top of page

NCERT Sanskrit Class 10 Chapter 6 - सौहार्दं प्रकृतेः शोभा


षष्ठः पाठः

सौहार्दं प्रकृतेः शोभा    


CBSE Sanskrit Textbook शेमुषी Shemushi Solutions (2024-25) Syllabus

NCERT Solutions for Class 10 Sanskrit Chapter 6 -   सौहार्दं प्रकृतेः शोभा  

Shemushi (शेमुषी) Part -2 द्वितीयो भागः - दशमकक्ष्यायाः संस्कृतपाठ्यपुस्तकम्
Textbook Questions and answers

1.एकपदेन उत्तरं लिखत


(क) वनराजः कैः दुरवस्थां प्राप्तः?

उत्तरम् - तुच्छजीवैः वानरैः।


(ख) कः वातावरणं कर्कशध्वनिना आकुलीकरोति?

उत्तरम् - काकः। 


(ग) काकचेष्टः विद्यार्थी कीदृशः छात्रः मन्यते ?

उत्तरम् - आदर्शच्छात्रः। 


(घ) कः आत्मानं बलशाली, विशालकायः, पराक्रमी च कथयति।

उत्तरम् - गजः। 


(ङ) बकः कीदृशान् मीनान् क्रूरतया भक्षयति?

उत्तरम् - वराकान् मीनान्।


2.अधोलिखितप्रश्नानामुत्तराणि पूर्णवाक्येन लिखत


(क) निःसंशयं कः कृतान्तः मन्यते ?

उत्तरम् - यः पार्थिवरूपेण सदा परैः पीड्यमानान् वित्रस्तान् जन्तून् न रक्षति, सः नि-संशयं कृतान्तः मन्यते।


(ख) बकः वन्यजन्तूनां रक्षोपायान् कथं चिन्तयितुं कथयति?

उत्तरम् - बकः शीतले जले बहुकालपर्यन्तम् अविचलः ध्यानमग्नः स्थितप्रज्ञ इव स्थित्वा सर्वेषां वन्यजन्तूनां रक्षोपायान् चिन्तयितुं कथयति।


(ग) अन्ते प्रकृतिमाता प्रविश्य सर्वप्रथमं किं वदति ?

उत्तरम् - अन्तें प्रकृतिमाता प्रविश्य सर्वप्रथमं कथयति यत् “भोः भोः प्राणिनः! यूयं सर्वे एव मे सन्ततिः। कथं मिथः कलहं कुर्वन्ति? वस्तुतः सर्वे वन्यजीविनः अन्योन्याश्रिताः सन्ति।“


(घ) यदि राजा सम्यक् न भवति तदा प्रजा कथं विप्लवेत् ?

उत्तरम् - यदि राजा सम्यक् न भवति तदा प्रजा अकर्णधारा नौरिव जलधौ विप्लवेत्।


(ङ) मयूरः कथं नृत्यमुद्रायां स्थितः भवति?

उत्तरम् - मयूरः पिच्छानुद्घाट्य नृत्यमुद्रायां स्थितः भवति।


(च) अन्ते सर्वे मिलित्वा कस्य राज्याभिषेकाय तत्परा- भवति?

उत्तरम् - अन्ते सर्वे मिलित्वा उलूकस्य राज्याभिषेकाय तत्पराः भवन्ति।


(छ) अस्मिन् नाटके कति पात्राणि सन्ति?

उत्तरम् - अस्मिन् नाटके विविध पशुपक्षिणः दश पात्राणि सन्ति।


3.रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत

(क) सिंहः वानराभ्यां स्वरक्षायाम् असमर्थः एवासीत्।

उत्तरम् - सिंहः वानराभ्यां कस्याम् असमर्थः एवासीत् ?

 

(ख) गजः वन्यपशून् तुदन्तं शुण्डेन पोथयित्वा मारयति।

उत्तरम् - गजः वन्यपशन तदन्तं केन पोथयित्वा मारयति?

 

(ग) वानरः आत्मानं वनराजपदाय योग्यः मन्यते।

उत्तरम् - वानरः आत्मानं कस्मै योग्यः मन्यते?

 

(घ) मयूरस्य नृत्यं प्रकृतेः आराधना।

उत्तरम् - मयूरस्य नृत्यं कस्याः आराधना?

 

(ङ) सर्वे प्रकृतिमातरं प्रणमन्ति।

उत्तरम् - सर्वे काम् प्रणमन्ति?


4.शुद्धकथनानां समक्षम् आम् अशुद्धकथनानां च समक्षं न इति लिखत 


(क) सिंहः आत्मानं तुदन्तं वानरं मारयति।

उत्तरम् - न,


(ख) का-का इति बकस्य ध्वनिः भवति।

उत्तरम् - न,


(ग) काकपिकयोः वर्णः कृष्णः भवति।

उत्तरम् - आम्,


(घ) गजः लघुकायः निर्बलः च भवति।

उत्तरम् - न,


(ङ) मयूरः बकस्य कारणात् पक्षिकुलम् अवमानितं मन्यते।।

उत्तरम् - आम्,


(च) अन्योन्यसहयोगेन प्राणिनाम् लाभः जायते।

उत्तरम् - आम्,


5.मञ्जूषातः समुचितं पदं चित्वा रिक्तस्थानानि पूरयत – 

[स्थितप्रज्ञः, यथासमयम्, मेध्यामध्यभक्षकः, अहिभुक्, आत्मश्लाघाहीनः, पिकः]

(क) काकः ....................... भवति।

(ख) .................... परभृत् अपि कथ्यते।

(ग) बकः अविचलः ....................... इव तिष्ठति।

(घ) मयूरः ....................... इति नाम्नाऽपि ज्ञायते।

(ङ) उलूकः ....................... पदनिर्लिप्तः चासीत्।

(च) सर्वेषामेव महत्त्वं विद्यते .......................।

उत्तराणि  

(क) काकः मेध्यामेध्यभक्षकः भवति।

(ख) पिकः परभृत् अपि कथ्यते।

(ग) बकः अविचलः स्थितप्रज्ञः इव तिष्ठति।

(घ) मयूरः अहिभुक् इति नाम्नाऽपि ज्ञायते।

(ङ) उलूकः आत्मश्लाघाहीनः पदनिर्लिप्तः चासीत्।

(च) सर्वेषामेव महत्त्वं विद्यते यथासमयम् 


6.वाच्यपरिवर्तनं कृत्वा लिखत 

उदाहरणम्- क्रुद्धः सिंहः इतस्ततः धावति गर्जति च। -

कुद्धेन सिंहेन इतस्ततः धाव्यते गय॑ते च।

(क) त्वया सत्यं कथितम्।

(ख) सिंहः सर्वजन्तून् पृच्छति। 

(ग) काकः पिकस्य संततिं पालयति।

(घ) मयूरः विधात्रा एव पक्षिराजः वनराजः वा कृतः।

(ङ) सर्वैः खगैः कोऽपि खगः एव वनराजः कर्तुमिष्यते स्म।

(च) सर्वे मिलित्वा प्रकृतिसौन्दर्याय प्रयत्नं कुर्वन्तु।

उत्तरम् - 

(क) त्वम् सत्यम् अकथयः।

(ख) सिंहेन सर्वजन्तवः पृच्छ्यन्ते।

(ग) काकेन पिकस्य सन्ततिः पाल्यते।

(घ) मयूरं विधाता एव पक्षिराजं वनराजं वा कृतवान्।

(ङ) सर्वे खगाः कमपि खगम् एव वनराजं कर्तुमिच्छन्ति स्म

(च) सर्वैः मिलित्वा प्रकृतिसौन्दर्याय प्रयत्नः क्रियते।


7.समासविग्रहं समस्तपदं वा लिखत

(क) तुच्छजीवैः ................

(ख) वृक्षोपरि ................

(ग) पक्षिणां सम्राट् ................

(घ) स्थिता प्रज्ञा यस्य सः ................

(ङ) अपूर्वम् ................

(च) व्याघ्रचित्रको ................

उत्तराणि

(क) तुच्छैः जीवैः।

(ख) वृक्षस्य उपरि।

(ग) पक्षिसम्राट्।

(घ) स्थितप्रज्ञः।

(ङ) न पूर्वम् इति।

(च) व्याघ्रश्च चित्रकश्च।


Comments


bottom of page