकल्याणम् इच्छन् नरः परेषाम् अनिष्टं न कुर्यात्।
उत्तरम् - आत्मकल्याणम् इच्छन् नरः केषाम् अनिष्टं न कुर्यात् ?
3.पाठात् चित्वा अधोलिखितानां श्लोकानाम् अन्वयम् उचितपदक्रमेण पूरयत
(क) पिता .................... बाल्ये महत् विद्याधनं यच्छति, अस्य पिता किं तपः तेपे इत्युक्तिः ......................।
उत्तरम् - पिता पुत्राय बाल्ये महत् विद्याधनं यच्छति, अस्य पिता किं तपः तेपे इत्युक्तिः तत्कृतज्ञता।
(ख) येन ..................... यत् प्रोक्तं तस्य तत्त्वार्थनिर्णयः येन कर्तं ............ भवेत्, सः ..................... इति ...........I
उत्तरम् - येन केनापि यत् प्रोक्तं तस्य तत्त्वार्थनिर्णयः येन कर्तुं शक्यः भवेत्, सः विवेकः इति ईरितः।
(ग) य आत्मनः श्रेयः ..................... सुखानि च इच्छति, परेभ्यः अहितं ..................... कदापि च न ......................।
उत्तरम् - य आत्मनः श्रेयः प्रभूतानि सुखानि च इच्छति, परेभ्यः अहितं कर्म कदापि च न कुर्यात्।
4.अधालिखितम् उदाहरणद्वयं पठित्वा अन्येषां प्रश्नानाम् उत्तराणि लिखत
प्रश्नाः उत्तराणि
क. श्लोकसङ्ख्या - 3
यथा – सत्या मधुरा च वाणी का ? धर्मप्रदा
(क) धर्मप्रदां वाचं कः त्यजति ? …………
(ख) मूढः पुरुषः कां वाणीं वदति ? …………
(ग) मन्दमतिः कीदृशं फलं खादति ? …………
उत्तराणि –
(क) धर्मप्रदां वाचं कः त्यजति ? विमूढधीः
(ख) मूढः पुरुषः कां वाणीं वदति ? परुषाम्
(ग) मन्दमतिः कीदृशं फलं खादति ? अपक्वम्
ख. श्लोकसङ्ख्या - 7
यथा – बुद्धिमान् नरः किम् इच्छति ? आत्मनः श्रेयः
(क) कियन्ति सुखानि इच्छति ? …………
(ख) सः कदापि किं न कुर्यात् ? …………
(ग) सः केभ्यः अहितं न कुर्यात् ? …………
उत्तराणि –
(क) कियन्ति सुखानि इच्छति ? प्रभूतानि
(ख) सः कदापि किं न कुर्यात् ? अहितं कर्म
(ग) सः केभ्यः अहितं न कुर्यात् ? परेभ्यः
5.मञ्जूषायाः तद्भावात्मकसूक्ती- विचित्य अधोलिखितकथनानां समक्षं लिखत –
(क) विद्याधनं महत्
उत्तरम् –
विद्याधनं सर्वधनप्रधानम्।
विद्याधनं श्रेष्ठं तन्मूलमितरद्धनम्।
(ख) आचारः प्रथमो धर्मः
उत्तरम् –
आचारेण तु संयुक्तः सम्पूर्णफलभाग्भवेत्।
आचारप्रभवोधर्मः सन्तश्चाचारलक्षणाः।
(ग) चित्ते वाचि च अवक्रता एव समत्वम्
उत्तरम् –
मनसि एकं वचसि एकं कर्मणि एकं महात्मनाम्।
सं वो मनांसि, जानताम्।
6.(अ) अधोलिखितानां शब्दानां पुरतः उचितं विलोमशब्द कोष्ठकात् चित्वा लिखत –
शब्दाः विलोमशब्दः
(क) पक्वः .............. (परिपक्वः, अपक्वः, क्वथितः)
(ख) विमूढधीः .............. (सुधीः, निधिः, मन्दधीः)
(ग) कातरः .............. (अकरुणः, अधीरः, अकातरः)
(घ) कृतज्ञता .............. (कृपणता, कृतघ्नता, कातरता)
(ङ) आलस्यम् .............. (उद्विग्नता, विलसिता, उद्योगः)
(च) परुषा .............. (पौरुषी, कोमला, कठोरा)
उत्तराणि -
(क) पक्वः अपक्वः
(ख) विमूढधीः सुधीः
(ग) कातरः अकातरः
(घ) कृतज्ञता कृतघ्नता
(ङ) आलस्यम् उद्योगः
(च) परुषा कोमला।
(आ) अधोलिखितानां शब्दानां त्रयः समानार्थकाः शब्दाः मञ्जूषायाः चित्वा लिख्यन्ताम् –
(क) प्रभूतम् | ............ | ............ | ............ |
(ख) श्रेयः | ............ | ............ | ............ |
(ग) चित्तम् | ............ | ............ | ............ |
(घ) सभा | ............ | ............ | ............ |
(ङ) चक्षुष् | ............ | ............ | ............ |
(च) मुखम् | ............ | ............ | ............ |
शब्द-मञ्जूषा
लोचनम् शुभम् मनः आननम् संसद् वदनम् | नेत्रम् परिषद् सभा चेतः बहु शिवम् | भूरि मानसम् नयनम् विपुलम् वक्त्रम् कल्याणम् |
उत्तराणि
(क) प्रभूतम् | भूरि | विपुलम् | बहु |
(ख) श्रेयः | शुभम् | शिवम् | कल्याणम् |
(ग) चित्तम् | मानसम् | मनः | चेतः |
(घ) सभा | परिषद् | सभा | संसद् |
(ङ) चक्षुष् | लोचनम् | नेत्रम् | नयनम् |
(च) मुखम् | आननम् | वदनम् | वक्त्रम् |
7.अधस्तात् समासविग्रहाः दीयन्ते तेषां समस्तपदानि पाठाधारेण दीयन्ताम् –
विग्रहः | समस्तपदम् | समासनाम |
(क) तत्वार्थस्य निर्णयः (ख) वाचि पटुः (ग) धर्मं प्रददाति इति (ताम्) (घ) न कातरः (ङ) न हितम् (च) महान् आत्मा येषाम् (छ) विमूढा धीः यस्य सः | ………….. ………….. ………….. ………….. ………….. ………….. ………….. | षष्ठी तत्पुरुषः सप्तमी तत्पुरुषः उपपदतत्पुरुषः नञ् तत्पुरुषः नञ् तत्पुरुषः बहुव्रीहिः बहुव्रीहिः |
उत्तराणि
विग्रहः | समस्तपदम् | समासनाम |
(क) तत्वार्थस्य निर्णयः (ख) वाचि पटुः (ग) धर्मं प्रददाति इति (ताम्) (घ) न कातरः (ङ) न हितम् (च) महान् आत्मा येषाम् (छ) विमूढा धीः यस्य सः | तत्त्वार्थनिर्णयः वाक्पटुः धर्मप्रदाम् अकातरः अहितम् महात्मनाम् विमूढधीः | षष्ठी तत्पुरुषः सप्तमी तत्पुरुषः उपपदतत्पुरुषः नञ् तत्पुरुषः नञ् तत्पुरुषः बहुव्रीहिः बहुव्रीहिः |
コメント