NCERT Sanskrit Class 7 Chapter 2 - दुर्बुद्धिः विनश्यति
- samskritasabha
- Jan 26, 2024
- 2 min read
Updated: Jan 27, 2024
द्वितीयः पाठः
दुर्बुद्धिः विनश्यति
CBSE Sanskrit Textbook रुचिरा Ruchira Solutions
NCERT Solutions for Class 7 Sanskrit Chapter 2 - दुर्बुद्धिः विनश्यति
Ruchira (रुचिरा) Textbook Questions and answers
1 उच्चारणं कुरुत
फुल्लोत्पलम् | अवलम्ब्य | पक्त्वा |
कम्बुग्रीवः | आवाभ्याम् | भक्षयिष्यामि |
उक्तवान् | ह्रदम् | सुहृदाम् |
भवद्भ्याम् | उड्डीयते | भ्रष्टः |
2. एकपदेन उत्तरत –
(क) कूर्मस्य किं नाम आसीत्?’
(ख) सरस्तीरे के आगच्छन्?
(ग) कूर्मः केन मार्गेण अन्यत्र गन्तुम् इच्छति?
(घ) लम्बमानं कूर्म दृष्ट्वा के अधावन्?
उत्तराणि :
(क) कम्बुग्रीवः
(ख) धीवराः
(ग) आकाशमार्गेण
(घ) गोपालकाः।
3. अधोलिखितवाक्यानि कः कं प्रति कथयति इति लिखत
कः कथयति कं प्रति कथयति
यथा – प्रातः यद् उचितं तत्कर्तव्यम् । हंसौ कूर्मं प्रति
(क) अहं भवद्भ्या सह आकाशमार्गेण गन्तुम् इच्छामि ................. .................
(ख) अत्र कः उपायः ................. .................
(ग) अहम् उत्तरं न दास्यामि। ............... .................
(घ) यूयं भस्म खादत। ................. .................
उत्तरम् :
(क) कूर्मः हंसौ प्रति
(ख) हंसौ कूर्मं प्रति
(ग) कूर्मः हंसौ प्रति
(घ) कूर्मः गोपालकान् प्रति
4. मञ्जूषातः क्रियापदं चित्वा वाक्यानि पूरयत –
(अभिनन्दति भक्षयिष्यामः इच्छामि वदिष्यामि उड्डीयते प्रतिवसति स्म)
(क) हंसाभ्यां सह कूर्मोऽपि ............. ।
(ख)अहं किञ्चिदपि न ............. ।
(ग) यः हितकामनां सुहृदां वाक्यं न ............. ।
(घ) एकः कूर्मः अपि तत्रैव ............. ।
(ङ) अहम् आकाशमार्गेण अन्यत्र गन्तुम् ............. ।
(च) वयं गृहं नीत्वा कूर्मं ............. ।
उत्तरम् :
(क) हंसाभ्यां सह कूर्मोऽपि उड्डीयते।
(ख) अहं किञ्चिदपि न वदिष्यामि।
(ग) यः हितकामानां सुहृदां वाक्यं न अभिनन्दति।
(घ) एकः कूर्मः अपि तत्रैव प्रतिवसति स्म।
(ङ) अहम् आकाशमार्गेण अन्यत्र गन्तुम् इच्छामि।
(च) वयं गृहं नीत्वा कूर्म भक्षयिष्यामः।
5. पूर्णवाक्येन उत्तरत-
(क) कच्छपः कुत्र गन्तुम् इच्छति?
उत्तरम् : कच्छपः आकाशमार्गेण अन्यत्र ह्रदं गन्तुम् इच्छति।
(ख) कच्छपः कम् उपायं वदति?
उत्तरम् : कच्छपः हंसौ उपायं वदति।
(ग) लम्बमानं कूर्म दृष्ट्वा गोपालकाः किम् अवदन्?
उत्तरम् : लम्बमानं कूर्म दृष्ट्वा गोपालकाः अवदन् यत्”हंहो ! महदाश्चर्यम्। हंसाभ्यां सह कूर्मोऽपि उड्डीयते।“
(घ) कूर्मः मित्रयोः वचनं विस्मृत्य किम् अवदत्!
उत्तरम् : कूर्मः अवदत्-“यूयं भस्म खादत।"
6. घटनाक्रमानुसारं वाक्यानि लिखत –
(क) कूर्मः हंसयोः सहायतया आकाशमार्गेण अगच्छत्।
(ख) गोपालकाः अकथयन्-वयं पतितं कूम खादिष्यामः।
(ग) कूर्मः हंसौ च एकस्मिन् सरसि निवसन्ति स्म।
(घ) केचित् धीवराः सरस्तीरे आगच्छन्।
(ङ) कूर्मः अन्यत्र गन्तुम् इच्छति स्म।
(च) लम्बमानं कूर्म दृष्ट्वा गोपालकाः अधावन्।
(छ) कूर्म: आकाशात् पतितः गोपालकैः मारितश्च।
(ज) ‘वयं श्व: मत्स्यकूर्मादीन् मारयिष्यामः’ इति धीवराः अकथयन्।
उत्तरम् :
(क) कूर्मः हंसौ च एकस्मिन् सरसि निवसन्ति स्म।
(ख) केचित् धीवराः सरस्तीरे आगच्छन्।
(ग) ‘वयं श्व: मत्स्यकूर्मादीन् मारयिष्यामः’ इति धीवराः अकथयन्।
(घ) कूर्मः अन्यत्र गन्तुम् इच्छति स्म।।
(ङ) कूर्मः हंसयो: सहायतया आकाशमार्गेण अगच्छत्।
(च) लम्बमानं कूर्म दृष्ट्वा गोपालकाः अधावन्।
(छ) गोपालका: अकथयन्-बयं पतितं कूर्म खादिष्यामः।
(ज) कूर्म: आकाशात् पतित: गोपालकैः मारितश्च।
7.मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत
जलाशयम् अचिन्तयत् वृद्धः दुःखिताः कोटरे
वृक्षस्य सर्पः आदाय समीपे
एकस्य वृक्षस्य शाखासुः अनेके काकाः वसन्ति स्म। तस्य वृक्षस्य ………….. एकः सर्पः अपि अवसत्। काकानाम् अनुपस्थितौ ………….. काकानां शिशून् खादति स्म। काकाः ………….. आसन्। तेषु एकः…………..काकः उपायम् …………..। वृक्षस्य ………….. जलाशयः आसीत्। तत्र एका राजकुमारी स्नातुं ………….. आगच्छति। शिलायां स्थितं तस्याः आरभणम् आदाय एकः काकः वृक्षस्य उपरि अस्थापयत्। राजसेवकाः काकम् अनुसृत्य………….. समीपम् अगच्छन्। तत्र ते तं सर्प च अमारयन्। अत: एवोक्तम्उपायेन सर्व सिद्धयति।
उत्तरम् :
एकस्य वृक्षस्य शाखासुः अनेके काकाः वसन्ति स्म। तस्य वृक्षस्य कोटरे एकः सर्पः अपि अवसत्। काकानाम् अनुपस्थितौ सर्पः काकानां शिशून् खादति स्म। काकाः दुःखिताः आसन्। तेषु एकः वृद्धः काकः उपायम् अचिन्तयत्। वृक्षस्य समीपे जलाशयः आसीत्। तत्र एका राजकुमारी स्नातुं जलाशयम् आगच्छति। शिलायां स्थितं तस्याः आरभणम् आदाय एकः काकः वृक्षस्य उपरि अस्थापयत्। राजसेवकाः काकम् अनुसृत्य वृक्षस्य समीपम् अगच्छन्। तत्र ते तं सर्प च अमारयन्। अत: एवोक्तम्उपायेन सर्व सिद्धयति।
Comentarios