top of page

NCERT Sanskrit Class 6 Chapter 11 - दशमः त्वम् असि

Updated: Jan 23, 2024

CBSE Sanskrit Textbook रुचिरा Ruchira Solutions

NCERT Solutions for Class 6 Sanskrit Chapter 11 - दशमः त्वम् असि

Ruchira (रुचिरा) Textbook Questions and answers


Syllabus based on NCERT 2023-24


1 उच्चारणं कुरुत


पुल्लिङ्गे

स्त्रीलिङ्गे

नपुंसकलिङगे

एकः

एका

एकम्

द्वौ

द्वे

द्वे

त्रयः

तिस्रः

त्रीणि

चत्वारः

चतस्रः

चत्वारि

पञ्च

पञ्च

पञ्च

षट्

षट्

षट्

सप्त

सप्त

सप्त

अष्ट

अष्ट

अष्ट

नव

नव

नव

दश

दश

दश


2. प्रश्नानाम् उत्तराणि लिखत-


(क) कति बालकाः स्नानाय अगच्छन्?

उत्तरम् : दश बालकाः स्नानाय अगच्छन्।


(ख) ते स्नानाय कुत्र अगच्छन्?

उत्तरम् : ते स्नानाय नदीम् अगच्छन्।


(ग) ते कं निश्चयम् अकुर्वन्?

उत्तरम् : दशमः नद्यां मग्नः इति ते निश्चयम् अकुर्वन्।


(घ) मार्गे कः आगच्छत्?

उत्तरम् : मार्गे पथिकः आगच्छत्।


(ङ) पथिकः किम् अवदत्?

उत्तरम् : पथिकः अवदत्-दशमः त्वम् असि।


3. शुद्धकथनानां समक्षम् (✓) इति अशुद्धकथनानां समक्षं (✗) कुरुत-


(क) दशबालकाः स्नानाय अगच्छन्। [ ]

(ख) सर्वे वाटिकायाम् अभ्रमन्। [ ]

(ग) ते वस्तुतः नव बालकाः एव आसन्। [ ]

(घ) बालकाः स्वं न अगणयत्। [ ]

(ङ) एकः बालकः नद्यां मग्नः। [ ]

(च) ते सुखिता: तूष्णीम् अतिष्ठन्। [ ]

(छ) कोऽपि पथिकः न आगच्छत्। [ ]

(ज) नायकः अवदत् – दशमः त्वम् असि इति। [ ]

(झ) ते सर्वे प्रहृष्टाः भूत्वा च गृहम् अगच्छन्। [ ]


उत्तराणि

(क) दशबालकाः स्नानाय अगच्छन्। [✓]

(ख) सर्वे वाटिकायाम् अभ्रमन्। [✗] 

(ग) ते वस्तुतः नव बालकाः एव आसन्। [✗] 

(घ) बालकाः स्वं न अगणयत्। [✓]

(ङ) एकः बालकः नद्यां मग्नः। [✗] 

(च) ते सुखिता: तूष्णीम् अतिष्ठन्। [✗] 

(छ) कोऽपि पथिकः न आगच्छत्। [✗] 

(ज) नायकः अवदत् – दशमः त्वम् असि इति। [✗] 

(झ) ते सर्वे प्रहृष्टाः भूत्वा च गृहम् अगच्छन्। [✓]  


4. मञ्जूषातः शब्दान् चित्वा रिक्तस्थानानि पूरयत –


( गणयित्वा श्रुत्वा दृष्ट्वा कृत्वा गृहीत्वा तीर्त्वा )


(क) ते बालकाः ............. नद्याः उत्तीर्णाः।

(ख) पथिकः बालकान् दु:खितान् ............. अपृच्छत्।

(ग) पुस्तकानि .............  विद्यालयं गच्छ।

(घ) पथिकस्य वचनं ............. सर्वे प्रमुदिताः गृहम् अगच्छन्।

(ङ) पथिक: बालकान् ............. अकथयत्-दशमः त्वम् असि।

(च) मोहनः कार्यं .............  गृहं गच्छति।


उत्तराणि

(क) ते बालकाः तीर्त्वा नद्याः उत्तीर्णाः।

(ख) पथिकः बालकान् दु:खितान् दृष्ट्वा अपृच्छत्।

(ग) पुस्तकानि गृहीत्वा विद्यालयं गच्छ।

(घ) पथिकस्य वचनं श्रुत्वा सर्वे प्रमुदिताः गृहम् अगच्छन्।

(ङ) पथिक: बालकान् गणयित्वा अकथयत्-दशमः त्वम् असि।

(च) मोहनः कार्यं कृत्वा गृहं गच्छति।


5.चित्राणि दृष्ट्वा संख्यां लिखत-




उत्तरम् :

(क) अष्ट कन्दुकानि।

(ख) तिस्त्रः चटकाः।

(ग) एकं पुस्तकम्।

(घ) द्वौ मयूरौ।

(ङ) द्वे बालिके।

(च) षट् तालाः।

(छ) पञ्च कपोताः।

(ज) दश पत्राणि।

Comments


bottom of page