NCERT Sanskrit Class 7 Chapter 7 - त्रिवर्णः ध्वजः
- samskritasabha
- Jan 27, 2024
- 2 min read
सप्तमः पाठः
त्रिवर्णः ध्वजः
CBSE Sanskrit Textbook रुचिरा Ruchira Solutions
NCERT Solutions for Class 7 Sanskrit Chapter 7 - त्रिवर्णः ध्वजः
Ruchira (रुचिरा) Textbook Questions and answers
1.शुद्धकथनस्य समक्षम्’आम्’ अशुद्धकथनस्य समक्षं’न’ इति लिखत।
(क) अस्माकं राष्ट्रस्य ध्वजे त्रयः वर्णाः सन्ति।[ ]
(ख) ध्वजे हरितवर्ण: शान्तेः प्रतीकः अस्ति। [ ]
(ग) ध्वजे केशरवर्णः शक्त्याः सूचकः अस्ति। [ ]
(घ) चक्रे त्रिंशत् अराः सन्ति। [ ]
(ङ) चक्रं प्रगते: द्योतकम्। [ ]
उत्तरम् :
(क) अस्माकं राष्ट्रस्य ध्वजे त्रयः वर्णाः सन्ति। [आम्]
(ख) ध्वजे हरितवर्ण: शान्तेः प्रतीकः अस्ति। [न]
(ग) ध्वजे केशरवर्णः शक्त्याः सूचकः अस्ति। [आम्]
(घ) चक्रे त्रिंशत् अराः सन्ति। [न]
(ङ) चक्रं प्रगते: द्योतकम्। [आम्]
2. अधोलिखितेषु पदेषु प्रयुक्तां विभक्तिं वचनं च लिखत –
पदानि | विभक्तिः | वचनम् |
यथा - त्रयाणाम् | षष्ठी | बहुवचनम् |
समृद्धेः | ................ | ................ |
वर्णानाम् | ................ | ................ |
उत्साहस्य | ................ | ................ |
नागरिकैः | ................ | ................ |
सात्त्विकतायाः | ................ | ................ |
प्राणानाम् | ................ | ................ |
सभायाम् | ................ | ................ |
उत्तरम्
पदानि | विभक्तिः | वचनम् |
यथा - त्रयाणाम् | षष्ठी | बहुवचनम् |
समृद्धेः | षष्ठी | एकवचनम् |
वर्णानाम् | षष्ठी | बहुवचनम् |
उत्साहस्य | षष्ठी | एकवचनम् |
नागरिकैः | तृतीया | बहुवचनम् |
सात्त्विकतायाः | षष्ठी | एकवचनम् |
प्राणानाम् | षष्ठी | बहुवचनम् |
सभायाम् | सप्तमी | एकवचनम् |
3. एकपदेन उत्तरत-
(क) अस्माकं ध्वजे कति वर्णाः सन्ति?
(ख) त्रिवर्णे ध्वजे शक्त्याः सूचकः कः वर्ण:?
(ग) अशोकचक्रं कस्य द्योतकम् अस्ति?
(घ) त्रिवर्ण : ध्वजः कस्य प्रतीकः?
उत्तराणि :
(क) त्रयः
(ख) केशरवर्ण :
(ग) प्रगते: न्यायस्य च
(घ) स्वाधीनताया: राष्ट्रगौरवस्य च।
4. एकवाक्येन उत्तरत-
(क) अस्माकं ध्वजस्य श्वेतवर्णः कस्य सूचकः अस्ति?
उत्तरम् : अस्माकं ध्वजस्य श्वेतवर्णः सात्त्विकतायाः शुचितायाः च सूचकः अस्ति।
(ख) अशोकस्तम्भः कुत्र अस्ति?
उत्तरम् : अशोकस्तम्भः सारनाथे अस्ति।
(ग) त्रिवर्णध्वजस्य उत्तोलनं कदा भवति?
उत्तरम् : त्रिवर्णध्वजस्य उत्तोलनं स्वतन्त्रतादिवसे गणतन्त्रदिवसे च भवति।
(घ) अशोकचक्रे कति अराः सन्ति?
उत्तरम् : अशोकचक्रे चतुर्विंशतिः अराः सन्ति।
5. अधोलिखितवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत
(क) अस्माकं त्रिवर्णध्वजः विश्वविजयी भवेत्।
(ख) स्वधर्मात् प्रमादं वयं न कुर्याम्।
(ग) एतत् सर्वम् अस्माकं नेतृणां सबुद्धेः सत्फलम्।
(घ) शत्रूणां समक्षं विजयः सुनिश्चितः भवेत्।
उत्तराणि :
प्रश्न-निर्माणम्
(क) अस्माकं कः विश्वविजयी भवेत्?
(ख) स्वधर्मात् किम् वयं न कुर्याम्?
(ग) एतत् सर्वम् अस्माकं नेतृणां कस्याः सत्फलम्?
(घ) केषाम् समक्षं विजय : सुनिश्चित: भवेत्?
6. उदाहरणानुसारं समुचितैः पदैः रिक्तस्थानानि पूरयत -
7. समुचितमेलनं कृत्वा लिखत –
क ख
केशरवर्ण: - प्रगते: न्यायस्य च प्रवर्तकम्।
हरितवर्णः – 22 जुलाई 1947 तमे वर्षे जातम्।
अशोकचक्रम् – शौर्यस्य त्यागस्य च सूचकः।
त्रिवर्ण : - ध्वजः सुषमायाः उर्वरतायाः च सूचकः।
त्रिवर्णध्वजस्य स्वीकरणं - स्वाधीनतायाः राष्ट्रगौरवस्य च प्रतीकः।
उत्तरम् :
क ख
केशरवर्णः – शौर्यस्य त्यागस्य च सूचकः।
हरितवर्णः – सुषमायाः उर्वरतायाः च सूचकः।
अशोकचक्रम् – प्रगते: न्यायस्य च प्रवर्तकम्।
त्रिवर्ण: ध्वजः – स्वाधीनतायाः राष्ट्रगौरवस्य च प्रतीकः।
त्रिवर्णध्वजस्य स्वीकरणं – 22 जुलाई 1947 तमे वर्षे जातम्।
Comments