top of page

NCERT Sanskrit Class 7 Chapter 4 - पण्डिता रमाबाई

चतुर्थः पाठः


पण्डिता रमाबाई


CBSE Sanskrit Textbook रुचिरा Ruchira Solutions

NCERT Solutions for Class 7 Sanskrit Chapter 4 - पण्डिता रमाबाई

Ruchira (रुचिरा) Textbook Questions and answers


1.एकपदेन उत्तरत


(क)  ‘पण्डिता’ ‘सरस्वती’ इति उपाधिभ्यां का विभूषिता?

उत्तरम् : : रमाबाई।


(ख)रमा कुतः संस्कृतशिक्षा प्राप्तवती?

उत्तरम् : : स्वमातुः। 


(ग)रमाबाई केन सह विवाहम् अकरोत्?

उत्तरम् :: विपिनबिहारीदासेन। 


(घ)कासां शिक्षायै रमाबाई स्वकीय जीवनम् अर्पितवती?

उत्तरम् :: नारीणाम्। 


(ङ)रमाबाई उच्चशिक्षार्थं कुत्र अगच्छत्?

उत्तरम् :: इंग्लैण्डदेशम्। 


2.रेखातिपदानि आधृत्य प्रश्ननिर्माणं कुरुत

(क) रमायाः पिता समाजस्य प्रतारणाम् असहत।

(ख) पत्युः मरणानन्तरं रमाबाई महाराष्ट्र प्रत्यागच्छत्।

(ग) रमाबाई मुम्बईनगरे ‘शारदा-सदनम्’ अस्थापयत्।

(घ) 1922 तमे ख्रिष्टाब्दे रमाबाई-महोदयायाः निधनम् अभवत्।

(ङ) स्त्रियः शिक्षा लभन्ते स्म।


उत्तराणि :

(क) कस्याः पिता समाजस्य प्रतारणाम् असहत?

(ख) कस्य मरणानन्तरं रमाबाई महाराष्ट्र प्रत्यागच्छत्?

(ग) रमाबाई कुत्र ‘शारदा-सदनम्’ अस्थापय?।

(घ) 1922 तमे ख्रिष्टाब्दे कस्याः निधनम् अभवत्?

(ङ) काः शिक्षा लभन्ते स्म?


3. प्रश्नानामुत्तराणि लिखत-


(क)  रमाबाई किमर्थम् आन्दोलनं प्रारब्धवती?

उत्तरम् : रमाबाई स्त्रीणां कृते वेदादीनां शास्त्राणां शिक्षायै आन्दोलनं प्रारब्धवती।


(ख)  निःसहायाः स्त्रियः आश्रमे किं लभन्ते स्म?

उत्तरम् : निःसहायाः स्त्रियः आश्रमे मुद्रण-टङ्कणकाष्ठकलादीनाञ्च प्रशिक्षणं लभन्ते स्म।


(ग)  कस्मिन् विषये रमाबाई-महोदयायाः योगदानम् अस्ति ?

उत्तरम् : समाजसेवायां लेखनक्षेत्रे च रमाबाई-महोदयायाः योगदानम् अस्ति।


(घ)  केन रचनाद्वयेन रमाबाई प्रशंसिता वर्तते?

उत्तरम् : ‘स्त्रीधर्मनीति’ तथा:-‘हाई कास्ट हिन्दू विमेन’ इति रचनाद्वयेन रमाबाई प्रशंसिता वर्तते।


4.अधोलिखितानां पदानां निर्देशानुसारं पदपरिचयं लिखत ।



उत्तराणि :          

पिता      पितृ     पुल्लिङ्गम्   प्रथमा   एकवचनम्

शिक्षायै    शिक्षा    स्त्रीलिङ्गम्   चतुर्थी   एकवचनम्

कन्याः    कन्या    स्त्रीलिङ्गम्   प्रथमा   बहुवचनम्

नारीणाम्   नारी     स्त्रीलिङ्गम्    षष्ठी   बहुवचनम्

मनोरमया  मनोरमा  स्त्रीलिङ्गम्   तृतीया   एकवचनम्


5.अधोलिखितानां धातूनां लकारं पुरुषं वचनञ्च लिखत


उत्तरम् :

कुर्वन्ति    कृ       लट्   प्रथमः   बहुवचनम्

आगच्छत्  आ+गम्   लङ्   प्रथमः   एकवचनम्

निवसन्ति नि+वस्    लट्    प्रथमः  बहुवचनम्

गमिष्यति   गम्     लृट्    प्रथमः   एकवचनम्

अकरोत्     कृ      लङ्    प्रथमः   एकवचनम्


6. अधोलिखितानि वाक्यानि घटनाक्रमानुसार लिखत –

(क) रमाबाई-महोदयायाः विपिनबिहारीदासेन सह विवाहः

(ख) 1858 तमे ख्रिष्टाब्दे रमाबाई जन्म अलभत।

(ग) सा उच्चशिक्षार्थम् इंग्लैण्डदेशं गतवती।

(घ) 1922 तमे ख्रिष्टाब्दे रमाबाई-महोदयायाः निधनम् अभवत्।

(ङ) सा मुम्बईनगरे शारदा-सदनम् अस्थापयत्।


उत्तरम् :

(क) 1858 तमे ख्रिष्टाब्दे रमाबाई जन्म अलभत।

(ख) सा स्वमातुः संस्कृतशिक्षा प्राप्तवती।

(ग) रमाबाई-महोदयायाः विपिनबिहारीदासेन सह विवाहः अभवत्।

(घ) सा उच्चशिक्षार्थम् इंग्लैण्डदेशं गतवती।

(ङ) सा मुम्बईनगरे शारदा-सदनम् अस्थापयत्।

(च) 1922 तमे ख्रिष्टाब्दे रमाबाई-महोदयायाः निधनम् अभवत्।

 

Comments


bottom of page