top of page

NCERT Sanskrit Class 10 Chapter 4 - जननी तुल्यवत्सला


चतुर्थः पाठः

जननी तुल्यवत्सला  


CBSE Sanskrit Textbook शेमुषी Shemushi Solutions (2024-25) Syllabus

NCERT Solutions for Class 10 Sanskrit Chapter 4 -  जननी तुल्यवत्सला    

Shemushi (शेमुषी) Part -2 द्वितीयो भागः - दशमकक्ष्यायाः संस्कृतपाठ्यपुस्तकम्
Textbook Questions and answers

1.एकपदेन उत्तरं लिखत

 

(क) वृषभः दीनः इति.जाननपि कः तं नुद्यमानः आसीत् ?

उत्तरम् – कृषकः।

 

(ख) वृषभः कुत्र पपात?

उत्तरम् - क्षेत्रे।

 

(ग) दुर्बले सुते कस्याः अधिका कृपा भवति?

उत्तरम् – मातुः।

 

(घ) कयोः एकः शरीरेण दुर्बलः आसीत् ?

उत्तरम् - बलीवर्दयोः।

 

(ङ) चण्डवातेन मेघरवैश्च सह कः समजायत?

उत्तरम् - प्रवर्षः।

 

2.अधोलिखितानां प्रश्नानम् उत्तराणि संस्कृतभाषया लिखत –

 

(क) कृषकः किं करोति स्म?

उत्तरम् - कृषक- बलीवर्दाभ्यां क्षेत्रकर्षणं करोति स्म।

 

(ख) माता सुरभिः किमर्थम् अश्रूणि मुञ्चति स्म?

उत्तरम् - भूमौ पतिते स्वपुत्रं दृष्ट्वा माता सुरभिः अश्रूणि मुञ्चति स्म।

 

(ग) सुरभिः इन्द्रस्य प्रश्नस्य किमुत्तरं ददाति ?

उत्तरम् - सुरभिः कथयति यत् “पुत्रस्य दैन्यं दृष्ट्वा अहं रोदिमि।“

 

(घ) मातुः अधिका कृपा कस्मिन् भवति?

उत्तरम् - दुर्बले सुते मातुः अधिका कृपा भवति।

 

(ङ) इन्द्रः दुर्बलवृषभस्य कष्टानि अपाकर्तुं किं कृतवान् ?

उत्तरम् - इन्द्रः दुर्बलवृषभस्य कष्टानि अपाकर्तुं वृष्टिं कृतवान्।

 

(च) जननी कीदृशी भवति?

उत्तरम् - जननी सर्वेष्वपत्येषु तुल्यवत्सला भवति।

 

(छ) पाठेऽस्मिन् कयोः संवादः विद्यते?

उत्तरम् - अस्मिन् पाठे गोमातुः सुरभेः इन्द्रस्य च संवादः विद्यते।

 

3.’क’ स्तम्भे दत्तानां पदानां मेलनं ‘ख’ स्तम्भे दत्तैः समानार्थकपदैः कुरुत –

‘क’ स्तम्भः

‘ख’ स्तम्भः

(क)   कृच्छ्रेण

(i)     वृषभः

(ख)  चक्षुर्भ्याम्

(ii)    वासवः

(ग)   जवेन

(iii)  नेत्राभ्याम्

(घ)   इन्द्रः

(iv)  अचिरम्

(ङ)    पुत्राः

(v)    द्रुतगत्या

(च)   शीघ्रम्

(vi)  काठिन्येन

(छ)   बलीवर्दः

(vii) सुताः

 

उत्तराणि

      

‘क’ स्तम्भः

‘ख’ स्तम्भः

(क)   कृच्छ्रेण

(vi) काठिन्येन

(ख)  चक्षुर्भ्याम्

(iii) नेत्राभ्याम्

(ग)   जवेन

(v) द्रुतगत्या

(घ)   इन्द्रः

(ii) वासवः

(ङ)    पुत्राः

(vii) सुताः

(च)   शीघ्रम्

(iv) अचिरम्

(छ)   बलीवर्दः

(i) वृषभः

 

4. स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत –

(क) सः कृच्छ्रेण भारम् उद्वहति।

उत्तरम् - सः केन भारम् उद्वहति?

 

(ख) सुराधिपः ताम् अपृच्छत्।

उत्तरम् - कः ताम् अपृच्छत् ?

 

(ग) अयम् अन्येभ्यो दुर्बलः।

उत्तरम् - अयम् केभ्यो दुर्बलः?

 

(घ) धेनूनाम् माता सुरभिः आसीत्?

उत्तरम् - कासां माता सुरभिः आसीत् ?

 

(ङ) सहस्राधिकेषु पुत्रेषु सत्स्वपि सा दुःखी आसीत्।

उत्तरम् - केषु पुत्रेषु सत्स्वपि सा दुःखी आसीत् ?

 

5.रेखाङ्कितपदे यथास्थानं सन्धिं विच्छेदं वा कुरुत –

(क) कृषकः क्षेत्रकर्षणं कुर्वन् + आसीत्।

उत्तरम् - कुर्वन्नासीत्।

 

(ख) तयोरेकः वृषभः दुर्बलः आसीत्।

उत्तरम् - तयोः + एकः

 

(ग) तथापि वृषः न + उत्थितः।

उत्तरम् - नोत्थितः।

 

(घ) सत्स्वपि बहुषु पुत्रेषु अस्मिन् वात्सल्यं कथम्?

उत्तरम् - सत्सु + अपि।

 

(ङ) तथा + अपि + अहम् + एतस्मिन् स्नेहम् अनुभवामि।

उत्तरम् - तथाप्यहमेतस्मिन्।

 

(च) मे बहूनि + अपत्यानि सन्ति।

उत्तरम् - बहून्यपत्यानि।

 

(छ) सर्वत्र जलोपप्लवः संजातः।

उत्तरम् - जल + उपप्लवः।

 

6. अधोलिखितेषु वाक्येषु रेखाङ्कितसर्वनामपदं कस्मै प्रयुक्तम् –

(क) सा च अवदत् भो बासव! अहम् भृशं दुःखिता अस्मि।

(ख) पुत्रस्य दैन्यं दृष्ट्वा अहम् रोदिमि।

(ग) सः दीनः इति जानन् अपि कृषक- तं पीडयति।

(घ) मम बहूनि अपत्यानि सन्ति।

(ङ) सः च ताम् एवम् असान्त्वयत्।

(च) “सहस्रेषु पुत्रेषु सत्स्वपि तव अस्मिन् प्रीतिः अस्ति।

उत्तराणि - 

(क) सुरभ्यै।

(ख) सुरभ्यै।

(ग) वृषभाय।

(घ) सुरभ्यै।

(ङ) इन्द्राय।

(च) सुरभ्यै।


7. ‘क’ स्तम्भे विशेषणपदं लिखितम्, ‘ख स्तम्भे पुनः विशेष्यपदम्। तयोः मेलनं कुरुत -


 

‘क’ स्तम्भः

‘ख’ स्तम्भः

(क)   कश्चित्

(i)     वृषभम्

(ख)  दुर्बलम्

(ii)    कृपा

(ग)   क्रुद्धः

(iii)  कृषीवलः

(घ)   सहस्राधिकेषु

(iv)  आखण्डलः

(ङ)    अभ्यधिका

(v)    जननी

(च)   विस्मितः

(vi)  पुत्रेषु

(छ)   तुल्यवत्सला

(vii) कृषकः

 

‘क’ स्तम्भः

‘ख’ स्तम्भः

(क)   कश्चित्

(vii) कृषकः

(ख)  दुर्बलम्

(i) वृषभम्

(ग)   क्रुद्धः

(iii) कृषीवलः

(घ)   सहस्राधिकेषु

(vi) पुत्रेषु

(ङ)    अभ्यधिका

(ii) कृपा

(च)   विस्मितः

(iv) आखण्डलः

(छ)   तुल्यवत्सला

(v) जननी


コメント


bottom of page