top of page

NCERT Sanskrit Class 8 Chapter 9 - सप्तभगिन्यः

नवमः पाठः

सप्तभगिन्यः

CBSE Sanskrit Textbook रुचिरा Ruchira Solutions

NCERT Solutions for Class 8 Sanskrit Chapter 9 - सप्तभगिन्यः

Ruchira (रुचिरा) Textbook Questions and answers


1 उच्चारणं कुरुत -

सुप्रभातम् महत्त्वधायिनी पर्वपरम्पराभिः

चतुर्विंशतिः द्विसप्ततितमे वंशवृक्षनिर्मितानाम्

सप्तभगिन्यः प्राकृतिसम्पद्भिः वेशोद्योगोऽयम्

गुणगौरवदृष्ट्या पुष्पस्तबकसदृशानि अन्ताराष्ट्रियख्यातिम्


2. प्रश्नानाम् उत्तराणि एकपदेन लिखत


(क)  अस्माकं देशे कति राज्यानि सन्ति?

उत्तरम् : अष्टाविंशतिः। 


(ख)  प्राचीनेतिहासे काः स्वाधीनाः आसन्?

उत्तरम् : सप्तभगिन्यः।


(ग)  केषां समवायः ‘सप्तभगिन्यः’ इति कथ्यते?

उत्तरम् : सप्तराज्यानाम्।


(घ)  अस्माकं देशे कति केन्द्रशासितप्रदेशाः सन्ति?’

उत्तरम् : सप्त।


(ङ)   सप्तभगिनी-प्रदेशे कः उद्योगः सर्वप्रमुखः?

उत्तरम् : वंशोद्योगः। 


3. पूर्णवाक्येन उत्तराणि लिखत –


(क)  भगिनीसप्तके कानि राज्यानि सन्ति?

उत्तरम् :

भगिनीसप्तके इमानि राज्यानि सन्ति

·        अरुणाचलप्रदेशः

·        असमः

·        मणिपुरम्

·        मिजोरमः

·        मेघालयः

·        नगालैण्डः

·        त्रिपुरा चेति


(ख)  इमानि राज्यानि सप्तभगिन्यः इति किमर्थं कथ्यन्ते?

उत्तरम् :

‘सप्तभगिन्यः’ इति प्रयोगोऽयं प्रतीकात्मको वर्तते। सामाजिक-सांस्कृतिक-परिदृश्यानां साम्याद् इमानि राज्यानि सप्तभगिन्यः इति कथ्यन्ते।


(ग) सप्तभगिनी-प्रदेशे के निवसन्ति?

उत्तरम् : सप्तभगिनी-प्रदेशे गारो-खासी-नगा-मिजो-प्रभृतयः बहवः जनजातीयाः निवसन्ति।


(घ) एतत्प्रादेशिका: कैः निष्णाताः सन्ति?

उत्तरम् : एतत्प्रादेशिका: बहुभाषाभिः समन्विताः, पर्वपरम्पराभिः परिपूरिताः, स्वलीलाकलाभिश्च निष्णाता: सन्ति।


(ङ)  वंशवृक्षवस्तूनाम् उपयोगः कुत्र क्रियते?

उत्तरम् : वंशवृक्षवस्तूनाम् उपयोगः प्रायः आवस्त्राभूषणेभ्यः गृहनिर्माण-पर्यन्तं क्रियते।


4. रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत

(क) वयं स्वदेशस्य राज्यानां विषये ज्ञातुमिच्छामि।

(ख) सप्तभगिन्यः प्राचीनेतिहासे प्रायः स्वाधीनाः एव दृष्टाः।

(ग) प्रदेशेऽस्मिन् हस्तशिल्पानां बाहुल्यं वर्तते।

(घ) एतानि राज्यानि तु भ्रमणार्थं स्वर्गसदृशानि।

उत्तरम् :

प्रश्ननिर्माणम् –

(क) वयं कस्य राज्यानां विषये ज्ञातुमिच्छामः?

(ख) का प्राचीनेतिहासे प्राय: स्वाधीनाः एव दृष्टाः?

(ग) प्रदेशेऽस्मिन् केषां बाहुल्यं वर्तते?

(घ) एतानि राज्यानि तु भ्रमणार्थं कीदृशानि?


5. यथानिर्देशमुत्तरत 


(क)  ‘महोदये! मे भगिनी कथयति’ अत्र ‘मे’ इति सर्वनामपदं कस्यै प्रयुक्तम्?

उत्तरम् : स्वरायै। 


(ख)  सामाजिक-सांस्कृतिकपरिदश्यानां साम्याद इमानि उक्तोपाधिना प्रथितानि-अस्मिन् वाक्ये प्रथितानि इति क्रियापदस्य कर्तृपदं किम्?

उत्तरम् : इमानि।


(ग)  एतेषां राज्यानां पुनः सङ्घटनम् विहितम्-अत्र ‘सङ्घटनम्’ इति कर्तृपदस्य क्रियापदं किम्?

उत्तरम् : विहितम्। 


(घ)  अत्र वंशवृक्षाणां प्राचुर्यम् विद्यते-अस्मात् वाक्यात् ‘अल्पता’ इति पदस्य विपरीतार्थकं पदं चित्वा लिखत।

उत्तरम् : प्राचुर्यम्। 


(ङ)   ‘क्षेत्रपरिमाणैः इमानि लघूनि वर्तन्ते’-वाक्यात् ‘सन्ति’ इति क्रियापदस्य समानार्थकपदं चित्वा लिखत।

उत्तरम् : वर्तन्ते। 


6.(अ) पाठाचित्वा तद्भवपदानां कृते संस्कृतपदानि लिखत।

तद्भव-पदानि संस्कृत-पदानि

यथा -  सात     सप्त

       बहिन – .............

      संगठन – .............

       बाँस .............

      आज .............

       खेत .............

उत्तरम् :

बहिन          –     भगिनी

संगठन        -    समवायः 

बाँस            -    वंशः

आज           -    अद्य 

खेत            –    क्षेत्रम्


(आ) भिन्नप्रकृतिकं पदं चिनुत –

(क) गच्छति, पठति, धावति, अहसत्, क्रीडति।

(ख) छात्रः, सेवकः, शिक्षकः, लेखिका, क्रीडकः।

(ग) पत्रम्, मित्रम्, पुष्पम्, आम्रः, फलम्, शाखा।

(घ) व्याघ्रः, भल्लूकः, गजः, कपोतः, वृषभः, सिंहः।

(ङ) पृथिवी, वसुन्धरा, धरित्री, यानम्, वसुधा।

उत्तरम् :

(क) अहसत्

(ख) लेखिका

(ग) आम्रः

(घ) कपोतः

(ङ) यानम्


7.विशेष्य-विशेषणानाम् उचितं मेलनम् कुरुत -

विशेष्यपदानि विशेषणपदानि

अयम् संस्कृतिः

संस्कृतविशिष्टायाम् इतिहासे

महत्त्वधायिनी प्रदेशः

प्राचीने समवायः

एकः भारतभूमौ


उत्तराणि


विशेष्यपदानि विशेषणपदानि

अयम् प्रदेशः

संस्कृतविशिष्टायाम् भारतभूमौ

महत्त्वधायिनी संस्कृतिः

प्राचीने इतिहासे

एकः समवायः

Comments


bottom of page