NCERT Sanskrit Class 7 Chapter 1 - सुभाषितानि
- samskritasabha
- Dec 23, 2023
- 1 min read
Updated: Jan 26, 2024
प्रथमः पाठः
सुभाषितानि
CBSE Sanskrit Textbook रुचिरा Ruchira Solutions
NCERT Solutions for Class 7 Sanskrit Chapter 1 - सुभाषितानि
Ruchira (रुचिरा) Textbook Questions and answers
1 सर्वान् श्लोकान् सस्वरं गायत
2.यथायोग्यं श्लोकांशान् मेलयत –
क | ख |
धनधान्यप्रयोगेषु विस्मयो न हि कर्त्तव्य: सत्येन धार्यते पृथ्वी सद्धिर्विवादं मैत्री च आहार व्यवहारे च | नासद्धिः किञ्चिदाचरेत्। त्यक्तलज्जः सुखी भवेत्। बहुरत्ना वसुन्धरा। विद्यायाः संग्रहेषु च। सत्येन तपते रविः। |
उत्तराणि
धनधान्यप्रयोगेषु त्यक्तलज्जः सुखी भवेत्।
विस्मयो न हि कर्त्तव्य: बहुरत्ना वसुन्धरा।
सत्येन धार्यते पृथ्वी सत्येन तपते रविः।
सद्धिर्विवादं मैत्री च नासद्धिः किञ्चिदाचरेत्।
आहार व्यवहारे च विद्यायाः संग्रहेषु च।
3. एकपदेन उत्तरत-
(क) पृथिव्यां कति रत्नानि?
(ख) मूढैः कुत्र रत्नसंज्ञा विधीयते?
(ग) पृथिवी केन धार्यते?
(घ) कैः सङ्गतिं कुर्वीत?
(ङ) लोके वशीकृतिः का?
उत्तराणि
(क) त्रीणि
(ख) पाषाणखण्डेषु
(ग) सत्येन
(घ) सद्भिः
(ङ) क्षमा।
4. रेखाङ्कितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-
(क) सत्येन वाति वायुः।
उत्तरम् : केन वाति वायुः?
(ख) सद्भिः एव सहासीत।
उत्तरम् : कैः एव सहासीत?
(ग) वसुन्धरा बहुरत्ना भवति।
उत्तरम् : का बहुरत्ना भवति?
(घ) विद्यायाः संग्रहेषु त्यक्तलज्जः सुखी भवेत्।
उत्तरम् : कस्याः संग्रहेषु त्यक्तलज्जः सुखी भवेत्?
(ङ) सद्भिः मैत्रीं कुर्वीत।
उत्तरम् : सद्भिः किम् कुर्वीत?
5. प्रश्नानामुत्तराणि लिखत-
(क) कुत्र विस्मयः न कर्त्तव्यः?
उत्तरम् : दाने तपसि शौर्य विज्ञाने विनये नये च विस्मयः न कर्त्तव्यः।
(ख) पृथिव्यां त्रीणि रत्नानि कानि?
उत्तरम् : पृथिव्यां त्रीणि रत्नानि जलमन्नं सुभाषितञ्च सन्ति।
(ग) त्यक्तलज्जः कुत्र सुखी भवेत्?
उत्तरम् : धनधान्यप्रयोगेषु विद्याया: संग्रहेषु च। आहारे व्यवहारे च त्यक्तलज्जः सुखी भवेत्॥
6.मञ्जूषातः पदानि चित्वा लिङ्गानुसारं लिखत –
[ रत्नानि वसुन्धरा सत्येन सुखी अन्नम् वह्निः रविः पृथ्वी सङ्गतिम् ]
पुँल्लिङ्गम् | स्त्रीलिङ्गम् | नपुंसकलिङ्गम् |
............ | ............ | ............ |
............ | ............ | ............ |
............ | ............ | ............ |
उत्तराणि :
पुल्लिङ्गम् | स्त्रीलिङ्गम् | नपुंसकलिङ्गम् |
सुखी | वसुन्धरा | रत्नानि |
वह्निः | पृथ्वी | सत्येन |
रविः | सङ्गतिम् | अन्नम् |
7. अधोलिखितपदेषु धातवः के सन्ति?
पदम् धातुः
करोति ______
पश्य ______
भवेत् ______
तिष्ठति _______
उत्तराणि :
करोति कृ
पश्य दृश्
भवेत् भू
तिष्ठति स्था
Comments