top of page

NCERT Sanskrit Class 8 Chapter 4 - सदैव पुरतो निधेहि चरणम्

Updated: Feb 6, 2024

चतुर्थः पाठः


सदैव पुरतो निधेहि चरणम्



CBSE Sanskrit Textbook रुचिरा Ruchira Solutions

NCERT Solutions for Class 8 Sanskrit Chapter 4 - सदैव पुरतो निधेहि चरणम्

Ruchira (रुचिरा) Textbook Questions and answers


1 पाठे दत्तं गीतं सस्वरं गायत -


2. अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखत –


(क)  स्वकीयं साधनं किं भवति?

उत्तरम् : बलम्। 


(ख)  पथि के विषमाः प्रखरा:?

उत्तर : पाषाणाः। 


(ग)  सततं किं करणीयम्?

उत्तरम् : ध्येय-स्मरणम्। 


(घ)  एतस्य गीतस्य रचयिता कः?

उत्तरम् : श्रीधरभास्करवर्णेकरः। 


(ङ)   सः कीदृशः कविः मन्यते?

उत्तरम् : राष्ट्रवादीकविः। 


3. मञ्जूषातः क्रियापदानि चित्वा रिक्तस्थानानि पूरयत


     [ निधेहि विधेहि जहीहि देहि भज चल कुरु ]

यथा – त्वं पुरतः चरणं निधेहि।

(क) त्वं विद्यालयं _____ I

(ख) राष्ट्रे अनुरक्तिं ____ ।

(ग) मह्यं जलं _____ ।

(घ) मूढ ! ___ धनागमतृष्णाम्।

(ङ)  ____ गोविन्दम्।

(च) सततं ध्येयस्मरणं ___ ।


उत्तराणि

(क) त्वं विद्यालयं चल।

(ख) राष्ट्रे अनुरक्तिं विधेहि।

(ग) मह्यं जलं देहि।

(घ) मूढ ! जहीहि धनागमतृष्णाम्।

(ङ) भज गोविन्दम्।

(च) सततं ध्येयस्मरणं कुरु।


4.(अ)  उचितकथनानां समक्षम् ‘आम्’, अनुचित कथनानां समक्षं’न’ इति लिखत।

यथा – पुरतः चरणं निधेहि। [आम्]

(क) निजनिकेतनं गिरिशिखरे अस्ति। [ ]

(ख) स्वकीयं बलं बाधकं भवति। [ ]

(ग) पथि हिंस्राः पशवः न सन्ति। [ ]

(घ) गमनं सुकरम् अस्ति। [ ]

(ङ) सदैव अग्रे एव चलनीयम्। [ ]


उत्तराणि

(क) निजनिकेतनं गिरिशिखरे अस्ति। [आम्]

(ख) स्वकीयं बलं बाधकं भवति। []

(ग) पथि हिंस्राः पशवः न सन्ति। []

(घ) गमनं सुकरम् अस्ति। []

(ङ) सदैव अग्रे एव चलनीयम्। [आम्]


(आ) वाक्यरचनया अर्थभेदं स्पष्टीकरुत।


      परितः   -   पुरतः

      नगः    -   नागः

     आरोहरणम्  -  अवरोहणम्

      विषमाः   -  समाः


उत्तराणि

(i)        परितः – वृक्षं परितः बालकाः क्रीडन्ति।

    पुरतः - विद्यालयस्य पुरतः उद्यानम् अस्ति।


(ii)       नगः – हिमालयः सर्वश्रेष्ठः नगः वर्तते।

   नागः – बिले एकः नागः अस्ति।


(iii)      आरोहणम् – प्रधानाध्यापकः प्रात:काले ध्वजारोहणं करोति।

   अवरोहणम् – सायंकाले ध्वजस्य अवरोहणं भवति।


(iv)      विषमाः – मार्गे विषमाः पाषाणाः सन्ति।

   समाः – सज्जनाः समाः भवन्ति।


5. मञ्जूषातः अव्ययपदानि चित्वा रिक्त-स्थानानि पूरयत


      [ एव खलु तथा परितः पुरतः सदा विना ]


(क) विद्यालयस्य ___ एकम् उद्यानम् अस्ति।

(ख) सत्यम् ___ जयते।

(ग) किं भवान् स्नानं कृतवान् ___?

(घ) सः यथा चिन्तयति ___ आचरति।

(ङ) ग्रामं ___ वृक्षाः सन्ति।

(च) विद्यां _ जीवनं वृथा।

(छ) ___ भगवन्तं भज।


उत्तराणि

(क) विद्यालयस्य पुरतः एकम् उद्यानम् अस्ति।

(ख) सत्यम् एव जयते।

(ग) किं भवान् स्नानं कृतवान् खलु?

(घ) सः यथा चिन्तयति तथा आचरति।

(ङ) ग्रामं परितः वृक्षाः सन्ति।

(च) विद्यां विना जीवनं वृथा।

(छ) सदा भगवन्तं भज।


6. विलोमपदानि योजयत –

पुरतः – विरक्तिः

स्वकीयम् – आगमनम्

भीतिः – पृष्ठतः

अनुरक्तिः – परकीयम्

गमनम् – साहसः


उत्तराणि

पुरतः – पृष्ठतः

स्वकीयम् – परकीयम्

भीतिः – साहसः

अनुरक्तिः – विरक्तिः

गमनम् – आगमनम्


7.(अ)लट्लकारपदेभ्यः लोट-विधिलिङ्लकार पदानां निर्माणं कुरुत –


लट्लकारे लोट्लकारे विधिलिङ्लकारे

यथा - पठति पठतु पठेत्

खेलसि खेल खेले

खादन्ति खादन्तु खादेयुः

पिबामि पिबानि पिबेयम्

हसत: हसताम् हसेताम्

नयामः नयाम नयेम


(आ) अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत

यथा- गिरिशिखर (सप्तमी-एकवचने) गिरिशिखरे

पथिन् (सप्तमी-एकवचने) – __

राष्ट्र (चतुर्थी-एकवचने) –  __

पाषाण (सप्तमी-एकवचने) –  __

यान (द्वितीया-बहुवचने) –  __

शक्ति (प्रथमा-एकवचने) –  __

पशु (सप्तमी-बहुवचने) –  __

उत्तराणि

पथिन् (सप्तमी-एकवचने) – पथि

राष्ट्र (चतुर्थी-एकवचने) – राष्ट्राय 

पाषाण (सप्तमी-एकवचने) – पाषाणे 

यान (द्वितीया-बहुवचने) – यानानि 

शक्ति (प्रथमा-एकवचने) – शक्तिः 

पशु (सप्तमी-बहुवचने) – पशुषु

Comments


bottom of page