NCERT Sanskrit Class 8 Chapter 13 - क्षितौ राजते भारतस्वर्णभूमिः
- samskritasabha
- Apr 2, 2024
- 2 min read
त्रयोदशः पाठः
क्षितौ राजते भारतस्वर्णभूमिः
CBSE Sanskrit Textbook रुचिरा Ruchira Solutions
NCERT Solutions for Class 8 Sanskrit Chapter 11 - क्षितौ राजते भारतस्वर्णभूमिः
Ruchira (रुचिरा) Textbook Questions and answers
1.प्रश्नानाम् उत्तराणि एकपदेन लिखत –
(क) इयं धरा कैः स्वर्णवद् भाति?
(ख) भारतस्वर्णभूमिः कुत्र राजते?
(ग) इयं केषां महाशक्तिभिः पूरिता?
(घ) इयं भूः कस्मिन् युतानाम् अस्ति?
(ङ) अत्र किं सदैव सुपूर्णमस्ति?
उत्तराणि
(क) शस्यैः।
(ख) क्षितौ।
(ग) अणूनाम्।
(घ) प्रबन्धेः।
(ङ) खाद्यान्नभाण्डम्।
2.समानार्थकपदानि पाठात् चित्वा लिखत –
(क) पृथिव्याम् ................... (क्षितौ/पर्वतेषु/त्रिलोक्याम्)
(ख) सुशोभते ................... (लिखते/भाति/पिबति)
(ग) बुद्धिमताम् ................... (पर्वणाम्/उत्सवामाम्/विपश्चिज्जनानाम्)
(घ) मयूराणाम् .................. (शिखीनाम्/शुकानाम्/पिकानाम्)
(ङ) अनेकेषाम् .................... (जनानाम्/वैज्ञानिकानाम्/बहूनाम्)
उत्तराणि
(क) पृथिव्याम् = क्षितौ।
(ख) सुशोभते = भाति।
(ग) बुद्धिमताम् = विपश्चिज्जनानाम्।
(घ) मयूराणाम् = शिखीनाम्।
(ङ) अनेकेषाम् = बहूनाम्।
3.श्लोकांशमेलनं कृत्वा लिखत –
(क) त्रिशूलाग्निनागैः पृथिव्यस्वघोरैः नदीनां जलं यत्र पीयूषतुल्यम्
(ख) सदा पर्वणामुत्सवानां धरेयम् जगद्वन्दनीया च भूः देवगेया
(ग) वने दिग्गजानां तथा केसरीणाम् क्षितौ राजते भारतस्वर्णभूमिः
(घ) सुपूर्ण सदैवास्ति खाद्यान्नभाण्डम् अणूनां महाशक्तिभिः पूरितेयम्
(ङ) इयं वीरभोग्या तथा कर्मसेव्या तटीनामियं वर्तते भूधराणाम्।
उत्तराणि
श्लोकांशमेलनम्
(क) त्रिशूलाग्निनागैः पृथिव्यस्त्रघोरैः अणूनां महाशक्तिभिः पूरितेयम्।
(ख) सदा पर्वणामुत्सवानां धरेयम् क्षितौ राजते भारतस्वर्ण भूमिः।
(ग) वने दिग्गजानां तथा केशरीणाम् तटीनामियं वर्तते भूधराणाम्।
(घ) सुपूर्ण सदैवास्ति खाद्यान्नभाण्डम् नदीनां जलं यत्र पीयूषतुल्यम्।
(ङ) इयं वीरभोग्या तथा कर्मसेव्या जगद्वन्दनीया च भूः देवगेया।
4. चित्रं दृष्ट्वा (पाठात्) उपयुक्तपदानि गृहीत्वा वाक्यपूर्तिं कुरुत –
(क) अस्मिन् चित्रे एका .............. वहति।
(ख) नदी .............. निःसरति।
(ग) नद्या: जलं .............. भवति।
(घ) .............. शस्यसेचनं भवति।
(ङ) भारत: .............. भूमिः अस्ति।
उत्तराणि
(क) अस्मिन् चित्रे एका नदी वहति।
(ख) नदी पर्वतात् निःसरति।
(ग) नद्या: जलं मधुरं भवति।
(घ) नदीजलेन शस्यसेचनं भवति।
(ङ) भारत: स्वर्णस्य भूमिः अस्ति।
5.चित्राणि दृष्ट्वा (मञ्जूषातः) उपयुक्तपदानि गृहीत्वा वाक्यपूर्ति कुरुत –
[ अस्त्राणाम्, भवति, अस्त्राणि, सैनिकाः प्रयोगः, उपग्रहाणां ]
(क) अस्मिन् चित्रे ............... दृश्यन्ते।
(ख) एतेषाम् अस्त्राणां ............... युद्धे भवति।
(ग) भारतः एतादृशानां ............... प्रयोगेण विकसितदेशः मन्यते।
(घ) अत्र परमाणुशक्तिप्रयोगः अपि ...............।
(ङ) आधुनिकैः अस्त्रैः ............... अस्मान् शत्रुभ्यः रक्षन्ति।
(च) ............... सहायतया बहूनि कार्याणि भवन्ति।
उत्तराणि
(क) अस्मिन् चित्रे अस्त्राणि दृश्यन्ते।
(ख) एतेषाम् अस्त्राणां प्रयोगः युद्धे भवति।
(ग) भारतः एतादृशानां अस्त्राणां प्रयोगेण विकसितदेशः मन्यते।
(घ) अत्र परमाणुशक्तिप्रयोगः अपि भवति।
(ङ) आधुनिकैः अस्त्रैः सैनिकाः अस्मान् शत्रुभ्यः रक्षन्ति।
(च) उपग्रहाणां सहायतया बहूनि कार्याणि भवन्ति।
6.(अ) चित्रं दृष्ट्वा संस्कृते पञ्चवाक्यानि लिखत।
उत्तरम्
(क) अस्मिन् चित्रे दीपावली-पर्व दृश्यते।
(ख) चित्रे माता, पिता, पुत्री, पुत्रश्च दृश्यन्ते।
(ग) दीपावलिः अस्माकं प्रमुखपर्व वर्तते।
(घ) दीपावल्यां जनाः स्व-स्व गृहेषु दीपान् प्रज्वालयन्ति।
(ङ) रात्रौ सर्वे प्रसन्नतापूर्वकं मिष्टान्नं स्फोटकान् च वितरन्ति।
(आ) चित्रं दृष्ट्वा संस्कृते पञ्चवाक्यानि लिखत।
उत्तरम्
(क) अस्मिन् चित्रे रक्षाबन्धनस्य दृश्यं वर्तते।
(ख) श्रावणमासस्य पूर्णिमायां रक्षा-बन्धनम् आयोज्यते।
(ग) अस्मिन् दिवसे भगिनी भ्रातुः हस्ते रक्षासूत्रं बध्नाति।
(घ) भ्राता भगिन्यै उपहारं ददाति।
(ङ) रक्षाबन्धनं भ्राता-भगिन्यो: स्नेहस्य पर्व वर्तते।
7.अत्र चित्रं दृष्ट्वा संस्कृतभाषया पञ्चवाक्येषु प्रकृतेः वर्णनं कुरुत।
उत्तरम्
(क) अस्मिन् चित्रे एकस्य वनस्य दृश्यं वर्तते।
(ख) वनस्य प्राकृतिकशोभा रमणीया अस्ति।
(ग) वने बहवः वृक्षाः सन्ति।
(घ) वृक्षेषु खगाः कलरवं कुर्वन्ति।
(ङ) वने सिंहः मृगः, मयूरः च स्वच्छन्दं विचरन्ति।
Comments