top of page

NCERT Sanskrit Class 8 Chapter 12 - कः रक्षति कः रक्षितः

द्वादशः पाठः

कः रक्षति कः रक्षितः


CBSE Sanskrit Textbook रुचिरा Ruchira Solutions

NCERT Solutions for Class 8 Sanskrit Chapter 12 - कः रक्षति कः रक्षितः

Ruchira (रुचिरा) Textbook Questions and answers


1.प्रश्नानामुत्तराणि एकपदेन लिखत


(क) केन पीडितः वैभवः बहिरागतः?

(ख) भवनेत्यादीनां निर्माणाय के कर्त्यन्ते?

(ग) मार्गे किं दृष्ट्वा बालाः परस्परं वार्तालाप कुर्वन्ति?

(घ) वयं शिक्षिताः अपि कथमाचरामः?

(ङ) प्लास्टिकस्य मृत्तिकायां लयाभावात् कस्य कृते महती क्षतिः भवति?

(च) अद्य निदाघतापतप्तस्य किं शुष्कतां याति?


उत्तराणि

(क) प्रचण्डोष्मणा।

(ख) वृक्षाः।

(ग) अवकरभाण्डारम्।

(घ) अशिक्षिताः इव।

(ङ) पर्यावरणस्य कृते।


2.पूर्णवाक्येन उत्तराणि लिखत –

(क) परमिन्दर् गृहात् बहिरागत्य किं पश्यति ?

उत्तरम् :परमिन्दर् गृहात् बहिरागत्य पश्यति यत् वायुवेगः सर्वथाऽवरुद्धः।


(ख) अस्माभिः केषां निर्माणाय वृक्षाः कर्त्यन्ते?

उत्तरम्-अस्माभिः बहुभूमिकभवनानां, भूमिगतमार्गाणाम्, मैट्रोमार्गाणाम्, उपरिगामिसेतूमनाम् मार्गेत्यादीनां निर्माणाय वृक्षाः कर्त्यन्ते।


(ग) विनयः संगीतामाहूय किं वदति?

उत्तरम् : विनयः संगीतामाहूय वदति यत्-“महोदये! कृपां कुरु मार्गे भ्रमद्भ्यः। एतत् तु सर्वथा अशोभनं कृत्यम्। अस्मद्सदृशेभ्यः बालेभ्यः भवतीसदृशैः एवं संस्काराः देयाः।“


(घ) रोजलिन् आगत्य किं करोति?

उत्तरम् : रोजलिन् आगत्य बालैः साकं स्वक्षिप्तमवकरं मार्गे विकीर्णमन्यदवकरं चापि संगृह्य अवकरकण्डोले पातयति।


(ङ) अन्ते जोसेफः पर्यावरणरक्षायै कः उपायः बोधयति?

उत्तरम् :अन्ते जोसेफः पर्यावरणरक्षायै बोधयति यत् “अस्माभिः पित्रोः शिक्षकाणां च सहयोगेन प्लास्टिकस्य विविधपक्षाः विचारणीयाः। पर्यावरणेन सह पशवः अवि रक्षणीयाः।“


3.रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत –

(क) जागरूकतया एव स्वच्छताऽभियानमपि गतिं प्राप्स्यति।

(ख) धेनु शाकफलानामावरणैः सह प्लास्टिकस्यूतमपि खादति

(ग) वायुवेगः सर्वथाऽवरुद्धः आसीत्।

(घ) सर्वे अवकरं संगृह्य अवकरकण्डोले पातयन्ति।

(ङ) अधुना प्लास्टिकनिर्मितानि वस्तूनि प्रायः प्राप्यन्ते।

(च) सर्वे नदीतीरं प्राप्ताः प्रसन्नाः भवति।


उत्तराणि

प्रश्ननिर्माणम्

(क) कया एव स्वच्छताऽभियानमपि गतिं प्राप्स्यति?

(ख) धेनु कैः सह प्लास्टिकस्यूतमपि खादति स्म?

(ग) कः सर्वथाऽवरुद्धः आसीत्?

(घ) सर्वे अवकरं संगृह्य कुत्र पातयन्ति?

(ङ) अधुना प्लास्टिकनिर्मितानि कानि प्रायः प्राप्यन्ते?

(च) सर्वे कुत्र प्राप्ताः प्रसन्नाः भवन्ति?


4.सन्धिविच्छेदं पूरयत।

(क) ग्रीष्मर्तौ = .............. + ऋतौ

(ख) बहिरागत्य = बहिः + ..............

(ग) काञ्चित् = .............. + चित्

(घ) तद्ववनम् = .............. + वनम्

(ङ) कलमेत्यादीनि = कलम् + ..............

(च) अतीवानन्दप्रदोऽयम् = .............. + आनन्दप्रदः + ..............


उत्तराणि

(क) ग्रीष्मर्तौ = ग्रीष्म + ऋतौ

(ख) बहिरागत्य = बहिः + आगत्य 

(ग) काञ्चित् = काम् + चित्

(घ) तद्ववनम् = तत् + वनम्

(ङ) कलमेत्यादीनि = कलम् + इत्यादीनि

(च) अतीवानन्दप्रदोऽयम् = अतीव + आनन्दप्रदः + अयम् 


5. विशेषणपदैः सह विशेष्यपदानि योजयत –

काञ्चित् – अवकरम्

स्वच्छानि – स्वास्थ्यकरी

पिहिते – क्षतिः

स्वच्छता – शान्तिम्

गच्छन्ति – गृहाणि

अन्यत् – अवकरकण्डोले

महती – मित्राणि


उत्तराणि

विशेषणपदानि – विशेष्यपदानि

काञ्चित् – शान्तिम्

स्वच्छानि – गृहाणि

पिहिते – अवकरकण्डोले

स्वच्छता – स्वास्थ्यकरी

गच्छन्ति – मित्राणि

अन्यत् – अवकरम्

महती – क्षतिः


6. शुद्धकथनानां समक्षम् [आम्] अशुद्धकथनानां समक्षं च [न] इति लिखत

(क) प्रचण्डोष्मणा पीडिताः बालाः सायंकाले एकैकं कृत्वा गृहाभ्यन्तरं गताः।

(ख) मार्गे मित्राणि अवकरभाण्डारं यत्र-तत्र विकीर्ण दृष्ट्वा वार्तालापं कुर्वन्ति।

(ग) अस्माभिः पर्यावरणस्वच्छतां प्रति प्रायः ध्यानं न दीयते।

(घ) वायु विना क्षणमपि जीवितुं न शक्यते।

(ङ) रोजलिन् अवकरम् इतस्ततः प्रक्षेपणात् अवरोधयति बालकान्।

(च) एकेन शुष्कवृक्षेण दह्यमानेन वनं सुपुत्रेण कुलमिव दह्यते।

(छ) बालकाः धेनुं कदलीफलानि भोजयन्ति ।

(ज) नदीजले निमज्जिताः बालाः प्रसन्नाः भवन्ति ।


उत्तराणि

(क) न

(ख) आम्

(ग) आम्

(घ) आम्

(ङ) न

(च) आम्

(छ) आम्

(ज) आम्


7. घटनाक्रमानुसार लिखत –

(क) उपरितः अवकरं क्षेप्तुम् उद्यतां रोजलिन् बाला: प्रबोधयन्ति।

(ख) प्लास्टिकस्य विविधापक्षान् विचारयितुं पर्यावरणसंरक्षणेन। पशूनेन्यादीन् रक्षितुं बालाः कृतनिश्चयाः भवन्ति।

(ग) गृहे प्रचण्डोष्मणा पीडितानि मित्राणि एकैकं कृत्वा गृहात् बहिरागच्छन्ति।

(घ) अन्ते बाला: जलविहारं कृत्वा प्रसीदन्ति।

(ङ) शाकफलानामावरणै: सह प्लास्टिकस्यूतमपि खादन्ती धेनुं बालका: कदलीफलानि भोजयन्ति।

(च) वृक्षाणां निरन्तरं कर्तनेन, ऊष्मावर्धनेन च दु:खिता: बाला: नदीतीरं गन्तुं प्रवृत्ताः भवन्ति।

(छ) बालैः सह रोजलिन् अपि मार्गे विकीर्णमवकरं यथास्थानं प्रक्षिपति।

(ज) मार्गे यत्र-तत्र विकीर्णमवकरं दृष्ट्वा पर्यावरणविषये चिन्तिताः बालाः परस्परं विचारयन्ति।


उत्तराणि

घटनाक्रमानुसारं वाक्यानि

(i)               (ग) गृहे प्रचण्डोष्मणा पीडितानि मित्राणि एकैकं कृत्वा गृहात् बहिरागच्छन्ति।

(ii)              (च) वृक्षाणां निरन्तरं कर्तनेन, ऊष्मावर्धनेन च दु:खिता: बाला: नदीतीरं गन्तुं प्रवृत्ताः भवन्ति।

(iii)            (ज) मार्गे यत्र-तत्र विकीर्णमवकरं दृष्ट्वा पर्यावरणविषये चिन्तिता: बालाः परस्परं विचारयन्ति।

(iv) (क) उपरितः अवकरं क्षेप्तुम् उद्यतां रोजलिन् बाला: प्रबोधयन्ति।

(iv)            (छ) बालैः सह रोजलिन् अपि मार्गे विकीर्णमवकरं यथास्थानं प्रक्षिपति।

(v)              (ङ) शाकफलानामावरणैः सह प्लास्टिकस्यूतमपिखादन्तीं धेनुं बालकाः कदलीफलानि भोजयन्ति।

(vi)            (ख) प्लास्टिकस्य विविधापक्षान् विचारयितुं पर्यावरणसंरक्षणेन पशूनेन्यादीन् रक्षितुं बालाः कृतनिश्चयाः भवन्ति।

(vii)           (घ) अन्ते बाला: जलविहारं कृत्वा प्रसीदन्ति।

Comments


bottom of page