NCERT Sanskrit Class 8 Chapter 14 - आर्यभटः
- samskritasabha
- Apr 2, 2024
- 2 min read
चतुर्दशः पाठः
आर्यभटः
CBSE Sanskrit Textbook रुचिरा Ruchira Solutions
NCERT Solutions for Class 8 Sanskrit Chapter 14 - आर्यभटः
Ruchira (रुचिरा) Textbook Questions and answers
1.एकपदेन उत्तरत –
(क) सूर्यः कस्यां दिशायाम् उदेति?
उत्तरम् : पूर्वदिशायाम्।
(ख) आर्यभटस्य वेधशाला कुत्र आसीत्?
उत्तरम् : पाटलिपुत्रं निकषा।
(ग) महान् गणितज्ञः ज्योतिर्विच्च कः अस्ति?
उत्तरम् : आर्यभट:।
(घ) आर्यभटेन कः ग्रन्थः रचितः?
उत्तरम् : आर्यभटीयम्।
(ङ) अस्माकं प्रथमोपग्रहस्य नाम किम् अस्ति?
उत्तरम् : आर्यभटः।
2.पूर्णवाक्येन उत्तरत –
(क) कः सुस्थापितः सिद्धान्तः?
उत्तरम् : सूर्योऽचलः पृथिवी च चला या स्वकीये अक्षे घूर्णति इति सुस्थापितः सिद्धान्तः।
(ख) चन्द्रग्रहणं कथं भवति?
उत्तरम् : यदा पृथिव्याः छायापातेन चन्द्रस्य प्रकाशः अवरुध्यते तदा चन्द्रग्रहणं भवति।
(ग) सूर्यग्रहणं कथं दृश्यते?
उत्तरम् : पृथ्वीसूर्ययोः मध्ये समागतस्य चन्द्रस्य छायापातेन सूर्यग्रहणं दृश्यते।
(घ) आर्यभटस्य विरोधः किमर्थमभवत्?
उत्तरम् : समाजे नूतनानां विचाराणां स्वीकरणे प्राय: सामान्यजना: काठिन्यमनुभवन्ति भारतीयज्योतिः शास्त्रे तथैव आर्यभटस्य विरोधः अभवत्।
(ङ) प्रथमोपग्रहस्य नाम आर्यभटः इति कथं कृतम्?
उत्तरम् : आधुनिकैः वैज्ञानिकैः आर्यभटे, तस्य च सिद्धान्ते समादरः प्रकटितः। अस्मादेव कारणात् अस्माकं प्रथमोपग्रहस्य नाम आयेभटः इति कृतम्।
3. रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत –
(क) सूर्यः पश्चिमायां दिशायाम् अस्तं गच्छति।
(ख) पृथिवी स्थिरा वर्तते इति परम्परया प्रचलिता रूढ़िः।
(ग) आर्यभटस्य योगदानं गणितज्योतिष-संबद्धं वर्तते।
(घ) समाजे नूतनविचाराणाम् स्वीकरणे प्राय: सामान्यजनाः काठिन्यमनुभवन्ति।
(ङ) पृथ्वीसूर्ययोः मध्ये चन्द्रस्य छाया पातेन सूर्यग्रहणं भवति।
उत्तराणि
प्रश्ननिर्माणम्
(क) सूर्यः कस्यां दिशायाम् अस्तं गच्छति?
(ख) पृथिवी स्थिरा वर्तते इति कया प्रचलिता रूढ़ि:?
(ग) आर्यभटस्य योगदान केन संबद्धं वर्तते?
(घ) समाजे नूतनविचाराणाम् स्वीकरणे प्रायः के काठिन्यमनुभवन्ति?
(ङ) कयो: मध्ये चन्द्रस्य छायापातेन सूर्यग्रहणं भवति?
4.मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत
( नौकाम् पृथिवी तदा चला अस्तं )
(क) सूर्यः पूर्वदिशायाम् उदेति पश्चिमदिशि च __ गच्छति।
(ख) सूर्यः अचलः पृथिवी च __।
(ग) __ स्वकीये अक्षे घूर्णति।
(घ) यदा पृथिव्या छायापातेन चन्द्रस्य प्रकाशः अवरुध्यते __ चन्द्रग्रहणं भवति।
(ङ) नौकायाम् उपविष्टः मानवः __ स्थिरामनुभवति
उत्तराणि
(क) सूर्यः पूर्वदिशायाम् उदेति पश्चिमदिशि च अस्तं गच्छति।
(ख) सूर्यः अचलः पृथिवी च चला।
(ग) पृथिवी स्वकीये अक्षे घूर्णति।
(घ) यदा पृथिव्या छायापातेन चन्द्रस्य प्रकाशः अवरुध्यते तदा चन्द्रग्रहणं भवति।
(ङ) नौकायाम् उपविष्टः मानवः नौकाम् स्थिरामनुभवति
5.सन्धिविच्छेदं कुरुत।
ग्रन्थोऽयम् – ........... + ...........
सूर्याचलः – ........... + ...........
तथैव – ........... + ...........
कालातिगामिनी – ........... + ...........
प्रथमोपग्रहस्य – ........... + ...........
उत्तरम्
ग्रन्थोऽयम् – ग्रन्थः + अयम्
सूर्याचलः – सूर्य + अचलः
तथैव – तथा + एव
कालातिगामिनी – काल + अतिगामिनी
प्रथमोपग्रहस्य – प्रथम + उपग्रहस्य
6.(अ) अधोलिखितपदानां विपरीतार्थक पदानि लिखत।
उदयः – ................
अचलः – ................
अन्धकारः – ................
स्थिरः – ................
समादरः – ................
आकाशस्य – ................
उत्तरम् :
उदयः – अस्तम्।
अचलः – चलः।
अन्धकारः – प्रकाशः।
स्थिरः – अस्थिरः।
समादरः – निरादरः।
आकाशस्य – पातालस्य।
(आ) अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत।
संसारे – ................
इदानीम् – ................
वसुन्धरा – ................
समीपम् – ................
गणनम् – ................
राक्षसौ – ................
उत्तरम् :
संसारे – लोके।
इदानीम् – साम्प्रतम्।
वसुन्धरा – पृथिवी।
समीपम् – निकषा।
गणनम् – आकलनम्।
राक्षसौ – दानवौ।
7. अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत।
साम्प्रतम् – ................
निकषा – ................
परितः – ................
उपविष्ट: – ................
कर्मभूमिः – ................
वैज्ञानिक: – ................
उत्तरम् :
साम्प्रतम् – साम्प्रतं गृहगमनं सरलं जातम्।
निकषा – जयपुरं निकषा भव्यदुर्गम् अस्ति।
परितः – शिक्षकं परितः छात्राः सन्ति।
उपविष्ट: - कृष्णः तत्र उपविष्टः।
कर्मभूमिः – हिमाचलप्रदेशः मम कर्मभूमिः वर्तते।
वैज्ञानिक: - न्यूटन् महोदयः महान् वैज्ञानिकः आसीत्।
Comments